________________
द्वितीयो भाग / सूत्र - १६-१७, चतुर्थः किरणे
१७१ હવે વિધિસ્વરૂપ હેતુના પ્રકારોને દર્શાવે છે ભાવાર્થ – “વિધિસ્વરૂપી હેતુ, સાધ્ય અવિરૂદ્ધ અને પ્રતિષેધ્ય વિરૂદ્ધના ભેદથી બે પ્રકારનો છે. આ પ્રમાણે નિષેધસ્વરૂપી પણ સમજવો.”
વિવેચન – અહીં આ જાણવું કે-જેમ સાધ્ય અવિરૂદ્ધ વિધિસ્વરૂપી વિધિરૂપ હેતુ સાધ્યસાધક છે અને પ્રતિષેધ્યવિરૂદ્ધ વિધિસ્વરૂપી હેતુ પ્રતિષેધરૂપ સાધ્યસાધક છે, તેમ પ્રતિષેધ્યની સાથે અવિરૂદ્ધ-નિષેધસ્વરૂપી હેતુ પ્રતિષેધરૂપ સાધ્યસાધક, સાધ્યવિરૂદ્ધ અને નિષેધસ્વરૂપી હેતુ વિધિરૂપ સાધ્યસાધક છે. ઇતિ.
तत्र साध्याविरुद्धविधिसाधकविधिस्वरूपहेतून् पूर्वोदितषड्विधानुदाहरतितत्र शब्दः परिणामी प्रयत्नानन्तरीयकत्वादिति व्याप्यो विधिहेतुः ॥ १७ ॥
तत्रेति । व्याप्याविरुद्धकार्याविरुद्धकारणाविरुद्धपूर्वचराविरुद्धोत्तरचराविरुद्धसहचराविरुद्धभेदेष्वित्यर्थः, अस्य व्याप्यो विधिहेतुरित्यनेन सम्बन्धः । शब्दः परिणामीति प्रतिज्ञायां शब्दो धर्मी साध्यधर्मः परिणामः प्रयत्नानन्तरीयकत्वं हेतुः, प्रयत्नश्चेतनव्यापारस्तदनन्तरसम्भूतत्वं तदर्थः, यत्र यत्र प्रयत्नानन्तरीयकत्वं तत्र तत्र परिणामित्वं यथा घटादिरित्युदाहरणम्, प्रयत्नानन्तरीयकश्च शब्द इत्युपनयः, तस्मादयं परिणामीतिनिगमनमिति साधर्म्यण पञ्चावयवप्रयोगः, वैधपेण तु यो न परिणामी स न प्रयत्नानन्तरीयकः, यथा वन्ध्यासुतः, इत्युदाहरण एव विशेषो नेतरावयवेषु वैलक्षण्यम् । ननु कार्यादिरूपाणां पञ्चानामपि हेतूनां स्वस्वसाध्येन व्याप्तत्वादविरोधाच्च व्याप्याविरुद्धस्वरूपत्वमेव, व्याप्यत्वाभावे च तेषां साधकत्वानुपपत्तेस्तथा चानेनैव सर्वेषां तेषां गतार्थतया पृथग्विभागो नोचित इति चेन्न साध्यनिरूपितव्याप्तिमत्त्वमात्रेण व्याप्यस्यात्राविवक्षणात् कथञ्चित्साध्येन तादात्म्यपरिणाममापन्नस्य कार्यादिविलक्षणस्य हेतुस्वरूपस्य विवक्षणात् । अस्यैव च स्वभावोपलब्धिरिति नामान्तरम् । प्रयत्नान्तरीयकत्वं हि साध्यधर्मस्य परिणतिमत्त्वादेः कथञ्चिदपृथग्भूतं स्वरूपम् । न चैवं स्वभावभूतधर्मस्य व्याप्यस्य हेतुत्वे हेतोनिश्चयेतदभिन्नस्य साध्यस्यापि निश्चयेन सिद्धसाधनत्वापत्तिर्हेतोरनिश्चये च न तेन साध्यसिद्धिरज्ञातस्य ज्ञापकत्वासम्भवादिति वाच्यम्, अनेकस्वभावस्य शब्दादिवस्तुनो निश्चितेऽपि प्रयत्नान्तरीयकत्वादौ स्वभावभूते साधनधर्मे परिणामित्वादिसाध्यधर्मनिश्चयनियमस्याभावात्, निश्चितानिश्चितात्मकत्वञ्चैकस्य वस्तुनश्चित्राका
२. पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षणपरिणतिशून्यत्वरूपे सर्वथा नित्यत्वे शब्दस्य प्रयत्नान्तरीयकत्वानुपपत्तेः प्रयत्नानन्तरीयकत्वं परिणतिमत्त्वेन व्याप्तं विज्ञेयम् ॥