________________
३१०
तत्त्वन्यायविभाकरे
उभयथापि सत्त्वे तद्धट इतरेषां व्यवहारप्रसङ्गः, आकारविशेषसत्त्वाधीनत्वाद्व्यवहाराणाम् । उभयथापि नास्तित्वे घटासत्त्वप्रसङ्गः । रूपविशिष्टो घटश्चक्षुर्ग्राह्य इति व्यवहारे रूपद्वारा घटो गृह्यत इति रूपं घटस्य स्वरूपं, न रसादिमुखेन चक्षुर्ग्राह्य इति रसादिकं पररूपं, तथा च स स्वरूपेणास्ति पररूपेण च नास्ति, उभयथापि सत्त्वे रसस्यापि चक्षुर्जन्यज्ञानविषयत्वापत्त्या रसनादीन्द्रियकल्पना व्यर्था स्यात् । उभयथापि नास्तित्वे घटस्याग्रहणप्रसङ्गः रूपादिज्ञाननियतत्वाद्धटादिज्ञानस्य । समभिरूढनयार्पणतः शब्दभेदेऽप्यर्थभेदघ्रौव्येण घटकुटादिशब्दानामर्थभेदोऽस्ति तथा च घटत इति व्युत्पत्त्या घटनक्रियाकर्तृत्वं घटस्य स्वरूपं भवति, इतरच्च पररूपं भवति, घटश्च तेन रूपेणास्ति पररूपेण च नास्ति, उभयथापि सत्त्वे भिन्नप्रवृत्तिनिमित्ताभावेन शब्दभेदो न स्यात्, उभयथाप्यसत्त्वे घटादिशब्दानां निरर्थकत्वापत्तेः । एवं सम्मत्याद्यनुसारेण नामस्थापनाद्रव्यभावभिन्नेषु विधित्सिताविधित्सितप्रकारेण सत्त्वासत्त्वे ताभ्याञ्च युगपदवाच्यत्वं भाव्यं, व्यतिरेके च प्रतिनियतव्यवहारोच्छेदो बाधकः । अत्रायं क्रमोऽवसेयः नामस्थापनाद्रव्यभावभिन्नेषु घटादिषु विधित्सिताविधित्सितप्रकारेण सत्त्वासत्त्वे, स्वीकृतप्रतिनियताकारे नामादिके घटादौ संस्थानमादाय, स्वीकृतप्रतिनियत-संस्थानादिके मध्यमावस्थारूपवर्तमानकालीनपर्यायमादाय,ततो मध्यमावस्थारूपे तस्मिन् वर्तमानवर्तमानक्षणपर्यायमादाय, क्षणपरिणतिरूपे च चक्षुर्जन्यज्ञानविषयत्वाविषयत्वाभ्यां, लोचनप्रतिपत्तिविषये तत्रैव घटतदितरशब्दवाच्यत्वाभ्यां, घटशब्दाभिधेये च हेयोपादेयान्तरङ्गबहिरङ्गोपयोगानुपयोगरूपतया, उपयुक्ते त्वभिमतार्थबोधकत्वानभिमतार्थबोधकत्वाभ्यां विज्ञेये इति ॥
ઘટના સ્વરૂપો અને પરરૂપો - હવે સ્વમાં વર્તમાન અસાધારણ ધર્મ જ સ્વરૂપ છે-એમ કહીને, બીજા પણ ઘટના સ્વરૂપો અને પરરૂપો હોય છે. એવા અભિપ્રાયથી કહે છે કે
ભાવાર્થ – “ઘટમાં રહેનારા સ્કૂલતા આદિ ધર્મો, વર્તમાનકાલીન પર્યાયવિશેષો, પૃથુબુદ્ધ ઉદર આદિ આકારો, રૂપ આદિ ગુણો, ઘટનક્રિયાકર્તૃત્વ ઈત્યાદિ સ્વરૂપો છે. તેનાથી ભિન્ન પરરૂપો સમજવાં.” | વિવેચન – પહેલાં ઘટ માત્રનું સ્વ-પરરૂપ દર્શાવી ઘટવિશેષના સ્વ-પરરૂપ દર્શાવે છે.
१. घटादिषु विधित्सितरूपेण सत्त्वमविधित्सितरूपेणासत्त्वं ताभ्यां युगपदवाच्यं विज्ञेयं विपर्यये प्रतिनियतव्यवहारोच्छेदो बाधकः, विधित्सते घटादौ स्वसंस्थानापेक्षया सत्त्वं परसंस्थानापेक्षया चासत्त्वं ताभ्यां युगपदवाच्यत्वमित्येवंरीत्या भङ्गत्रयं प्रमाणात्मकं विज्ञेयमिति भावार्थः । संस्थानमादायेति, तद्वृत्तिस्थौल्यादिधर्ममादायेत्यर्थः । मध्यमावस्थारूपेति, पूर्वोत्तरकुसूलकपालाद्यन्तरालवर्त्तिपर्यायेत्यर्थः स्पष्टमन्यत् ॥