________________
द्वितीय भाग / सूत्र - ८, सप्तमः किरणे
अशुद्धद्रव्यव्यञ्जनपर्यायो नरदेवनारकतिर्यक्रूपः, शुद्धगुणव्यञ्जनपर्यायः केवलज्ञानादिरूपः अशुद्धगुणव्यञ्जनपर्यायो मतिश्रुतावधिमनःपर्यवरूपः । ऋजुसूत्रमतेन क्षणपरितोऽर्थपर्यायः शुद्धः, यो यस्मादल्पकालवर्त्ती स तस्मादल्पत्वविवक्षयाऽशुद्धार्थपर्यायः, यथा नरत्वं व्यञ्जनपर्यायस्तथा बालत्वादिकमर्थपर्याय इति । शुद्धगुणव्यञ्जनपर्यायस्य केवलस्यापि प्रतिक्षणं भेदात् तत्पर्यायश्शुद्धगुणस्यार्थपर्यायः । शुद्धद्रव्यव्यञ्जनपरमाणुश्शुद्धपुद्गलपर्यायस्तस्याविनाशित्वात्, संयोगजनिता द्व्ययणुकादिका अशुद्धद्रव्यव्यञ्जनपर्यायाः । परमाणुगुणश्शुद्धगुणव्यञ्जनपर्यायः, द्विदेशादिका गुणा अशुद्धगुणव्यञ्जनपर्यायाः । एवं धर्मादिष्वपि भाव्यम् । ननु य एव गुणाः क्रमेण सह वा भवन्ति त एव च पर्याया इति कथं तेषां भेद उक्त इत्यत्राहाभिन्नेति, सदैव सहवर्त्तित्वाद्वर्णगन्धरसादयस्सामान्येन गुणा उच्यन्ते नहि मूर्त्ते वस्तुनि वर्णादिकं कदाचिदपि व्यवच्छिद्यते, वर्णविशेषाणां कृष्णनीलादीनामपि प्रायः प्रभूतकालं सहवृत्तित्वाद्गुणत्वमेवं जीवधर्मादीनां भाव्यम् । विभिन्नेति । एकगुणकालकत्वादयो विभिन्नाः पर्याया द्रव्यस्यावस्थान्तरप्राप्तिरूपाः पर्याया इत्यर्थः । त्रैलोक्यगतस्य सर्वस्यापि कालस्यासत्कल्पनया यो गुणोंऽशस्सर्वजघन्यः तेन कालकः परमाण्वादिरेकगुणकालक उच्यते, एवं द्वयादिगुणकालकादयो भाव्याः । वस्तुवस्तु नास्ति गुणस्य पर्यायस्य च कश्चन भेदः, द्रव्यपर्यायनयद्वयातिरिक्तनयस्य भगवद्भिरंनुपदेशात् । पर्यार्याभिन्ने गुणविशेषे ग्राह्ये सति हि तद्ग्राहकगुणास्तिकनयोऽपि स्यादेव, अन्यथा नयानामव्यापकता स्यान्न चायमादिष्टो भगवद्भिः ततोऽसौ न भिन्नः, गुणानाञ्च पर्यायत्वे गुणपर्यायवद्द्रव्यमित्यादिवचनं युगपदयुगपद्भाविपर्यायविशेषप्रतिपादकमेव, अत एव य एव पर्यायस्स एव गुण इत्याद्यागमोऽपि सङ्गच्छते, एतेन गुणविकार: पर्याय इति व्युदस्तम्, गुणस्यैव पर्यायोपादानकारणत्वे द्रव्यप्रयोजनस्य गुणेनैव सिद्धत्वाद्गुणपर्याययोरेव पदार्थत्वप्रसङ्गेन द्रव्यस्यानर्थकत्वापत्तेः, न च द्रव्यपर्यायगुणपर्यायरूपकार्यभेदेन द्रव्यगुणरूपकारणभेदान्न द्रव्यं निष्फलमिति वाच्यम्, अन्योऽन्याश्रयात्, कारणभेदे सति कार्यभेदः कार्यभेदे च कारणभेदस्सिद्ध्यतीति । तदेवं द्रव्यपर्यायात्मानौ सामान्यविशेषावेकं वस्तु, प्रतिभासभेदेऽप्यव्यतिरिक्तत्वात् यत्प्रतिभासभेदेऽप्यव्यतिरिक्तं तदेकं यथा मेचकज्ञानम् यथा च द्रव्यपर्यायौ न व्यतिरिच्येते तस्मादेकं वस्त्विति, न चायमसिद्धो हेतुः केवलद्रव्यस्य केवलपर्यायस्य वस्तुत्वे हि स्यादसिद्धिः, तदेव
३६५
१. न चैवमपि मतुब्योगाद्रव्यभिन्नगुणपर्यायसिद्धिरिति वाच्यम्, नित्ययोगो मतुब्विधानात् द्रव्यपर्याययोस्तादात्म्यात् सदा निर्विभागवर्त्तित्वात् अन्यथा प्रमाणबाधापत्तेः । संज्ञासंख्यास्वलक्षणार्थक्रियाभेदाद्वा कथञ्चित्तयोरभेदेऽपि भेदसिद्धेर्न मतुबनुपपत्तिरिति ॥