________________
३८४
तत्त्वन्यायविभाकरे वस्थाविशेषाणां प्रतीयमानत्वात् । नापि बाधकप्रत्ययो विवेकं प्रकाशयतीदमन्यद्रजतमन्यदिति, बाधकप्रत्ययेन प्रसक्तरजतत्वाभावस्यैवावगाहनात् न हि सोऽप्रसक्ताविविक्तत्वाप्रतिषेधेन विविक्तत्वमवगमयति, अन्यथा चामीकरादीनामपि प्रतिषेधं कुर्य्यात् । रजतादिविषयकस्वप्ने स्मरणत्वेनाग्रहे रूपान्तरत्वेन च ग्रहे विपरीतख्यात्यापत्तिः, सर्वात्मनाऽग्रहणस्य ग्रहणविरुद्धत्वञ्च स्यात् । चन्द्रद्वयवेदनमपि न दोषाञ्चन्द्रैकत्वाग्रहरूपम्, चन्द्रत्वाग्रहेऽपि द्वित्वानुभवानुपपत्तेः, न च नयनसमाश्रितद्वित्वासंसर्गाग्रह एव चन्द्रे द्वित्वग्रह इति साम्प्रतम्, परोक्षस्य तस्योपस्थित्यभावात् । अनवगतेन्द्रियवृत्त्यैव सर्वत्र रूपादीनां बोधात् । एतेन तिक्ता शर्करेत्यादिव्यवहारस्य पित्तद्रव्यगततिक्तत्वशर्कराग्रहभेदाग्रहनिमित्तत्वं प्रत्युक्तम्, अगृह्यमाणतिक्तत्वस्यैव पित्तस्य शरीरगतस्य ज्वरोत्पादकत्ववद्रसनगतस्य विपरीतप्रत्ययोत्पादक त्वात्, सर्वानुभूयमानसामानाधिकरण्यानुपपत्तेश्च । किञ्चेदं रजतमिति यदि ज्ञानद्वयं तदा तयोः सहैवोत्पादः क्रमेण वा नाद्यः सहज्ञानद्वयोत्पत्त्यनभ्युपगमात् न द्वितीयः प्रत्यक्षात्पूर्वं संस्कारस्यानुद्वोधेन स्मरणासम्भवात् प्रत्यक्षादुत्तरं रजतस्मरणे च प्रत्यक्षादनन्तरं विपरीतव्यापारेऽपि चक्षुषि तदापत्तेः, तस्मात्सकललोकसिद्धं रजतात्मना पुरोवर्तिमानं दुरपह्नवमिति ॥
केचिदिदं रजतमित्यत्र न कश्चिद्विषयतया भासते, रजतसत्ताभानेऽभ्रान्तत्वप्रसक्तेः, विधिमुखतयाऽस्य प्रवृत्तेर्न रजताभावो विषयः, अतदाकारत्वादेव च नापि शुक्तिकाविषयः, नवा रजताकारतया शुक्तिर्विषयः, अन्यस्यान्याकारेण दुर्ग्रहत्वात्ततोऽयमख्यातिरूप एवेति, तन्न, भ्रान्तेनिर्विषयतकत्वे भ्रान्तिसुषुप्तावस्थयोरभेदप्रसङ्गात्, अर्थभानाभानाभ्यां हि तयोविशेषाद्भेदो वाच्यः, स एव त्वया नाभ्युपगम्यत इति, तस्य ज्ञानस्य निर्विषयत्वेऽख्यातिरूपत्वस्याप्यसम्भवाच्च, स्वरूपेण पररूपेण वा कस्यापि ततोऽप्रतिभासे रजतज्ञानमिति व्यपदेशासम्भवाच्चेति ॥ बोद्धास्तु तस्यासत्ख्यातित्वमाचक्षते तथाहि रजतमिदमिति प्रतीयमानं वस्तु ज्ञानं वा स्यादर्थो वा, न प्रथमः, अहं रजतमित्यहत्वसामानाधिकरण्येनाप्रत्ययात् ज्ञानस्या
१. अत्रेदमपि बोध्यम् रजतादिविषयकस्वप्नस्य स्मृतित्वेनाग्रहे त्वयापि संवित्तेः स्वप्रकाशत्वेनाभ्युपगतत्वात्केन रूपेण भानं, यदि स्मृतित्वेन तर्हि केन रूपेणाग्रहः । यदि त्वनुभवत्वरूपेण ग्रह उच्यते तदाऽन्यथाख्यातिः, स्मृतेरनुभवरूपत्वाभावात्, अथ ज्ञानत्वेन, तदपि न सम्भवति ज्ञानत्वव्याप्यस्मरणत्वानुभवत्वशून्यस्य ज्ञानत्ववतः कस्याप्यभावादिति ॥२. पुरोवर्त्तिनं पदार्थं गृहीत्वा पश्चाद्रजतं स्मरामि प्रथमं वा रजतं स्मृत्वा पश्चात् पदार्थममुं गृह्णामीति क्रमेण भवदभिमतज्ञानद्वयप्रादुर्भावस्यानुभवविरुद्धत्वादित्यर्थः ॥ ३. ज्ञानातिरिक्तबाह्यार्थानुपपत्तौ च तदंशे सत्ख्यातिरेव स्यादिति ज्ञानवाद्यभ्युपगतासत्ख्यातिरेव स्यान्नत्वख्यातिरिति स्वसिद्धान्तभङ्गोऽपि स्यादित्यपि बोध्यम् ॥ ४. इदं रजतमिति बहिर्मुखतयैव प्रतिभासनादिति भावः ॥