________________
३४४
तत्त्वन्यायविभाकरे यद्विशेषमकुर्वाणमेव प्रतिनियतं सहकारिणमपेक्ष्य कार्यकरणमिति न कश्चिद्दोष इति वाच्यम्, कार्यकरणावस्थायां तस्य सहकार्यपेक्षालक्षणस्वभावव्यावृत्तानित्यत्वप्रसङ्गात् स्वभावव्यावृत्तौ तदभिन्नस्वभाववतोऽपि व्यावृत्तताया आवश्यकत्वात् । अव्यावृत्तौ च पूर्व इवेदानीमपि कार्याकारित्वप्रसङ्गात् स्वभावापरावृत्तेः, सर्वदा वा जननप्रसङ्गस्स्यादिति नैकान्तनित्यपक्षे विज्ञानादिकार्याजननेन तदवगमसम्भवः । अथ स्वभावादेकक्षणस्थितिधर्मकमेकान्तानित्यं वस्त्वित्यभ्युपगम्यते तदापि विज्ञानादिकार्यायोगान्ना तदवगमसम्भवः न च सर्वथा एकक्षणस्थितिधर्मिणो विज्ञानादिजनकत्वमुपपद्यते, तस्यैवायोगात् । तथाहि क्षणस्थितिधर्मकं नाम क्षणस्थितिस्वभावं तथा चास्य द्वितीयादिक्षणेष्वस्थितिः स्यात् तत्र तयोः स्थित्यस्थित्योः परस्परमन्यत्वमनन्यत्वं वा, यद्यन्यत्वं सर्वथा तदा द्वितीयादिक्षणेष्वपि स्थितिप्रसङ्गः, अन्यथा द्वितीयादिक्षणास्थित्या प्रथमस्थितेरेकान्तभेदो न भवेत्, अनन्तराक्रान्तविग्रहाणां भावानामस्थित्यैकान्तभिन्नया वर्तमानसमयभाविभावानां स्थितेरविरोधात् । कथञ्चिदन्यत्वे चानेकान्तवादापत्तेः । यदि तयोस्सर्वथाऽनन्यत्वं तदा प्रथमक्षणस्थितेरेव द्वितीयादिक्षणास्थितिरूपतया तस्याश्च भावात्मकत्वेन द्वितीयादिक्षणेष्वपि स्थितेरापत्तेः । द्वितीयादिक्षणास्थितेनिरुपाख्यात्वेन तद्रूपत्वात्प्रथमक्षणस्थितेः प्रथम क्षणेऽप्यभावप्रसङ्गाच्च । कथञ्चिदभेदे चानेकान्तवादापत्तेः । न च स्थित्यस्थित्योर्भेदाभेदकल्पनाऽयुक्ता, अस्थितेरभावरूपत्वादिति वाच्यम्, भेदाभेदयोरभावपरिहारेणावृत्तेः । न च तदुत्तरकालभाविपदार्थान्तरस्थितिरेव विवक्षितस्य द्वितीयादिक्षणास्थितिर्नान्या काचनास्थितिर्येन भेदाभेदकल्पना स्यादिति वाच्यम्, तथा सति सुतरामन्यत्वानन्यत्वकल्पनाप्रसरेण पूर्वोदितदोषस्यानिर्वार्यत्वात् । न च परिकल्पिता द्वितीयादिक्षणास्थिति तो भेदाभेदकल्पनेति वाच्यम्, तथात्वे च द्वितीयादिक्षणेष्वपि स्थित्यापत्तेः । न च द्वितीयादिक्षणास्थितौ सत्यां प्रथमक्षणस्थितेरसम्भवात् सम्भवे वा तदनुपपत्तेः प्रतियोग्यभावेन
. १. कार्याजननकाले य एव स्वभावस्य एवेदानीमिति कथं जनयति कथं वा पूर्वमपि न जनयति । सहकारिणा सह जननस्वभावत्वमतस्तत्सद्भावे जनयत्यन्यथा नेति चेत्सोऽयमपि स्वभावो यदि नित्यस्तदा सदा जननप्रसङ्गः अजनयतश्च कथं सदा तत्स्वभावत्वं, तस्माद्यदा यद्भवति तथा तेन सह तज्जननस्वभावं न तु सदेत्यङ्गीकर्त्तव्यमेवच्च स्वभावभेदे कथमेकान्तनित्यतेति भावः ॥२. यथा प्रथमक्षणवर्तिघटपटादीनां याः स्थितयस्ता अन्यत्वान्न परस्परं विरुद्धास्तथाऽन्यत्वाविशेषादस्थितिकालेऽपि तस्य स्थितिः स्यादिति भावः ॥ ३. स्थित्यस्थिती परस्परं भिन्ने भवतोऽभिन्न वेति शङ्का न संभवति अस्थितेरभावरूपत्वादिति शङ्काशयः समाधानशयस्तु भेदाभेदप्रकारौ अभावादन्यत्रैव भवत इति यदि नियमः स्यात्तदैवं भवेत् न त्वेवमस्तीति ॥ ४. प्रथमक्षणादुत्तरकालभावीत्यर्थः ॥५. अन्यत्वे उत्तरकालीनपदार्थान्तरस्थितिक्षणेऽपि प्रथमकालभाविपदार्थक्षण-स्थितिप्रसङ्गः, अनन्यत्वे तु तयोरन्यतरस्याः सत्त्वप्रसङ्ग इति ॥ ६. द्वितीयादिक्षणस्थितेः परिकल्पितत्वेनासत्त्वादिति भावः ॥