________________
द्वितीयो भाग / सूत्र - ४, सप्तमः किरणे
.३४३ सति विशेषाणां परस्परविलक्षणत्वान्न स्यात्समानबुद्धिशब्दद्वयप्रवृत्तिरिति वाच्यम्, वैलक्षण्ये सत्यपि समानपरिणामसामर्थ्यात्प्रवृत्तेः । असमानपरिणामनिबन्धना चेह विशेषबुद्धिः । समानपरिणामस्यासमानपरिणामाविनाभूतत्वेन यत एव वस्तु सामान्यरूपं तत एव विशेषरूपम् । यत एव च विशेषरूपमत एव च सामान्यरूपम्, न चानयोविरोधः, समानासमानपरिणामयोरुभयोरपि संवेदनस्योभयरूपत्वात् सोऽयं समानपरिणामो न विशेषादर्थान्तरं सर्वथैकस्वभावं वा, येन सकललोकप्रसिद्धसंव्यवहारनियमोच्छेदप्रसङ्गस्स्यात् । किन्तु भेदाविनाभूतत्वाद्य एव विषादभिन्नो न स एव मोदकादिभ्योऽपि, सर्वथा तदेकत्वे समानत्वायोगात् । न च समानपरिणामस्यापि प्रतिविशेषमन्यत्वेऽसमानपरिणामवत्तद्भावानुपपत्तिरिति वाच्यम्, परिणामस्यान्यत्वे सत्यपि समानासमानपरिणामयोभिन्नस्वभावत्वात् समानबुद्धिशब्दप्रवृत्तिनिमित्तस्वभावो हि समानपरिणामः, विशिष्टबुद्धिशब्दजननस्वभावो विशेष इति । तस्माद्वस्तु सामान्यविशेषोभयात्मकमेवेति सिद्धम् । एवं नित्यानित्यात्मकत्वमप्यध्यक्षेणावगम्यते, अन्यथा वस्त्ववगमाभावः प्रसज्येत, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकस्वभावं सर्वथा नित्यमभ्युपगम्यते यदि तर्हि तद्वस्तु विज्ञानजननस्वभावं वा स्यादजननस्वभावं वा, यदि प्रथमः, तदा सर्वत्र सर्वदा सर्वेषां तद्विज्ञानप्रसङ्गः, तस्यैकस्वभावत्वात्, न ह्येवं दृश्यते, क्वचित्कदाचित्कस्यचिदेव तद्विज्ञानस्योदयात् । न च तस्य सर्वथैकस्वभावत्वेऽपि देशादिकृतविशेषात्तथेति वाच्यम्, प्राक्स्वभावविवृत्ति विना विशेषासम्भवेन तद्भावेऽनित्यत्वप्रसङ्गात् । नापि सहकारिणमपेक्ष्य तज्जनयतीति वाच्यम्, एकान्तनित्यस्यापेक्षाऽयोगात् । सहकारिणा क्रियमाणस्य विशेषस्य ततोऽर्थान्तरत्वे नित्यस्य वस्तुनस्तेन प्रयोजनाभावात् वस्तुनस्तदवस्थत्वात्, वस्तुनि तस्य किञ्चित्कारित्वाभावात् किञ्चित्कारित्वे च तदिदं भिन्नमभिन्नं वेत्यावृत्त्यानवस्थापातात् । विशेषस्यानर्थान्तरभूतत्वे स विशेषो विद्यमानः क्रियमाणो भवत्यविद्यमानो वा, नाद्यो विद्यमानः कथं क्रियते, करणे वा भूयो भूयः करणं स्यात् विद्यमानत्वाविशेषात्, नाप्यविद्यमानः क्रियते व्याहतत्वात्, स तस्मादभिन्नोऽविद्यमानश्चेति, करणे वाऽनित्यत्वापत्तिः क्रियमाणे च तस्मिन् पदार्थस्यैव क्रियमाणत्वात् तस्य तदभिन्नत्वात् । विशेषस्याकरणे च स न तत्सहकारी स्यात् अकिञ्चित्करत्वात् । अकिञ्चित्करस्यापि सहकारित्वे सर्वभावानामेव तत्सहकारित्वप्रसङ्गः स्यात्, न च वस्तुन एव तथास्वभावो ___१. एवञ्च विषार्थी विष एव प्रवर्त्तते, तद्विशेषपरिणामस्यैव तत्समानपरिणामाविनाभूतत्वात्, न तु मोदके तद्विशेषपरिणामस्य, तत्समानपरिणामाविनाभावाभावादिति बोध्यम् ॥