________________
३४५
द्वितीयो भाग / सूत्र - ४, सप्तमः किरणे भेदाभेदकल्पनाऽसम्भवानोक्तदोषप्रसङ्ग इति वाच्यम्, अस्थितेस्तद्धर्मत्वप्रसङ्गस्य दुर्वारत्वात्, स्थित एव ह्यस्थितो भवति तथा च यथा स्थितत्वं तद्धर्मस्तथाऽस्थितत्वमपीति, अतद्धर्मत्वे वा स्थित्यापत्तेः । ततश्च स्वहेतुभ्य एव स्थित्यस्थितिधर्मकं समुत्पद्यत इति प्रतिपत्तव्यम्, न चाक्रमवतः कारणात्क्रमवद्धर्माध्यासितकार्योत्पत्तियुज्यते तथा च तदैव स्थितियदैवास्थितिः स्यात् कुतः क्षणस्थितिधर्मकत्वमतो न विज्ञानादिकार्ययोगः, नित्यानित्यं पुनः कथञ्चिदवस्थितत्वादनेकस्वभावत्वाज्जनयति विज्ञानादिकमतोऽवगम्यते, नित्यानित्यत्वञ्च वस्तुनो द्रव्यपर्यायोभयरूपत्वादनुवृत्तव्यावृत्ताकारसंवेदनग्राह्यत्वात्प्रत्यक्षसिद्धमेव ।न चास्य स्वसंवेद्यस्यापि संवेदनस्यापह्नवः कर्तुं युज्यते प्रतीतिविरोधात्, न चेदं भ्रान्तम्, देशान्तरे कालान्तरे नरान्तरेऽवस्थान्तरे च मृत्पिण्डादिषु तादृशसंवेदनस्य प्रवृत्तेरिति । एवं भेदाभेदात्मकमपि वस्तु प्रत्यक्षेणावगम्यते, तथाहि मृन्मृदित्यनुगताकारप्रत्ययवेद्यं वस्तुनो रूपमभेदः, तस्य यच्छिवक स्थासकघटकपालादिना भेदेन भवनं स भेदः, अभेदस्यैव च भेदरूपेण भवनादविरोधेन तदुभयस्वरूपत्वं वस्तुनः । नन्वभेदस्य भेदेन भवनमसङ्गतम्, एकस्वभावत्वं ह्यभेदो नानारूपत्वञ्च भेदस्तयोस्तु परस्परं विरोधानकत्र तौ सम्भवतः, ततो यद्ययमभेदस्तदा न कदाचिद्भेदो भवेत् भावानां स्वभावान्यथात्वाभावात्, न च भावस्स्वभावापरिहारेणैव भेदरूपतामासादयतीति वाच्यम्, भेदाभेदयोः परस्परविरुद्धयोरेकस्वभावत्वायोगात् भेदोपलम्भस्याभेदप्रतिषेधाऽऽवेदकत्वात् । अन्यथा एतत्सकलस्तम्भेभकुम्भाम्भोजभास्करादिकमेकस्यैव ब्रह्मणो रूपमित्यपि स्यात् । तस्मान्नाभेदो भेदमासादयति, तन्न युक्तम्, सर्वथा भेदाभेदयोहि स्याद्विरोधोऽयन्तु भेदोऽभेदश्च विलक्षणः, स्यादभेदस्य स्याद्भेदे को विरोधः ? यत एव ह्ययं भेदो भवत्यत एव स्यादभेदः, न च भेद एव कुतो नेति वाच्यम् सर्वथा नानात्वाभावात्, प्रमाणाधीना हि प्रमेयव्यवस्था, ततस्तत्र यस्सर्वथैकरूपतः प्रकाशतेऽसावभेदो भवति, सर्वथा नानारूपतया तु प्रतिभासमानो भेदः, यस्तु न सर्वथैकरूपः प्रकाशते न च सर्वथैव नानास्वभावः स नाभेद एव न च भेद एव अपितु भेदाभेदाख्यं जात्यन्तरमेवेदम्, दृश्यते हि द्रव्यपर्याय
१. अभ्यन्तरीकृतपर्यायत्वाद् द्रव्यात्मना नित्यं, अभ्यन्तरीकृतद्रव्यत्वात्पर्यात्मनाऽनित्यमित्यर्थः, ननु पर्यायनिवृत्तौ द्रव्यनिवृत्तिर्भवति न वा, आद्ये निवृत्तिमत्त्वात्तदनित्यमेव, पर्यायस्वात्मवत्, अन्त्ये च पर्यायनिवृत्तावपि तस्यानिवृत्त्या तेभ्योऽन्यदेव द्रव्यं स्यात् क्रमेलकादिव कर्कः, मैवम् कथञ्चिन्निवृत्तिभावात् इतरेतरविनिर्मुक्तस्योभयस्याग्रहणाद्धि द्रव्यपर्यायोभयरूपं वस्तु ऊर्ध्वाद्याकाररहितस्य च मृद्रव्यस्यासम्भवात् कपालकालेऽपि घटपर्यायबुद्ध्या मृदनुभूयते मृन्निवृत्तौ तूर्खादिपर्यायवनानुभूयेत एवमूर्खाद्याकारस्यापि मृद्रव्यरहितस्यासम्भवः, न ह्यद्रव्या घटादिपर्यायास्सन्ति ॥