________________
तत्त्वन्यायविभाकरे
योस्संख्यासंज्ञालक्षणकार्यभेदाद्भेदो देशकालस्वभावाभेदाच्चाभेदः, एको हि घटो रूपादयो बहव इति संख्याभेदः घटो रूपादय इति संज्ञाभेदः, अनुवृत्तिलक्षणं द्रव्यं नित्यञ्च व्यावृत्तिलक्षणाः पर्यायाः क्षणिकाश्चेति लक्षणभेदः घटेनोदकाहरणं क्रियते, रूपादिभिस्तु वस्तुराग इति कार्यभेदः, देशादिभिस्त्वभेदः, न च स्वभावतो भेदाभावे धर्मधर्मिणोस्संख्यादितोऽपि कथं भेदस्स्यादिति वाच्यम्, द्रव्यपर्याययोर्हि स्वभावभेदे प्रतिषिद्धे सत्यभेदः साध्यः, स च सम्बन्धः । सम्बन्धश्चैकस्यैवात्मनो न सम्भवति द्वयनिष्ठत्वादस्य, नहि घटो घटादभिन्न इति कदाचिदपि व्यवहारः प्रवर्त्तमानस्समुपलभ्यते, न चैकत्रापि दृष्ट एव व्यवहारो यथा घटस्य तत्स्वरूपस्य चाभेद इतीति वाच्यम्, तत्रापि कथञ्चिद्भेदाश्रयणात् घट इति धर्मिवचनश्शब्दः, स्वरूपन्तु स्वरूपं स्वरूपमिति तस्यैव भावस्यानित्यत्वादिरूपं धर्ममाह, तस्माद्द्रव्यपर्याययोरयमेव स्वभावविशेषो यन्नेतराननुविद्धमेकस्यापि किञ्चिदात्मीयं रूपम्, अत एव न तद्द्रव्यमित्येव व्यपदिश्यते नापि पर्याया इत्येव, किन्तु सप्तभङ्गया प्राङ्गिरूपितया, इत्थमेव वस्तुस्वरूपतोपत्तेः । न च संख्यादयः पररूपाभिद्यमाना अपि कथमात्मभूतमभेदं न बाधितुं समर्था इति वाच्यम्, यतो नास्माकं नैयायिकादीनामिवैकान्तेन भावव्यतिरेकिणः केचित्संख्यादयोऽपि, किन्तु स एवं भावो भेदाभेदतया व्यवस्थितः कदाचिदनेकत्वप्राधान्येन विवक्ष्यते कदाचिदेकत्वप्राधान्येन, ततो यदाऽनेकत्वप्राधान्येन विवक्षितस्तदा स एव रूपादिपर्यायात्मको भवति, एकत्वप्राधान्येन विवक्षितस्तु स एव द्रव्यमिति, तदेवं प्रमाणप्रतिपन्नत्वेन भेदाभेदात्मकं वस्तित्वति ॥ एवमुत्पादव्ययध्रौव्ययुक्तत्वं वस्तुनः, न चोत्पादव्यययोघ्रव्येण विरोध इति वाच्यम्, कथञ्चिदुत्पादव्यययोः कथञ्चिद् ध्रौव्यस्य च स्वीकारात् न च यथोत्पादव्ययौ न तथा ध्रौव्यं यथा ध्रौव्यं तथा नोत्पादव्ययाविति नैकं वस्तु यथोक्तलक्षणं स्यात्, यद्धि यत्प्रकारव्यवच्छेदेन व्यवस्थाप्यते न तत्र तत्प्रकारसम्भवः यथा नीलप्रकारव्यवच्छेदेनानीलप्रकारव्यवस्थायां पीते । अस्ति चोत्पादव्ययवच्छेदेन ध्रौव्यव्यवस्थापनं ध्रौव्यव्यव
३४६
१. अत्र स्थित्यादीनां हि वस्तुनो यद्यभेदस्तदा स्थितिरेवोत्पत्तिविनाशौ, विनाश एव स्थित्युत्पत्ती, उत्पत्तिरेव च विनाशावस्थाने इति प्राप्तम्, एकस्मादभिन्नानां स्थित्यादीनां भेदविरोधात् तथा च कथं त्रिलक्षणत्वं स्यात् भेदस्तर्हि प्रत्येकं स्थित्यादीनां त्रिलक्षणत्वप्रसङ्गः, सत्त्वात्, अन्यथा स्थित्यादीनामसत्त्वापत्तेः, तथा चानवस्था स्यादिति पूर्वपक्ष:, पक्षद्वयमपि कथञ्चिदिष्टमस्माकम्, तत्र स्थित्यादिमतस्सकाशात्कथञ्चिदभेदोपगमे स्थित्यादीनां स्थितिरेवोत्पद्यते, उत्पद्यमानद्रव्याभेदसामर्थ्याच्च विनश्यति, विनाश एव तिष्ठति, सामर्थ्यादुत्पद्यते च उत्पत्तिरेव नश्यति सामर्थ्यात्तिष्ठतीति च ज्ञायते इति त्रिलक्षणजीवादिपदार्थाभिन्नानां स्थित्यादीनामपि त्रिलक्षणत्वसिद्धेः, एतेनैव च ततस्तेषां भेदोपगमेऽपि प्रत्येकं त्रिलक्षणत्वसिद्धिः, न चानवस्था, सर्वथा भेदपक्षे तत्प्रसक्तेः, न स्याद्वादपक्षे, येन हि स्वभावेन त्रिलक्षणात्तत्वादभिन्नाः स्थित्यादयस्तेन प्रत्येकं त्रिलक्षणा: पर्यायार्पणात्परस्परं तद्वतश्च भिन्ना अपीष्यन्ते, तथा प्रतीतेर्बाधिकासम्भवादित्युत्तरपक्षः ॥