________________
१५४
तत्त्वन्यायविभाकरे કથંચિત્ અભિન્નવિશિષ્ટ વદ્ધિમતુ પર્વતરૂપ પક્ષ)માં અંગપણું હોય છતે, વિશિષ્ટથી અભિન્ન વહ્નિ આદિ સાધ્યસ્વરૂપ ધર્મ આત્મક વિશેષણમાં અને પર્વત આદિ ધર્મો વિશેષરૂપ વિશેષ્યમાં અંગપણું પ્રાપ્ત છે. માટે ૧-પક્ષ એક અંગ છે અને બીજું અંગ હેતુ છે-એમ બે અંગો છે, કેમ કે-સાધ્યધર્મવિશિષ્ટ ધર્મી જ પક્ષ તરીકે છે. આ કથન ધર્મ-ધર્મીની અભેદની અપેક્ષાથી છે અને પૂર્વનું કથન તો ભેદની અપેક્ષાથી જાણવું. ___ ननु सिषाधयिषितस्यैव धर्मिणस्साध्यत्वोक्त्या प्रसिद्धस्यैव धर्मित्वं लब्धं सामान्यतो विज्ञातस्यैव किञ्चिद्धर्मविशिष्टत्वेन सिषाधयिषितत्वात् तथा च तत्प्रसिद्धिः कथन्तरां स्यादिति पर्यनुयोगे प्राह- धर्मिणश्च प्रसिद्धिः प्रमाणाद्विकल्पादुभयतो वा ज्ञेया । यथाऽस्ति सर्वज्ञ इत्यत्र धर्मिणस्सर्वज्ञस्य विकल्पासिद्धिः । पर्वतो वह्निमानित्यत्र पर्वतस्य प्रत्यक्षप्रमाणात्, शब्दः परिणामीत्यादौ कालत्रयवर्तिशब्दधर्मिण उभयस्मात् ॥९॥
धर्मिणश्चेति । प्रमाणादिति निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमादित्यर्थः, विकल्पादिति, अनिश्चितप्रामाण्याप्रामाण्यकप्रत्ययादित्यर्थः, उभयत इति, निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमादनिश्चितप्रामाण्याप्रामाण्यकप्रत्ययाच्चेत्यर्थः । नन्वस्तु निश्चितप्रामाण्यकप्रत्यक्षादिभ्यो धर्मिप्रसिद्धिः, प्रामाण्येनाप्रामाण्येन वाऽनिर्णीतया प्रतीत्या कथं धर्मिप्रसिद्धिः तस्याः प्रमाणत्वाभावात्, प्रमाणात्मिकयैव च प्रतीत्या वस्तुसिद्धेः । तस्याश्च प्रमाणत्वे प्रमाणादित्यनेनैव गतार्थतया विकल्पादिति व्यर्थमेव भवेत् । अप्रमाणत्वे तु न ततो धर्मिसिद्धिः, किञ्च विकल्पसिद्ध धर्मिणि सत्त्वमसत्त्वं वा प्रमाणबलेन साधनीयं यथाऽस्ति सर्वज्ञो नास्ति षष्ठं भूतमित्यादौ । तच्च न सम्भवति, धर्मिणो वस्तुतोऽसत्त्वेन भाववृत्तिधर्मस्य हेतुत्वेऽसिद्धिप्रसरात्, भाववृत्तिधर्मस्य तत्र सत्त्वे च धर्मिणोऽपि भावत्वापत्त्या नास्तित्वसाधनमसङ्गतं स्यात् । अभाववृत्तिधर्मस्य हेतुत्वे त्वस्तित्वसाधनस्य विरोधात्, उभयवृत्तिधर्मस्य हेतुत्वे व्यभिचारादित्यनुयोगे प्रबले जाते प्रमाणाद्धर्मिप्रसिद्धरुदाहरणप्रदर्शनं विहाय प्रथमत एव विकल्पप्रसिद्धर्मिणमुदाहरति यथेति, अत्रायम्भावः, ये विकल्पेन धर्मिप्रसिद्धि नाभ्युपगच्छन्ति ते विकल्पसिद्धो धर्मी न भवति तस्याप्रमाणत्वादित्यपि वक्तुं न शक्नुवन्ति, प्रोक्तक्रमेणासिद्धिविरोधादीनां सम्भवात्, प्रमाणेनात्र धर्म्यसिद्धेः । तथात्वे च परं प्रत्याश्रयासिद्ध्यायुद्भावनं व्यर्थमेव स्यात् येन हि यो धर्मितयोपात्तस्तत्रैव दोषः प्रदर्शनीयस्तथा च तत्र दोषमुद्भावयता भवताऽवश्यं विकल्पेन धर्मिप्रसिद्धिरभ्युपेयैवान्यथा तूष्णीम्भावापत्तिः, एवञ्चास्ति सर्वज्ञ इत्यादिमानसप्रत्यक्षे भावरूपस्यैव धर्मिणः प्रतिपन्नत्वान्न