________________
४०८
तत्त्वन्यायविभाकरे
अनध्यवसायस्तु सर्वथा विशेषोल्लेखविधुर इति भावः । सर्वथा कोट्यविषयक इति, सर्वथा विशेषकोट्यविषयक इत्यर्थः । तेन प्राणित्वस्योल्लेखेऽपि न क्षतिः । नन्वतत्प्रकारके वस्तुनि तत्प्रकारकत्वज्ञानमारोप इति लक्षणं विपर्ययेऽन्यथास्थितवस्त्वेककोटिप्रकारकनिश्चयरूपे सङ्ग तमेव, किन्त्वारोपविलक्षणयोस्संशयानध्यवसाययोः कथमारोपरूपतेत्याशङ्कायामाह तथेति, एवञ्च संशये आरोपविलक्षणत्वमेवासिद्धं, वस्तुतोऽनेककोट्यप्रकारके वस्तुनि स्थाण्वादावनेककोटिगोचरत्वादित्याशयेनाहानवस्थितेति, तथा चारोपरूपत्वेऽपि विपर्ययस्यैककोटिविषयकत्वात्संशयस्य च नानाकोटिविषयकत्वाद्भेदेनोल्लेख इति भावः । नन्वेवं तर्हि कोटिविशेषविधुरस्यानध्यवसायस्य कथमारोपता, कथमपि तल्लक्षणाननुवृत्तेरित्यत्राहानध्यवसायस्येति, यथा हि सिंहनिष्ठशौर्यादिगुणसदृशशौर्यादिगुणयोगतो माणवके सिंहत्वं सिंहशब्दश्चोपचर्यते सिंहो माणवक इति, तथैव विपर्ययसंशयात्मकारोपनिष्ठायथार्थपरिच्छेदकत्वरूपगुणसदृशायथार्थपरिच्छेदकत्वगुणयोगेनारोपत्वमारोपशब्दश्चोपचर्यतेऽनध्यवसाय आरोप इतीति भावः । एतेन संशयविपर्यययोरेव वस्तुत्वं नत्वनध्यवसायस्येति मतमपास्तम्, तस्याकिञ्चित्करवेदनरूपत्वात् । सम्यग्ज्ञानानुत्पादकत्वेनावस्तुत्वे संशयविपर्ययोरपि तथात्वापत्तेः, न चारोपलक्षणाभावादवस्तुत्वमिति वाच्यम्, मुख्यवृत्त्या तथात्वेऽप्युपचारवृत्त्याऽऽरोपरूपत्वादित्याशयेनोपचारवृत्त्या भाव्यमित्युक्तम् । इत्येवं प्रमाणपरिपन्थ्यारोपनिरूपणमवसितमित्याहेतीति ॥ इति तपोगच्छनभोमणिश्रीमद्विजयानन्दसूरीश्वरपट्टालङ्कारश्रीमद्विजयकमलसूरीश्वर
चरणनलिनविन्यस्तभक्तिभरेण तत्पट्टधरेण विजयलब्धिसूरिणाविनिर्मितस्य तत्त्वन्यायविभाकरस्य स्वोपज्ञायां न्यायप्रकाश
व्याख्यायां आरोपनिरूपणं
नामाष्टमः किरणः
પરોક્ષ વિષયવાળા અનધ્યવસાયનું વર્ણન ભાવાર્થ – “પરોક્ષ વિષયવાળો અનધ્યવસાય તો, ગોજાતિના પરિજ્ઞાન વગરના પુરુષનું વનનિકંજુમાં સાસ્ના (ગલકંબલ)ના માત્ર દર્શનથી સામાન્યથી પિંડ માત્રનું અનુમાન કરીને, આ પ્રદેશમાં કયો પ્રાણી છે? કયી જાતિવાળું છે? અને કયા નામવાળું છે? આવા વિશેષનાં ઉલ્લેખ વગરનું જ્ઞાન પરોક્ષ વિષય
१. संशयस्यानेकांशानवस्थितप्रतिभासरूपत्वात् विपर्ययस्य च विपरीताकाराध्यवसायस्वरूपत्वाद्वस्तुत्वं, अनध्यवसायस्य तु निस्स्वरूपत्वादवस्तुत्वमिति शङ्काकर्तुराशयः अकिञ्चित्करवेदनत्वं तस्य स्वरूपं सकलस्वभावशून्यत्वे तस्याप्रमाणत्वमपि वक्तुं न शक्यते, अप्रमाणत्वरूपस्वरूपस्य तत्र सत्त्वापत्त्या वस्तुत्वापत्तेरित्याशयेनोत्तरमाह तस्येति ॥