________________
३८५
द्वितीयो भाग / सूत्र - २, अथाष्टमः किरणे न्तर्मुखाकारत्वात् । तन्निष्पाद्यार्थक्रियाभावेन द्वितीयोऽपि पक्षो नोचितः वितथज्ञानविषयीकृतस्य वस्तुनो बाधकज्ञानेनार्थताया बाध्यमानत्वाच्च, तस्मादसदेव तत्तत्र प्रतिभातमिति, तदपि न युक्तम्, रजतत्वव्यपदेशासंभवात्, देशान्तरे विद्यमानस्यास्य प्रथमरूपत्वेऽसत्ख्यातित्वस्य विपरीतख्यातित्वप्रसङ्गात्, सर्वथाऽसतोऽर्थस्य प्रथमरूपत्वे च शशविषाणस्यापि प्रतीतिप्रसङ्गात्, असतस्सद्रूपेण प्रथनत्वस्यापि विपरीतख्यातेरनुल्लंघनात् न च रजतं सदेव तत्संसर्गस्त्वलीको भ्रान्तौ सदुपरागेण भासत इति वाच्यम्, विषयतायास्सद्वृत्तित्वव्याप्यत्वात् अन्यथा गवि शशशृङ्गीयत्वविशिष्टसम्बन्धेन शृङ्गभानापत्तेः । रजतमिदमिति भासमाने वस्तुनि ज्ञानत्वार्थत्वद्वयविकल्पोऽपि न युक्तः, आद्यविकल्पानभ्युपगमात्, द्वितीयस्य चेष्टत्वात्, अर्थविशेषपुयक्तार्थक्रियाविशेषवैधुर्येऽपि तत्सामान्यनिबन्धनाभिलापप्रवृत्त्यादिरूपार्थक्रियायास्तत्राव्याहतत्वात् एवं तर्हि कथं नार्थनिश्चयः इति चेन, अर्थविशेषप्रयुक्तार्थक्रियाकारिण एवार्थव्यवसायात्मकत्वात् । बाधकप्रत्ययेनापि न तद्विषयस्यार्थत्वमपोद्यते, किन्तु मिथ्याज्ञानस्य मिथ्यात्वमेव प्रकाश्यते, ततो नासत्ख्यातिः प्रमाणसहेति ॥ ___ अपरे त्वत्र प्रसिद्धार्थख्यातिमाहुः विपर्ययज्ञाने हि प्रसिद्धस्यैवार्थस्य भानं, न च तद्विषयस्याविद्यमानत्वं विचारासहत्वादिति वाच्यम्, प्रतीतिव्यतिरेकेणान्यस्य विचारस्या नुपपत्तेः प्रतीतिबलेनैव हि करस्थमुक्ताफलादेर्व्यवस्था । तां चात्रापि प्रवर्त्तमानां केन हि निरोद्धं शक्यते । न चोत्तरकाले तत्प्रति साभावेन तद्विषयस्यासत्त्वमिति वाच्यम्, तदानीं तद्विषयस्याभानेऽपि पूर्वप्रतिभासकाले तस्य विद्यमानत्वात्, अन्यथोत्तरकाले तोयबुबुदादीनामप्रतिभासनेन पूर्वप्रतिभाससमयेऽप्यविद्यमानताप्रसङ्गादिति, मनोरमं न तत्, अन्तराप्रमाणसिद्धमर्थस्य प्रसिद्धत्वायोगात्, अन्यथा भ्रान्ताभ्रान्तव्यवस्थासमुच्छेदप्रसक्तेः, नहि संवेदनमिदं भ्रान्तमिदमभ्रान्तमिति निर्णयो निमित्तमन्तरेण कर्तुं शक्यते, सर्वेषामेव यथावस्थितवस्तुव्यवसायित्वात् । प्रतिभाससमये वस्तुनो विद्यमानता कि देशान्तरे शुक्तिकादेशे वा, आद्येऽन्यथाख्यातेरेव नामान्तरत्वापत्तिः दोषमहिम्ना तत्र स्थितस्य शुक्तिदेशे भानाभ्युपगमात् । अन्यथा तत्रैव प्रतिभासस्स्यात् । द्वितीये चोत्तरकालेऽपि तस्य प्रतिभासापत्तेः नहि जलबुद्बुदवदस्य क्षणिकत्वं किञ्चित्कालं स्थिरत्वात् । नेदं रजतमिति बाधकज्ञानस्य शुक्तिकादेशे रजतनिषेधकस्य प्रवर्त्तमानत्वादत्र तस्य विद्यमानत्वासिद्धेश्चेति ॥ १. यो यस्मिन् देशे सत्तामनुभवति तस्य तत्रैव प्रतिभासनं युक्तं, नहि स्तम्भदेशे कुम्भः प्रतिभासत इति भावः ॥