________________
तत्त्वन्यायविभाकरे
अन्ये तु शुक्तिकायां रजतं यच्चकास्ति तस्य बाह्यतया प्रतिभानं न संभवति, बाधकप्रत्ययेन तब्दाह्यतायाः प्रतिषेधात् ततो ज्ञानात्मन एवायमाकारोऽनादिवासनामाहात्म्यात्–बहिरिव परिस्फुरतीत्यात्मख्यातिरेवेयमित्याहुः, तेऽपि न प्रेक्षावन्तः, नेदमिति बाधकेनान्यत्र वर्त्तमानस्य रजतादेश्शुक्तिकादेशस्थत्वस्यैव बाधनेन तद्बाह्यतामात्रस्याबाधनात् । नाप्यात्मा वासनया बहिरिव परिस्फुरतीति युक्तम्, तथाहि सा वस्तुस्वरूपा, अवस्तुस्वरूपा वा, नान्त्यो गगनकुसुमायिततया तस्या रजतव्यवस्थापकत्वासम्भवात् न प्रथमो ज्ञानाद्भिन्नत्वे तस्यास्त्वदभ्युपगतज्ञानाद्वैतक्षतेः ज्ञानाभिन्नत्वे ज्ञानाकारो ज्ञानाकारमाहात्म्याद्बहिरिव प्रतिभासत इत्युक्तं स्यात्, तथा च सति तदेव साध्यं साधनमित्यविशेषप्रसङ्गः, ततो न वासना युक्तिमती । ज्ञानाकारस्यैव रजतस्य संवेदने चाहं रजतमित्यन्तर्मुखतया प्रतीतिः स्यात् । न त्विदं रजतमिति बहिर्मुखतया, ज्ञाननिष्ठोऽपि रजताकारोऽनादिवासनामाहात्म्याच्छुक्तिनिष्ठतया प्रतिभासत इत्यभ्युपगमे चान्यथाख्यात्यङ्गीकारापत्तिः स्यात्, न च भ्रान्तयः स्वाकारमेव रजतादिकं बही - रूपतया प्रकाशयन्तीति वाच्यम्, प्रमाणाभावात्, अनुभवस्य रजतज्ञानाकारासाक्षित्वात्, इदन्तया कलधौतस्यैव भासकत्वात्, शुक्तिकायां रजताकारताप्रतिषेधकत्वेन च बाधकज्ञानस्यापि तत्राप्रमाणत्वात् । न च रजते पुरोवर्त्तिशक्त्याकारत्वस्य प्रतिषेधेऽर्थतो बोधाकारत्वस्य सिद्धिरिति वाच्यम्, तत्प्रतिषेधेऽर्थतो देशान्तरसत्त्वस्यैव सिद्धेः, दृष्टातिक्रमेणादृष्टज्ञानाकारत्वकल्पने बीजाभावात्, नेदं रजतमपि तु शक्तिकाशकलमित्युल्लेखेन निषेधानुपपत्तेः, तव मते शुक्तिकायां रजतस्याप्रसक्तत्वात् शुक्तिरियं मया रजतत्वेन ज्ञातेति प्रत्यभिज्ञानुपपत्तेः,. आन्तरं कलधौतं बहीरूपतया ज्ञातमिति प्रत्यभिज्ञाया एवापत्तेः । ज्ञानस्य बाह्यार्थाविषयकत्वे रजताकारोल्लेखेनेव नीलाद्याकारोल्लेखेनापि प्रवृत्त्यापत्तेर्नियामकाभावात्, वासनाया एव रजतदेशकालादीनामसतामवभासे नियामकत्वे चासत्ख्यात्यापत्तेश्चेति ॥
३८६
वेदान्तिनस्तु अनिर्वचनीयख्यातिमाहुस्तथाहि नात्र शुक्तौ भासमानं रजतं सत्, तथात्वे तद्बुद्धेर्वास्तवरजतबुद्धिवदभ्रान्तत्वं स्यात्, असत्त्वे तु तस्य गगनारविन्दवत्प्रतिभासप्रवृत्त्योरविषयत्वप्रसङ्गः, सदसद्रूपत्वे तूभयपक्षोपक्षिप्तदोषानुषङ्ग इत्यनिर्वचनीयमेवेदमिति, तदपि न सुन्दरम्, शुक्तौ रजतभ्रमे विषयभूतशुक्तिशकलस्य स्वपररूपाभ्यां सदसद्रूपस्याव्याहतत्वात्, न
१. नहि तत्प्रकारतया प्रतिभासमात्रेण तस्य तत्प्रकारकत्वमेव स्वीकर्तुं युज्यते, भ्रान्त्युच्छेदापत्तेरिति भावः ॥ २. रजतानुभवस्येत्यर्थः, स हि रजतमिदन्त्वेनैव बोधयति, न तु ज्ञानाकारत्वेन, येन प्रमाणं भवेदिति भावः । तत्र बाधकप्रत्ययो ऽपि न प्रमाणमित्याह शुक्तिकायामिति ॥