________________
द्वितीयो भाग / सूत्र - २, अथाष्टमः किरणे
३८३ वेत्राङ्करे दोषरूपोऽपि कदल्यङ्करं प्रत्यनुकूल इति वाच्यम्, अत्रापि दोषस्य सम्यग्ज्ञाने दोषरूपत्वेऽपि मिथ्याज्ञानं प्रत्यनुकूलत्वस्य न्याय्यत्वात्, इदं रजतमिति ज्ञानं न विशिष्टज्ञानं किन्तु ग्रहणस्मरणरूपं ज्ञानद्वयमित्यपि न सम्यक्, रजतार्थिप्रवृत्तिसामान्ये रजतत्वप्रकारक ज्ञानस्य संवादिप्रवृत्तिस्थले समानविशेष्यताप्रत्यासत्या हेतुत्वेन विसंवादिप्रवृत्तिहेतोरपि मिथ्याज्ञानस्यैकत्वसिद्धेः । संवादिप्रवृत्तौ विशिष्टज्ञानं विसंवादिप्रवृत्तौ चोपस्थितेष्टभेदाग्रह इति कल्पने बीजाभावाद्गौरच्च । न चेन्द्रियसंस्काररूपकारणभेदात्कार्यभेद इति युक्तम्, रूपालोक लोचनादिभिरनेकैः कारणैरुत्पद्यमानस्य घटादिसंवेदनस्याप्यनेकत्वप्रसक्तेः, न च विभिन्नज्ञानसामग्रीभेदात्कार्यभेद इति वाच्यम्, इदं रजतमित्यादौ सामग्रीभेदासिद्धेः, चक्षुरादिकारणसमुदायस्यैवात्र कारणत्वात्, न चास्य प्रत्यक्षस्मरणरूपज्ञानद्वयरूपत्वात्सामग्रीभेदोऽनुमेय इति वाच्यम्, अन्योन्याश्रयात् ज्ञानभेदे सिद्धे कारणभेद, तत्सिद्धौ च ज्ञानभेद इति । किञ्च भेदाग्रह इत्यत्र कोऽयं भेदः, वस्तुस्वरूपमात्रं वा परस्पराभावो वा व्यावर्तकधर्मयोगो वा, नाद्यो विद्यमानपदार्थग्राहिपूर्वानुभूतपदार्थग्राहिप्रत्यक्षस्मरणाभ्यां भेदस्य गृहीतत्वात् वत्स्वभिन्नत्वाद्भेदस्य । वैपरीत्येन गृहीतमिति चेद्विपरीतख्यातिप्रसङ्गः । युष्माभिरभावानभ्युपगमादेव न द्वितीयः पक्षो युक्तः, अभ्युपगमे तु स्मृतरजतस्य कथमत्र नाभावज्ञानम्, न च नियतदेशतयाऽवगतस्य दोषमहिम्नाऽनियतदेशत्वेनात्रावगमान्नाभावज्ञानमिति वाच्यम्, नियतदेशस्यानियतदेशत्वेन भानाभ्युपगमाद्विपरीतख्यातिप्रसङ्गात् । न च देशविनिर्मुक्तस्यैव स्मरणान्नान्यथाख्यातिरिति वाच्यम्, पूर्वावगतरजत स्मरणे सति केवलाधिकरणग्रहस्यैव तव मते तदभावोपलम्भरूपत्वात्, न चास्ति शुक्तौ रजताभावः परन्तु दोषमहिम्ना नावगत इति युक्तम् दोषस्य शुक्तिनिष्ठभेदग्रहप्रतिबन्धकत्वकल्पनापेक्षया रजततादात्म्यग्रहहेतुत्वकल्पनाया एव न्याय्यत्वात् । नापि तृतीयः, स्मर्यमाणे रजते व्यावर्त्तकधर्मस्य रजतत्वस्यैव भानात् तस्य व्यावर्तकत्वं पुरोवर्त्तिन्यविद्यमानत्वात् तस्य च तत्र भाने विपरीतख्यातिप्रसक्तेः । अथ गृह्यमाणात्स्मर्यमाणस्य व्यावर्त्तकधर्मेऽवगतेऽपि स्मर्यमाणादृह्यमाणस्य स नावगतः, शुक्तिकायां प्रतिभासमानश्शुक्लत्वादिभिर्न हि सा व्यावर्त्तयितुं शक्यते, तेषां रजतेऽपि सत्त्वादिति चेन्न, देशकालावस्थाशून्यतया स्मर्यमाणाद्रजतात् पुरोवर्तिनोऽनुभूयमानस्य व्यावर्तकानां देशकाला
१. विशेष्यतासम्बन्धेन रजतप्रवृत्तित्वावच्छिन्नं प्रति विशेष्यतासम्बन्धेन रजतत्वप्रकारकज्ञानं कारणम् अत्र कार्यं कारणञ्च रजतेऽस्तीति समानविशेष्यताप्रत्यासत्त्या कार्यकारणभावः, कारणतावच्छेदकाक्रान्तं रजतत्वविशिष्टरजतप्रमाज्ञानं रजतत्वप्रकारकयत्किञ्चिद्विशेष्यकज्ञानञ्च भवति, तस्मादेकेनैव कार्यकारणभावेनोभयत्र निर्वाह इति भ्रमात्मकैकज्ञानस्वीकारे लाघवमिति भावः ॥