________________
द्वितीयो भाग / सूत्र - ३३-३४, षष्ठ किरणे
३१५ अस्मिन्नेव काले घटोऽस्ति नातीतादिकाल इति नियतकालव्यवहारो न भवेदेव इष्टापत्तौ तु नित्यत्वापत्तिप्रसङ्गः, उभयथाऽसत्त्वे तस्य सर्वकालासम्बन्धित्वेनावस्तुत्वापत्तिः स्यादिति भावः । ननु घटस्य सत्त्वे यथा स्वरूपादिरवच्छेदकः तथा स्वरूपादौ स्वरूपाद्यन्तरमस्ति न वा? यदि नास्ति कथं तर्हि तस्य सत्त्वं यद्यस्ति तर्हि कथं नानवस्था ? यदि सुदूरमपि गत्वा गत्यन्तराभावेन कस्यचित्सत्त्वे स्वरूपाद्यनपेक्षयाऽनवस्था वार्यते तर्हि घटादीनां सत्त्वेऽपि तथा भवतु किमनया स्वगृहप्रक्रिययेति मैवम्, वस्तुनो हि यथैवाबाधिता प्रतीतिस्तथैव तद्व्यवस्था, प्रतीतिश्च स्वरूपादिघटितमूर्तेरेव सत्त्वादेाहिका, अन्यथा नानानिरंकुशविप्रतिपत्तीनां वारयितुमशक्यत्वात् । न च तस्यां स्वरूपादिकमन्यदेव प्रतीयते येन स्वरूपान्तरापेक्षा स्यात् । न च जिज्ञासाधीना हि स्वरूपाद्यपेक्षा तथा च तत्रापि प्रकृत इव जिज्ञासा स्यादेव तथा चास्त्यनवस्थेति वाच्यम्, यत्रैव न सा तत्रैव विश्रान्त्या तदभावात् केनचिन्नयेन स्वरूपादेः स्वरूपत एवावच्छेदकत्वं निर्णीयैवास्तित्वादिप्रवृत्तेरनवस्थाया अभावादिति । एतेनैकस्मिन् धर्मिणि सत्त्वासत्त्वरूपौ विधिनिषेधात्मकौ धर्मों न सम्भवतो विधिमुखप्रत्ययविषयत्वनजुल्लिखितप्रत्ययविषयत्वरूपत्वेन शीतोष्णयोरिव तयोः परस्परं विरोधात्, यत्रास्तित्वं तत्र नास्तित्वस्य यत्र च नास्तित्वं तत्रास्तित्वस्य विरोधात् । तथाऽस्तित्वाधिकरणस्य नास्तित्वाधिकरणस्य च भिन्नत्वेनैकत्र तयोस्सत्त्वे विभिन्नाधिकरणवृत्तित्वरूपवैयधिकरण्यं दोषः स्यात्, तथा येन रूपेणास्तित्वं येन च नास्तित्वं तादृशरूपयोरस्तित्वनास्तित्वनियामकस्वपररूपाद्यन्तरापेक्षायामनवस्थादौस्थ्यम्, तथा येन रूपेण सत्त्वं तेनैवासत्त्वस्य येनासत्त्वं तेनैव सत्त्वस्य च प्रसङ्गेन सङ्करः, येन रूपेण सत्त्वं तेनासत्त्वमेव स्यान्न तु सत्त्वं येन रूपेण चासत्त्वं तेन सत्त्वमेव स्यान्न त्वसत्त्वमिति व्यतिकरो दोषः, तथा सत्त्वासत्त्वस्वरूपत्व इदमित्थमिति निश्चेतुमशक्तेस्संशयो दोषः, ततश्चानिश्चयरूपाप्रतिपत्तिर्दोषः, ततश्च सत्त्वासत्त्वात्मनो वस्तुनोऽभावो दोष इत्यष्टौ दोषास्सम्भवन्तीति प्रत्युक्तम्, स्वपररूपाद्यपेक्षया विवक्षितयोस्सत्त्वासत्त्वयोः प्रतीयमानयोर्वस्तुन्यविरोधात् स्वरूपादिना सत्त्वस्येव पररूपादिनाऽसत्त्वस्यापि प्रतीतिसिद्धत्वेनानुपलम्भप्रयुक्तस्य विरोधस्याभावात् । न च विरोधादेकत्र तयोः प्रतीतिमिथ्येति वाच्यम्, परस्पराश्रयात्, विरोधे सति तेन बाध्यमानत्वान्मिथ्यात्वसिद्धिः, सिद्धे च तस्मिन् सत्त्वासत्त्वयोविरोधसिद्धिरिति । न च बूध्यघातकभावरूपोऽप्यहिनकुलादिवद्विरोधः, तस्यैकस्मिन् काले वर्तमानयोस्सम्बन्धे सत्येव भावात्, न ह्यसंयुक्तमहिं नकुलो नाशयति, तथा सति सर्वत्राहेरभावप्रसङ्गात् तथाप्रकृते सति सम्बन्धे बलीयसाऽपरो बाध्यत