________________
३४२
तत्त्वन्यायविभाकरे मार्तिकस्सौवर्णइत्येवं व्यावृत्तप्रत्ययस्याबाध्यमानस्य प्रतिप्राणि प्रतीतत्वात् न चायं भ्रान्तः प्रत्ययः, अर्थसामर्थ्यजन्यत्वात्, अर्थविज्ञानसद्भावाद्धि तन्निश्चयो नार्थसद्भावमात्रात् सर्वार्थानामपि सद्भावस्याविशेषेण सर्वेषां सर्वज्ञत्वप्रसङ्गात्, उपजायते च ज्ञानं सामान्यविशेषाकारमेव, एकादिस्वभावं सामान्यमनेकादिस्वरूपो विशेष इति तु युक्तिविरहान्नाभ्युपगम्यते, एकादिस्वभावं हि सामान्यं किमनेकेषु विशेषेषु सर्वात्मना देशेन वा वर्तेत, न तावत्सर्वात्मना, आनन्त्यप्रसङ्गात् विशेषाणामनन्तत्वात् एकत्रैव सर्वात्मना वृत्तौ तद्भिन्नविशेषाणां सामान्यशून्यत्वापत्तेः, अनन्तत्वे चैकत्वविरोधात् नापि देशेन, सदेशत्वप्रसङ्गात्, नापि गगनवव्यापित्वाद्वर्त्तत इति साम्प्रतं कायंदेशव्यतिरेकेण वृत्त्यदर्शनात् नभसस्सप्रदेशत्वेन न तद्वृत्तिरुभयव्यतिरिक्ता, अनेकत्र वृत्तेरनेकत्वं व्यापकं तद्विरुद्धं सर्वथैक्यं सामान्ये त्वयाभ्युपगम्यते ततो नानेकवृत्ति स्यात् विरोध्येकत्वसद्भावे तु व्यापकस्यानेकत्वस्य निवृत्त्या व्याप्यस्यानेक वृत्तित्वस्यावश्यं निवृत्तिः स्यात् न च यदि नित्यं व्याप्येकं निरवयवं सामान्यवस्तु न स्यान्न तदा देशकालस्वभावभेदभिन्नेषु घटशरावादिषु विशेषेषु सर्वत्र मृन्मृदित्यभिन्नौ बुद्धिशब्दो स्याताम्, न ह्यत्यन्तभिन्नेषु जलादिषु मृन्मृदित्येकाकारा बुद्धिर्भवति नाप्येकाकारः शब्दः प्रवर्तते, ततोऽभिन्नबुद्धिशब्दप्रवृत्तिनिमित्तस्य सामान्यस्य तादृशस्य सत्त्वमवश्यमाश्रयितव्यमिति वाच्यम्, तन्निबन्धनस्यास्माभिरनिषेधात् किन्त्वेकत्वादिधर्मयुक्तपरपरिकल्पितसामान्यस्यैव निषेधात् । अनेकान्तधर्मात्मकवस्तुनस्समानपरिणामस्यैव तादृशबुद्धिशब्दनिबन्धनत्वात् तुल्यज्ञानपरिच्छेद्यवस्तुरूपस्य समानपरिणामस्य विलक्षणत्वेन न वृत्तिविकल्पप्रयुक्तदोषसम्भवः, अस्यैव समानभावत्वोपपत्तेः, समानानां भावस्सामान्यमिति, समानैस्तथा भवनमित्यन्वर्थयोगात्, अर्थान्तरभूतभावस्य तद्व्यतिरेकेणापि तत्समानत्वेऽनुपयोगात्, अन्यथा समानानामित्यभिधानाभावादयुक्तैव तत्कल्पना । समानत्वञ्च भेदाविनाभाव्येव तदभावे च सर्वथैकत्वतस्समानत्वानुपपत्तिरिति समानपरिणाम एव समानबुद्धिशब्दद्वयप्रवृत्तिनिमित्तम्, अत एव य एवासावेकस्मिन् विशेषे स एव विशेषान्तर इति न, किन्तु समान इति, न चैवं
१. अनुभवसिद्धत्वमेव विशदयति अर्थविज्ञानसद्भावाद्धीति ॥ २. नार्थसद्भावोऽर्थसद्भावादेव कारणान्निश्चीयत इति भावः ॥ ३. आकाशस्य निष्प्रदेशत्वेऽयं दोषः तथाहि येन देशेन तद्विन्ध्येन संयुक्तं तेनैव देशेन हिमवदादिभिस्संयोगे विन्ध्यहिमवदादीनामेकत्रैवावस्थानं स्यात् अन्यथा निष्प्रदेशकाकाशसंयोग एव न स्यात् । अन्येन देशेन संयोगे तु सप्रदेशत्वमेव । किञ्च यत्र विन्ध्यस्य सत्त्वं यत्र वा तस्याभावस्तयोराकाशभागयोस्सर्वथाऽनन्यत्वे यत्र विन्ध्यस्य भावस्तत्राप्यभावः स्यात् विन्ध्यवनभोभागस्य विन्ध्याभाववन्नभोभागानतिरिक्तत्वात् कथञ्चिदभेदेऽनेकान्तवादप्रवेशः सर्वथा भेदेऽन्यतरस्यानभोभागत्वप्रसङ्गः । अथ कथञ्चित्तर्हि स्वदर्शनपरित्यागो दोष इति ॥