________________
२०७
द्वितीयो भाग / सूत्र - ६, पञ्चमः किरणे साध्यधर्मेति । केनचित्पुरुषेण साध्यधर्मविपरीतस्यैव व्याप्यो हेतुर्भ्रान्त्या साध्यव्याप्यत्वेनोपन्यस्यते तदा स साध्यधर्मविपरीतव्याप्तिकत्वाद्विरुद्ध इति भावः । दृष्टान्तमाह यथेति घटयति अत्रेति, अयं पक्षविपक्षव्यापको हेतुः । अत्र परैरष्टविधा विरुद्धभेदा उच्यन्ते यथा पक्षविपक्षव्यापकस्सपक्षावृत्तिः, पक्षव्यापको विपक्षैकदेशवृत्तिस्सपक्षावृत्तिश्च, पक्षविपक्षकदेशवृत्तिस्सपक्षावृत्तिश्च पक्षकदेशवृत्तिस्सपक्षावृत्तिविपक्षव्यापकश्च, पक्षविपक्षव्यापकोऽविद्यमानसपक्षश्च, पक्षविपक्षैकदेशवृत्तिरविद्यमानसपक्षश्च, पक्षव्यापको विपक्षैकदेशवृत्तिरविद्यमानसपक्षश्च, पक्षैकदेशवृत्तिर्विपक्षव्यापकोऽविद्यमानसपक्षश्चेति । आद्याश्चत्वारस्सति सपक्षे परे चत्वारश्चासति सपक्षे बोध्यास्तत्र प्रथमो यथा शब्दो नित्यः कार्यत्वादिति कार्यत्वं हि शब्दमात्रेऽनित्यघटादिमात्रे वर्तते नतु नित्य आकाशादौ । द्वितीयो यथा-नित्यश्शब्दस्सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वात्, अत्रायं हेतुः शब्दमात्रे क्वचिदनित्ये घटादौ वर्त्तते क्वचिच्चानित्ये सुखादौ नित्य आकाशादौ न वर्तत इति । तृतीयो यथा वाङ्मनसे अस्मदादिबाह्यकरणप्रत्यक्षे सामान्यविशेषवत्त्वे सति नित्यत्वादयं हेतुः पक्षैकदेशे मनसि वर्तते न तु वाचि, विपक्षैकदेशे गगनादावस्ति न तु सुखादौ, नास्ति पुनर्घटादौ सपक्षे । चतुर्थो यथानित्या पृथिवी कृतकत्वादिति हेतुः, इदं कृतकत्वमनित्यपृथिव्यामस्ति परमाणौ च नास्ति, नित्यमात्रे नास्ति, अनित्यमात्रे चास्ति । पञ्चमो यथा-आकाशविशेषगुणश्शब्दः प्रमेयत्वादिति, अयं हेतुश्शब्दमात्रेऽनाकाशविशेषगुणमात्रे च वर्त्तते सपक्षश्चात्र नास्ति । षष्ठो यथाआकाशविशेषगुणश्शब्दः प्रयत्नानन्तरीयकत्वादिति, अयञ्च हेतुः शब्दविशेषे वर्त्तते नास्ति च शब्दविशेषे, घटादावस्ति मेघादौ नास्ति च, अत्रापि सपक्षो नास्ति । सप्तमो यथाआकाशविशेषगुणश्शब्दो बाह्येन्द्रियग्राह्यत्वादिति, हेतुरयं शब्दमात्रे विपक्षैकदेशे रूपादौ वर्तते न तु सुखादौ विपक्षे सपक्षस्तु नास्त्येव । अष्टमो यथा-आकाशविशेषगुणश्शब्दोऽपदात्मकत्वादिति, अत्र हेतुलनौ वर्त्तते नतु पदात्मकशब्दे, रूपादौ विपक्षमात्रे वर्त्तते सपक्षस्तु नास्त्येवेति । सर्व एवैते हेतवो प्रोक्तविरुद्ध एवान्तर्भवन्ति, पक्षैकदेशवृत्तिषु असिद्धतापीति ॥
१. पूर्वोत्तराकारपरिहारप्राप्तिस्थितिलक्षणपरिणामेनैवाविनाभूतं कृतकत्वं बहिरन्तर्वा प्रतीतिविषयः, तच्च सर्वथा नित्ये क्षणिके वा सम्भवत्येवेति विरुद्धत्वमिति भावः ॥ २. बौद्धा धर्मविशेषविपरीतसाधको धर्मिविशेषविपरीतसाधकश्चेति विरुद्धस्य द्वैविध्यमाहुः तन्न सर्वानुमानोच्छेदप्रसङ्गात्, पर्वताधिकरणधूमस्य सिषाधयिषितवह्निविशेषविपर्ययसाधकत्वेन विरुद्धत्वं वाच्यम्, तच्च तदा स्यात् धूमसामान्योपन्यासेन वह्निविशेषो जिज्ञास्येत । यदा च विशेष साध्यमभिलषता विशिष्ट एव हेतुरुपन्यस्यते तदा नोक्तदोषः, तथा धर्मिविशेषविपरीतसाधनोऽपि न विरुद्धः, अन्यथा यो यो धूमवान् स पर्वतो न भवति यथा महानसम्, इति धर्मिणस्तिरस्काराद्भूमोऽपि हेतुर्न भवेत् तथाचानुमानमात्रविलोपापत्त्या नैतौ विरुद्धहेत्वाभासाविति बोध्यम् ॥