________________
३८२
तत्त्वन्यायविभाकरे भवितव्यमिति वाच्यम्, स्वाभाविककार्यजननसामर्थ्यविहननेन प्रतिहतशक्तिकस्य दोषस्य विपरीतकार्योत्पत्तौ तत्सहकारित्वासम्भवात् । नहि कलुषितं गोधूमबीजादिकं व्रीह्यङ्करादिजननसमर्थं दृश्यते । नेतरत्किञ्चित्कारणमस्ति विनिवृत्तेन्द्रियव्यापारस्यापि तथाविधबोधोत्पत्तिप्रसक्तेस्तस्मादिदं रजतमिति प्रत्यक्षस्मरणरूपं ज्ञानद्वयमेव, इदमंशे प्रत्यक्षहेतोरिन्द्रियसन्निकर्षस्य रजतांशे च साधारणरूपादिदर्शनेनोबुद्धसंस्कारस्य पूर्वानुभवजन्यस्य स्मरणहेतोस्सत्त्वात् । तत्रेदमिति ज्ञानं पुरोवर्त्तिशुक्तिकाविषयकं, रजतमिति ज्ञानञ्च परोक्षरजतावगाहि न रजतज्ञानस्य शक्तिकाशकलं विषयोऽन्याकारस्यातिप्रेसङ्गेनान्यविषयकत्वासम्भवात् । न च तत्तानवभासनेन रजतज्ञानं न स्मरणमिति वाच्यम्, तत्तारहितानामपि बहूनां स्मरणस्योपलम्भात्, न च तर्हि कथमिदं रजतमित्येकज्ञानतया भानम्, न तु द्वेत्वेन, रजते चातीतताया नावभास इति वाच्यम्, दोषमहिम्नेदमिति ज्ञानस्य शुक्तिकात्वेन शुक्तिकाया विषयीकरणेऽसामर्थ्येन उभयसाधारणधर्मदर्शनाच्च रजतशुक्त्योस्तज्ज्ञानयोश्च भेदाग्रहेण द्वित्वस्यातीततायाश्चाप्रतिभासनात् । न च सर्वेषामेव यथार्थज्ञानत्वेनेदं रजतमित्यादिबाधकप्रत्ययाः कस्या बाधका भवेयुरिति वाच्यम् । तेषामिदमन्यद्रजतमन्यदिति विवेकस्य प्रकाशकत्वेनैव बाधकज्ञानत्वात्, न तु रजतज्ञानस्यासत्यत्वप्रकाशकत्वेन । स्वप्नज्ञानस्यैकत्वेऽपि तस्य स्मृतित्वेनाग्रह एव विवेकाग्रहः । न च सदृशदर्शनमन्तरेण तस्य कथं स्मृतित्वमिति वाच्यम्, निद्रोपद्रुतस्य मनस एव तत्र निमित्तत्वात् । एवं चन्द्रद्वयज्ञाने द्विधाकृतया नयनवृत्त्या चन्द्रैकत्वाग्रहणं दोषात् तिक्ता शर्करेत्यादौ च पित्तद्रव्यगततिक्तग्रहशर्कराग्रहयोर्भेदाग्रहद्विवेकाख्यातिः । सर्वत्रैवं सम्यग्ग्रहणस्यैव तदर्थत्वम्, न तु शुक्तौ रजतप्रतीतिः, ज्ञानान्तरेऽपि मिथ्यात्वसम्भावनया सर्वत्रानाश्वासेन प्रवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः स्यादिति चेन्मैवम्, शुक्ताविदं रजतमिति प्रत्ययस्य स्वाकारसंवरणरजतरूपापत्तिपरिणामविशेषवत्याश्शुक्तेरेवालम्बनत्वात्, दुष्टेन्द्रियादीनामेव तादृशज्ञानहेतुत्वात् । कार्यप्रतीतौ हि न कारणाभावशङ्का युक्तिमती, प्रतीयते चात्रैकज्ञानात्मकमिदं रजतमिति कार्य, तदनुरोधेन च कारणस्य कल्पना उचिता दावानलदग्धवेत्रबीजात्कदलीप्रकाण्डोत्पत्तिदर्शनाच्च दुष्टकारणस्य स्वकार्यानुत्पादकत्वे सति विपरीतकार्यस्याप्युत्पादकत्वात् । न च दावानलो
१. परोक्षेति पदेन रजते इन्द्रियसन्निकर्षाभावस्सूचितः, रजतस्यातिविप्रकृष्टत्वात् लिङ्गाद्यनुपलम्भेन चानुमानादिविषयत्वासम्भवाद्रजतज्ञानं स्मृतिरूपमेवावसेयम् ॥ २. तत्तज्ज्ञाने सकलविषयप्रतिभासप्रसङ्गेन सर्वज्ञानानां समस्तविषयकत्वं, सर्वेषाञ्च सर्वज्ञत्वं स्यादित्यतिप्रसङ्गः तथाऽन्याकारज्ञानस्यान्यविषयकत्वे स्वविषयव्यभिचारित्वेन सर्वज्ञानेषु विश्वासासम्भवात्, कुत्रापि कस्यापि प्रवृत्तिनिवृत्तिर्न स्यादित्यप्यतिप्रसङ्ग इति भावः ॥३. एकत्वेऽपि स्मृतिरूपत्वेऽपि, न स्वप्नं प्रत्यक्षं, इन्द्रियव्यापाराभावात् ॥४. तिमिरादिदोषादित्यर्थः॥