________________
३२४
तत्त्वन्यायविभाकरे तावदमिका, वृक्षस्तिष्ठतीत्यादौ तस्या वृक्षादिरूपे स्वात्मन्येव प्रतीत्याऽप्यविरोधवत् ज्ञानं प्रकाशत इत्यादावपि अकर्मकक्रियाया ज्ञानस्वरूपत्वेऽविरोधात्, प्रतीतेरुभयत्रापि तुल्यत्वात् । अथ ज्ञानमात्मानं जानातीति सकर्मिका क्रिया स्वात्मनि विरुद्धा स्वरूपादपरत्रैव कर्मत्वप्रतीरित्युच्यते तदपि न चारु, आत्माऽऽत्मानं हन्ति प्रदीपस्स्वात्मानं प्रकाशयतीत्यादिकायाः क्रियाया अपि विरोधापत्तेः । न च नात्र पारमार्थिकं कर्मत्वं किन्त्वात्मादौ कर्तर्युपचरितमेवेति वाच्यम्, कर्तरि ज्ञानेऽपि स्वरूपस्यैव ज्ञानक्रियानिरूपितकर्मत्वेनोपचारात्, न च ज्ञाने कर्मत्वं तात्त्विकं प्रमेयत्वादिति वाच्यम्, सर्वथा कर्मत्वस्य कर्तुर्ज्ञानादभिन्नत्वे स्याद्विरोधः यदि कर्तृ कथं कर्म यदि कर्म कथं कर्चिति, अथ सर्वथा भिन्नं कर्मत्वं, तर्हि कथं तत्र ज्ञानस्य जानातीति क्रिया स्वात्मनि स्याद्येन विरुध्येत, तथात्वे कथं घटं करोतीति क्रियाऽपि कटकारस्य स्वात्मनि न स्याद्यदि न विरुध्यते । कर्तुः कर्मत्वं कथञ्चिद्भिनमित्येतस्मिंस्तु दर्शने ज्ञानस्यात्मनो वा सर्वथा स्वात्मनि क्रिया दूरोत्सारितैवेति न विरुद्धतामधिवसतीति । न च ज्ञानक्रियायाः कर्तृसमवायिन्याः कर्मतया स्वात्मनि विरोधस्ततोऽन्यत्रैव कर्मत्वदर्शनादिति वाच्यम्, तर्हि करणत्वमपि तत्र न स्यात् दृश्यते हि ज्ञानेनार्थमहं जानामीति करंणत्वम्, न च ज्ञानेनेत्यनेन विशेषणज्ञानं करणत्वेन विवक्षितमर्थं जानामीत्यनेन विशेष्यज्ञानं कर्मत्वेन विवक्षितं तस्मात्करणमन्यत् कर्मान्यदिति वाच्यम्, कस्यापि विशेषणज्ञानेन विशेष्यं जानामीति प्रतीतेरनुदयात् । किन्तु विशेषणज्ञानेन विशेषणं विशेष्यज्ञानेन च विशेष्यं जानामीत्यनुभवात् । न चादौ दण्डाग्रहे दण्डिनमहं वेद्मीति कतं न दण्डविशिष्टपुरुषबुद्धिरेन्यथा दण्डरहितेऽपि पुरुष तथा प्रत्ययप्रसङ्गादिति वाच्यम्, दण्डविशिष्टे पुरुषे प्रवर्त्तमानया बुद्ध्या सकृदेव दण्डविशिष्टपुरुषग्रहणात् दण्डरहिते च तद्वैशिष्ट्याभावादेव तथा प्रतीत्यनुदयात् । ततो विशेष्यज्ञानं सकृदेव विशेषणविशेष्योभयालम्बनमेव न तु विशेषणज्ञानेन जन्यत्वात्केवलं विशेष्यविषयम् । विशेषणज्ञानस्य करणत्वे विशेष्यज्ञानस्य च ज्ञानकार्य्यत्वे विशेषणज्ञानं प्रत्यपि करणान्तरापत्तिश्च स्यात् तत्रापि दण्डत्वादिजातिज्ञानस्य करणत्वाभ्युपगमे तत्राप्यन्यस्य वक्तव्यत्वापत्तेः, तस्माद्विशेषणविशेष्यज्ञानयोर्न करणत्वक्रियात्वे अपि तु ते एकज्ञानस्वरूपे
१. ज्ञानक्रियायाः करणज्ञानस्य च भिन्नत्वान्नास्ति विरोध इति चेत्कि करणज्ञानं का वा ज्ञानक्रियेत्यत्राह न चेति ॥ २. दण्डाग्रहेऽपि दण्डविशिष्टपुरुषबुद्धयभ्युपगम इत्यर्थः ॥ ३. तुल्यदेशावस्थायिनि तुल्येन्द्रियग्राह्येऽर्थे घटपटादौ एकस्यापि ज्ञानस्य व्यापारेऽविरोधः, न च तत्रापि विषयभेदेन ज्ञानभेदो भाव्यः, ज्ञानानां युगपद्धावानभ्युपगमात् नापि क्रमेण, तथाऽप्रतीतेः, युगपद्भावे च कार्यकारणभावोऽपि न स्यादेव सव्येतरगोविषाणवत् तस्माद्विशेष्यज्ञानं विशेषणविशेष्योभयावलम्बनमेवेत्याशयेनाह ततो विशेष्यज्ञानमिति ॥