________________
१८६
तत्त्वन्यायविभाकरे
विरुद्धेति, तथा च विरुद्धकार्यानुपलब्धिविरुद्धकारणानुपलब्धिविरुद्धस्वभावानुपलब्धिविरुद्धव्यापकानुपलब्धिविरुद्धसहचरानुपलब्धिभेदेन पञ्चविधो विधिसाधको निषेधहेतुरिति
भावः ॥
હવે વિધિસધક સાધ્યવિરૂદ્ધ અનુપલબ્ધિરૂપ નિષેધહેતુનો વિભાગ
ભાવાર્થ – “વિરૂદ્ધનિષેધ આત્મક હેતુ, વિધિની પ્રતીતિમાં કાર્ય-કારણ-સ્વભાવ-વ્યાપક અને સહચરના ભેદથી પાંચ પ્રકારનો છે.”
વિવેચન
તથાચ ૧-વિરૂદ્ધકાર્ય અનુપલબ્ધિ, ૨-વિરૂદ્ધકારણ અનુપલબ્ધિ, ૩-વિરૂદ્ધસ્વભાવ અનુપલબ્ધિ, ૪-વિરૂદ્ધવ્યાપક અનુપલબ્ધિ અને પ-વિરૂદ્ધસહચર અનુપલબ્ધિના ભેદથી પાંચ પ્રકારનો વિધિસાધક નિષેધહેતુ છે.
तत्र प्रथमद्वितीयतृतीयहेतूनां निदर्शनान्याह -
अत्र शरीरिणि रोगातिशयो वर्त्तते नीरोगव्यापारानुपलब्धेरिति साध्यविरुद्धारोग्यकार्यव्यापारानुपलब्धिरूपो निषेधहेतुः । अस्त्यस्मिन् जीवे कष्टमिष्टसंयोगाभावादिति साध्यविरुद्धसुखकारणानुपलब्धिः । सर्वं वस्त्वनेकान्तात्मकमेकान्तस्वभावानुपलम्भादिति साध्यविरुद्धस्वभावानुपलब्धिः ॥ ३४ ॥
अत्रेति । पञ्चविधेषु हेतुष्वित्यर्थः, शेषं स्पष्टम् । विरुद्धकारणानुपलब्धिमाहास्तीति, स्पष्टम् । विरुद्धस्वभावानुपलब्धिमाह सर्वमिति, नैकोऽनेकः, स चासावन्तश्च धर्मोऽनेकान्तस्स एवात्मा स्वरूपं यस्य तदनेकान्तात्मकं तत्त्वं साध्यधर्मः, सर्वमित्यान्तरबाह्यपदार्थसमूहो धर्मी, एकान्तस्वभावस्सदसदाद्यन्यतरात्मकः, तस्यानुपलम्भादिति हेतुः । अत्र साध्येनानेकान्तात्मकत्वेन विरुद्धो यस्स्वभावास्सदसदाद्यन्तरस्वभावः तस्य प्रमाणमात्रेणानुपलम्भरूपोऽयं हेतुः । प्रमाणैर्हि स्वरूपेण सदात्मकाः पररूपेणासदात्मकास्सन्तस्सामान्यविशेषात्मका नित्यत्वानित्यत्वाद्यनेकधर्माण एव पदार्थाः प्रतीयन्ते न केवलं सद्रूपा असद्रूपा वा सामान्यस्वरूपा विशेषस्वरूपा वा नित्या अनित्या वा पदार्थास्तेभ्यो विरुद्धस्वभावानुपलब्ध्याऽनेकान्तात्मकत्वसिद्धिरिति ॥
ત્યાં પ્રથમ, દ્વિતીય અને તૃતીય હેતુઓના નિદર્શનો
ભાવાર્થ - “આ શરીરમાં રોગનો અતિશય વર્તે છે, કેમ કે-નીરોગવ્યાપારની અનુપલબ્ધિ છે. આમ સાધ્યવિરૂદ્ધ આરોગ્ય કાર્યવ્યાપારની અનુપલબ્ધિરૂપ નિષેધહેતુ છે. આ જીવમાં કષ્ટ છે, કેમ કે-ઇષ્ટ સંયોગનો