________________
३१६
तत्त्वन्यायविभाकरे इति वाच्यं नहि तथा सदसत्त्वयोः क्षणमात्रमपि परेण सत्त्वमेकत्राभ्युपगम्यते तथा च कथं वध्यघातकरूपो विरोधः, अभ्युपगमे वा तुल्यबलत्वेन तयोर्न वध्यघातकभावः । नापि सहानवस्थानलक्षणो विरोधः, कालभेदेनैकत्र वर्तमानयोः श्यामत्वपीतत्वयोरेव तत्सम्भवात्, उत्पद्यमानो हि पीतं श्यामो विनाशयति, नहि तथास्तित्वं नास्तित्वञ्च पूर्वोत्तरकालभावि, अस्तित्वकाले नास्तित्वाभावे सत्तामात्रं सर्वं प्राप्नुयात्, नास्तित्वकालेऽस्तित्वाभावे तु सत्त्वाश्रयबन्धमोक्षव्यवहारो विरुद्ध्येत, सर्वथाऽसत आत्मलाभासम्भवात् सर्वथा च सतो विनाशासम्भवात् । न चापि प्रतिबध्यप्रतिबन्धकभावरूपो विरोधः, अस्तित्वकाले नास्तित्वस्य प्रतिबन्धकाभावात् । स्वरूपेणास्तित्वकालेऽपि पररूपादिना नास्तित्वस्य प्रतीतिसिद्धत्वात् । सत्त्वासत्त्वयोरेकाधिकरणवृत्तित्वेन प्रतीतत्वाच्च न वैयधिकरण्यं दोषः, नाप्यनवस्थादोषः, अनन्तधर्मात्मकस्य वस्तुनः प्रमाणप्रतिपन्नत्वेनापदार्थपरम्पराकल्पनाविरहेण तस्या अभ्युपगमात् नापि संकरव्यतिकरौ प्रतीतिसिद्धेऽर्थे कस्यापि दोषस्याभावात्, दोषाणां प्रतीत्यसिद्धपदार्थविषयकत्वात्, परस्परानुविद्धत्त्वासत्त्वयोर्जात्यन्तरात्मकत्वेनैकान्तसत्त्वावलम्बिदोषासम्भवाच्च, नवा संशयो दोषः, स हि सामान्यप्रत्यक्षाद्विशेषाप्रत्यक्षाद्विशेषस्मृतेश्च जायते स्थाणुत्वपुरुषत्वोचिते हि देशे नातिप्रकाशान्धकारकलुषितायां वेलायामूर्खतामात्रं सामान्यं विलोकयतो वक्रकोटरपक्षिनीडादीन् स्थाणुगतान् पुरुषगतांश्च वस्त्रसंयमनशिरःकण्डूयनशिखाबन्धादीन् विशेषाननुपलभमानस्य तेषाञ्च स्मरतः पुरुषस्यायं स्थाणुर्वा .पुरुषो वेति संशय उदेति, अनेकान्तवादे च विशेषोपलब्धिरप्रतिहतैव, स्वरूपपररूपादिविशेषाणां प्रत्यर्थमुपलम्भात् तथा च विशेषोपलब्धेः कथं संशयः अवच्छेदकभेदेनाjमाणयोस्सत्त्वासत्त्वयोरेकत्र विरोधाभावेन संशयलक्षणानाक्रान्तत्वात्, एवञ्च संशयमूलकावप्रतिपत्तिवस्त्वभावरूपौ दोषौ दुरापास्ताविति न कोऽपि दोष इति । तदेवं स्वसमयसर्वस्वरूपा सप्तभङ्गी समासतो निरूपितेत्याहेतीति ॥
કાળની અપેક્ષાએ સ્વરૂપ-પરરૂપનું નિરૂપણ ભાવાર્થ – “વર્તમાનકાળ જ ઘટનો કાળ છે.” તેનાથી ભિન્ન અતીત આદિ પરકાળ છે. સ્વકાળની માફક પરકાળમાં પણ ઘટના સત્ત્વમાં કાળનો-પ્રતિનિયમની અનુપત્તિનો પ્રસંગ આવે ! સપ્તભંગીના નિરૂપણની સમાપ્તિ થાય છે.”
વિવેચન – ઘટનો અધિકરણરૂપ કાળ ઘટનો સ્વકાળ છે. તે ઘટનો અનધિકરણ ભૂતકાળ અથવા ધ્વંસકાળ પરકાળ છે. ઉભય પ્રકારે ઘટના સત્ત્વમાં દોષ કહે છે કે-“આ કાળમાં જ ઘડો છે, અતીત આદિ