________________
द्वितीय भाग / सूत्र - ९, चतुर्थ: किरणे
१५५
कोऽपि दोष:, न च तत्सिद्धौ तत्सत्त्वस्यापि प्रतिपन्नत्वेन व्यर्थमनुमानमिति वाच्यम्, तदभ्युपेतमपि वैयात्याद्यो न प्रतिपद्यते तं प्रत्यनुमानस्य साफल्यात्, न च षष्ठभूतादेः कथं धर्मित्वं, मानसप्रत्यक्षेण तत्सत्त्वस्यापि प्रतिपन्नतया नास्तित्वसाधनस्य बाधित्वादिति वाच्यम्, तदानीं बाधकप्रत्ययानुदयेन सत्त्वे सम्भावितेऽपि पश्चात्तत्सत्ताया निषेधनात्, एवमेव गगनकुसुमादीनामपि विकल्पकाले सत्त्वेन सम्भावितानामपि पश्चाद्बाधकप्रत्ययेन तन्निरासात्तादृशमानसज्ञानस्य मानसप्रत्यक्षाभासत्वमवसेयमिति ॥ अथ प्रमाणाद्धर्मिप्रसिद्धेर्निदर्शनमादर्शयति पर्वत इति, अत्र प्रत्यक्षेण पर्वतस्य प्रसिद्धिरिति भावः । एतेनानुमानानुमेय - व्यवहारस्सर्व एव बुद्धावेव किमपि धर्मित्वेन किमपि च धर्मत्वेन प्रकल्प्य प्रवर्त्तते नतु बाह्यं सदसत्त्वमपेक्ष्येति मतमपास्तम्, अन्तर्बहिर्वाऽनासादिताऽऽलम्बनाया बुद्धेर्धर्मधर्मित्वेन कस्यापि व्यवस्थापनासामर्थ्यात् । तस्मात्प्रमाणेन व्यवस्थापितः पर्वतादिरेव विषयभावं भजन् धर्मित्वादिकं प्रतिपद्यत इति । उभयसिद्धं निदर्शयति शब्द इति, अत्र हि शब्दमात्रस्य धर्मित्वमिष्टमन्यथा यस्मिन् कस्मिन्नेव शब्दे परिणामित्वस्य सिद्धयापत्तेः तथा च सर्वेषां शब्दानां श्रवणेन प्रत्यक्षासम्भवेन केषाञ्चित्प्रत्यक्षतः केषाञ्चिंच्च विकल्पतः प्रसिद्धिर्भवतीति भावः । ननु पर्वतो वह्निमानित्यत्रापि प्रत्यक्षसिद्धत्वं पर्वतस्य कथं, दृश्यमानभागेऽग्निमत्त्वसाधने प्रत्यक्षबाधा, तत्र वह्नयुपलब्धौ वा साधनवैयर्थ्यमदृश्यमानभागे तु साधने कुतो धर्मिणः प्रत्यक्षसिद्धत्वमिति चेन्मैवम्, अवयविद्रव्यापेक्षया पर्वतादेस्सांव्यवहारिकप्रत्यक्षप्रसिद्धताभिधानात् । अतिसूक्ष्मेक्षिकया पर्यालोचने तु न किञ्चित्प्रत्यक्षं, अस्मदादिप्रत्यक्षस्याशेष विशेषतोऽर्थसाक्षात्कारे सामर्थ्यविरहात् केवलिप्रत्यक्षस्यैव तत्र सामर्थ्यादिति ॥
"
શંકા – સાધવાને ઇષ્ટ, ધર્મીમાં જ સાધ્યપણાના વચનથી પ્રસિદ્ધિનું જ ધર્મીપણું પ્રાપ્ત થયું, કેમ કેસામાન્યથી વિજ્ઞાતમાં જ કિંચિત્ ધર્મવિશિષ્ટપણાએ સાધવાને ઇષ્ટ થાય છે. તથાચ તે ધર્મીની પ્રસિદ્ધિ કેવી રીતે થાય ? આવા પ્રશ્નમાં કહે છે કે
1
સમાધાન-ભાવાર્થ – “વળી ધર્મીની પ્રસિદ્ધિ પ્રમાણથી, વિકલ્પથી અથવા પ્રમાણ-વિકલ્પ ઉભયથી भावी, प्रेम } - 'सर्वज्ञ छे' खा प्रभाशे सहीं सर्वज्ञनी विद्वत्पथी प्रसिद्धि छे. 'पर्वत अग्निवाणी छे.' અહીં પર્વતની પ્રત્યક્ષ પ્રમાણથી પ્રસિદ્ધિ છે. ‘શબ્દ પરિણામી છે.' ઇત્યાદિમાં ત્રણેય કાળમાં વર્તનાર શબ્દરૂપ ધર્મની પ્રમાણ અને વિકલ્પરૂપ બન્નેથી પ્રસિદ્ધિ છે.’
विवेयन – 'धर्मिणश्चेति प्रमाणादिति ।' निश्चित प्राभास्यवाणा प्रत्यक्ष खाहि (खाधिपध्थी परोक्ष પ્રકારરૂપ સ્મૃતિ-પ્રત્યભિજ્ઞા-તર્ક-અનુમાન-આગમોનું ગ્રહણ છે.) કોઈ એક પ્રમાણથી પ્રસિદ્ધિ.
૦ વિકલ્પથી=અનિશ્ચિત, પ્રામાણ્ય અને અપ્રામાણ્યવાળા જ્ઞાનનું વિષયપણું એ જ વિકલ્પ છે. તે વિકલ્પથી પ્રસિદ્ધિ.