________________
अथ सप्तमः किरणः।
एवं प्रमाणे निरूपिते तस्य प्रामाण्ये वादिनां विप्रतिपत्तेस्तद्विवेचयितुमाह -
ज्ञानस्य प्रामाण्यं प्रमेयाव्यभिचारित्वमेव । स्वातिरिक्तग्राह्यापेक्षया प्रमेयव्यभिचारित्वं ज्ञानस्याप्रामाण्यम्, सर्वन्तु स्वापेक्षया प्रमाणमेव बाह्यार्थापेक्षया तु किञ्चित्प्रमाणं किञ्चिच्चाप्रमाणम् ॥१॥
ज्ञानस्येति । प्रमेयेति, प्रमीयमाणो योऽर्थस्तदव्यभिचरणशीलत्वं ज्ञाननिष्ठं प्रामाण्यमित्यर्थः । अप्रामाण्यपदार्थमाह स्वातिरिक्तेति, सर्वसंवित्तेस्स्वसंवेदनस्य कथञ्चित्प्रमाणत्वोपपत्तेर्बहिःपदार्थापेक्षयैव किञ्चिज्ज्ञानं प्रमाणं किञ्चिच्च प्रमाणाभासमित्यभिप्रायेणाह सर्वन्त्विति, न चैवं विरोधः प्रसज्यत इति वाच्यम्, जीवस्यैकस्यावरणविगमविशेषात्सत्येतरसंवेदनपरिणामसिद्धेः श्वेतघटे पीतघटज्ञानवत् । तथा च सर्वत्र ज्ञाने स्वरूपे प्रामाण्यमनावृतमेव, बहिरर्थे त्वनियतस्तत्क्षयोपशम इति स्वभावकल्पनान्न विरोध इति भावः । एतेन ज्ञानमात्रं स्वापेक्षया प्रत्यक्षप्रमाणम्, न चैवमनुमितित्वादिना प्रत्यक्षत्वस्य साङ्कर्यमिति वाच्यम्, क्वचित्संकीर्णजातेरप्यदुष्टत्वोपगमात्, एवञ्च ज्ञानस्यार्थोन्मुखतयेव स्वोन्मुखतयापि प्रतिभासनं भवतीति सूचितम् । न च यस्यानुभाव्यत्वं तस्याननुभूतित्वं दृष्टं यथा घटादिः, ज्ञानस्यानुभाव्यत्वेऽननुभूतित्वप्रसङ्ग इति वाच्यमनुभूतित्वेनैव ज्ञानस्यानुभवात्, न पुनरनुभाव्यत्वेन, ज्ञातुआतृत्वेनानुभववत्, नापि ज्ञानस्यानुभाव्यत्वं दोषः पदार्थापेक्षयाऽनुभूतित्वात्, स्वापेक्षया त्वनुभाव्यत्वात् । न च विरोधः, अपेक्षाभेदात्, एकस्य पितृत्वपुत्रत्ववत् । न च स्वात्मनि क्रियाविरोधः अनुभवसिद्धेऽर्थे विरोधासिद्धेः । किञ्च का नाम क्रियाऽऽत्मनि विरुद्धा, न तावत्परिस्पन्दस्वरूपा, तस्या द्रव्यवृत्तित्वेनाद्रव्ये ज्ञानेऽसम्भवात् । न धात्वात्मिका, सापि न