________________
३६६
तत्त्वन्यायविभाकरे
नास्ति क्रमयौगपद्यविरोधेनार्थक्रियाऽसम्भवात् न च क्रमयौगपद्यविरोधास्तत्रासिद्ध इति साम्प्रतम्, द्रव्यस्य पर्यायस्य वा सर्वथैकस्वभावस्य क्रमयौगपद्यादर्शनात् अनेकपर्यायात्मन एव द्रव्यस्य तदुपलम्भात् । न च द्रव्यपर्याययोर्वास्तवत्वेऽप्यभेदोऽसिद्धः घटादिद्रव्याद्रूपादिपर्यायाणां ज्ञानप्रतिभासभेदात्, घटपटादिवदिति वाच्यम्, तस्यैकत्वाविरोधित्वात्, उपयोगविशेषाद्धि रूपादिज्ञानप्रतिभासभेदो न स्वविषयैकत्वं निराकरोति, सामग्रीभेदेऽयुगपदेकार्थोपनिबद्धविशदेतरज्ञानवत् । नापि विशेषणविरुद्धो हेतु:, विशेषणस्य प्रतिभासभेदस्याव्यतिरिक्तत्वहेतुना विरोधासिद्धेः । नन्वंव्यतिरिक्तत्वमैक्यमेव, तथा च साध्याविशिष्टो हेतुरिति चेन्न कथञ्चिदप्यशक्य विवेचनत्वस्याव्यतिरिक्तत्वस्य हेतुत्वेन प्रयोगात् । न चाशक्यविवेचनत्वमप्यसिद्धमिति वाच्यम्, विवक्षितद्रव्यपर्यायाणां द्रव्यान्तरं नेतुमशक्यत्वस्य सुप्रतीतत्वात्, वेद्यवेदकाकारज्ञानवत् तदाकारयोर्ज्ञानान्तरं नेतुमशक्यत्वस्यैव तस्याभिमतत्वात् । न च द्रव्यपर्याययोरयुतसिद्धत्वादशक्यविवेचनत्वमिति वाच्यं यतः किमिदमयुतसिद्धत्वं न तावद्देशाभेदः पवनातपयोस्तत्प्रसङ्गात् नापि कालाभेदस्तत एव । स्वभावाभेद इत्यपि न, सर्वथा तथात्वे विरोधात् कथञ्चिच्चेत्तदेवाशक्यविवेचनत्वम् । स एवाविष्वग्भावः समवाय इति परमतप्रसिद्धः, अन्यथा तस्याघटनात् । न च धर्मिग्राहकप्रमाणेन बाधनाद्द्बाध इति वाच्यम्, तेन धर्मिणोः कथञ्चिद्भिन्नयोरेव ग्रहणात् । सर्वथा भिन्नयोर्द्रव्यपर्यायत्वासम्भवात् । न च द्रव्यपर्याययोर्भिन्नयोः कथमभेदो विरोधादिति वाच्यम्, तथोपलम्भात् मेचकज्ञानवत् नहि तत्र विरोधवैयधिकरण्यसंशयव्यतिकरसङ्करान-वस्थाऽप्रतिपत्त्यभावाः प्रसज्यन्ते, तेषां तथाप्रतीत्या दूरोत्सारितत्वोक्तत्वात् । तस्मात्सिद्धं द्रव्यपर्याययोः कथञ्चिदैक्यमिति ।।
પર્યાયોનું નિરૂપણ
ભાવાર્થ “द्रुभभावी धर्म (विशेष) 'पर्याय' छे. प्रेम -आत्मामां सुख-दुःख, हर्ष-विषाह વગેરે. અભિન્નકાળ-સમકાળમાં વર્તમાન ધર્મો ગુણ છે, ભિન્નકાળમાં-સમકાળમાં નહિ. વર્તમાન ધર્મો 'पर्यार्यो' छे.
१. पृथगाश्रयानाश्रयित्वं पृथगगतिमत्त्वरूपमप्ययुतसिद्धत्वं नाशक्यविवेचनत्वादन्यदित्यपि बोध्यम् ॥ २. एवं द्रव्यपर्यायोरेकत्वे भेदः कथं सिद्धयतीति चेत्परस्परविविक्तस्वभावपरिणामसंज्ञासंख्याप्रयोजनादिभ्य इत्यवेहि, द्रव्यं हि अनाद्यनन्तैकस्वभाववैस्त्रसिकपरिणामं, पर्यायश्च साद्यन्तानेकस्वभावपरिणामः, द्रव्यस्य द्रव्यमिति पर्यायस्य पर्याय इत्यन्वर्थसंज्ञाभेदः, एकं द्रव्यमित्येकत्वसंख्या द्रव्ये, पर्याया बहव इति पर्याये बहुत्वसंख्येति संख्याभेदः, द्रव्यस्यैकत्वान्वयज्ञानादिकं पर्यायस्यानेकत्वव्यावृत्तिज्ञानादिकं प्रयोजनमिति प्रयोजनभेदः, द्रव्यं त्रिकालगोचरं पर्यायो वर्त्तमानकाल इति काल भेदः इति । एवञ्च द्रव्यपर्यायात्मकं वस्तु स्यान्ननेक स्वलक्षणभेदात्, स्यादेकमेवाशक्यविवेचनत्वात् स्यादुभयमेव क्रमार्पितद्वयात्, स्यादवक्तव्यमेव, सहार्पितद्वयाद्वक्तुमशक्यत्वात्, स्यान्नानाऽवक्तव्यमेव, विरुद्धधर्माध्याससहार्पितद्वयात् । स्यादेकमवक्तव्यमेव, स्यादुभयावक्तव्यमेव, क्रमाक्रमार्पितद्वयादिति सप्तभङ्गी भाव्येति भावः ॥
अशक्यविवेचनसहार्पितद्वयात्