________________
द्वितीयो भाग / सूत्र - ४, सप्तमः किरणे.
३४७
च्छेदेन चोत्पादव्ययव्यवस्थापनम्, उत्पादस्य वस्तुभावत्वात् विनाशस्य व्ययत्वात्, अवितरूपस्य ध्रौव्यत्वादिति भिन्नप्रकारत्वं तेषामिति वाच्यम्, एकान्तोत्पादव्ययध्रौव्याणामनभ्युपगमात् किन्तु स्याद्वादं निष्कलङ्कितमति- समुत्प्रेक्षितमाश्रित्य कथञ्चिदेव तद्व्यवस्थापनाङ्गीकारात् । एकान्ताभ्युपगमे ह्युत्पादव्ययध्रौव्याणां यथोक्तो व्यवच्छेदस्सम्भवत्यन्यथा विरोधायोगात् । स्याद्वादाश्रयणात्तु नान्यव्यवच्छेदेनान्यव्यवस्थापनं किन्तु यत एव तद् ध्रौव्यमुत्पादव्ययानुविद्धमत एव तत्कथञ्चिद् ध्रौव्यमुत्पादव्ययावपि, यत एव ध्रौव्यानुविद्धावत एव तौ कथञ्चि-दुत्पादव्ययाविति । ननु कोऽयमनुवेधो नाम, किमभेदो भेदो भेदाभेदो वा, नाद्यः एकरूपतापत्तेः, अन्यथा तदयोगात्, भेदे तु भिन्नमेव रूपद्वयं स्यात्, भेदाभेदपक्षस्तु विरोधव्याहत इति तन्न, अभिप्रायापरिज्ञानात्, यतो यदेतद् ध्रौव्यामप्रच्युतानुत्पन्नस्थिरैकरूपं न भवति, अपि तु परिणामात्मकं तदुत्पादव्ययावप्युच्यते, न पुनस्तावितो व्यतिरिक्तावेव कौचिदपि स्तः, अत एवोत्पादव्ययावपि यौ तौ नात्यन्तिकभिन्नौ, किन्तु वस्तुन एव परिणामात्मकौ तौ ध्रौव्यमप्युच्येते, न पुनस्तदपि किञ्चिदेतद्व्यतिरिक्तमस्तीति, तदेवं या यथोक्तरूपता वस्तुनस्सोऽयमनुवेधः न पुनरत्र भिन्नस्य कस्यचिदभेदापादनमत्यन्तभेदो वा, तस्मादुत्पादव्ययध्रौव्यात्मकमेव वस्तु इति, इतरथा वस्त्वेव तन्न स्यादिति ॥ एवमभिलाप्यानभिलाप्यात्मकं वस्तु, अस्यैव प्रमाणसिद्धत्वात् तथाव्यवहारोपपत्तेश्चान्यथा व्यवहारोच्छेदप्रसङ्गात् तथाहि वस्तु यदैकान्तेनानभिलाप्यमेव तदा तथाविधशब्दात्तथाविधार्थप्रतीत्यनुदयप्रसङ्गः स्यात्, दृश्यते चानलाद्यानयेत्युक्ते तत्प्रतीतिस्तत्पूर्विका वह्न्यादौ प्रवृत्तिस्तत्समासादनं समासादिते च तथा निवेदनमिति कथञ्चिदभिलाप्यत्वसिद्धिः अपि चानभिलाप्यतैकान्ते स्ववचनविरोधापत्तिरनभिलाप्यतैकान्तशब्देनानभिलाप्यतैकान्तस्याभिधानात् । अनभिलाप्यतैकान्तस्याप्यनभिलाप्यत्वे कुतः परस्य प्रतिपादनं स्यात्, परमार्थतो न कश्चिद्वचनात्प्रतिपाद्यते चेत्स्वयं कथमवाच्यताप्रतिपत्तिः, वस्तुनि वाच्यतानुपलब्धेरिति चेत्सा यदि दृश्यानुपलब्धिस्तदा सिद्धा क्वचिद्वाच्यता, क्वचित्सिद्धसत्ताकस्यैव कुम्भादेर्दृश्यानुपलब्धिवशादभावप्रतीतेः । अथादृश्यानुपलब्धिः न तर्हि वस्तुनि वाच्यत्वाभावनिश्चयः, स्याद्वादाश्रयणे तु न कश्चिद्दोषः कथञ्चिद्वाच्यत्वावाच्यत्वयोर्वस्तुनि प्रतीतेः, न खल्वेकान्तेनाभिलाप्यस्वभावं वस्तु _भक्त्युपलम्भभाजनम्, अभिलाप्ययोग्यपर्यायैरेव स्थूलेः कालान्तरस्थायिभिर्व्यञ्जनपर्यायापराभिधानैश्चेतनाचेतनस्य सकलवस्तुनोऽभिलाप्यत्वप्रतीतेः, न पुनरनभिलापयोग्यपर्यायैरपि । नाप्येकान्तेनानभिलाप्यस्वरूपमुपलब्धिभाजनमनभिलापयोग्यपर्यायैरेव सूक्ष्मैः प्रतिक्षणभावि
,