________________
१४६
तत्त्वन्यायविभाकरे प्रथमावधारणे, द्वितीये च साधारणस्य प्रमेयत्वादेर्हेतुत्वप्रसङ्गः, सपक्षैकदेशावृत्तेश्चाहेतुत्वप्रसङ्गः स्यादिति । इयमेव व्याप्तिरत्र शास्त्रेऽन्यथाऽनुपपत्तिप्रभृतिशब्दैर्व्यवहियत इत्याहेयमेवेति, ननु तथोपपत्त्यन्यथानुपपत्तिभ्यां द्विप्रकारेण हेतुप्रयोगो दृश्यते तत्र तत्र शास्त्रे, यथा पर्वतो वह्निमान् तथैव धूमोपपत्ते—मान्यथानुपपत्तेर्वेति । तत्र तथोपपत्तिरन्वयोऽन्यथानुपपत्तिर्व्यतिरेकस्तत्कथमत्रान्यथाऽनुपपत्तेरेव व्याप्तित्वमुक्तमिति जिज्ञासायामाह वह्नि विनेति, वह्नि विना धूमस्यानुपपत्तेरित्यनेन व्यतिरेकरूपान्यथानुपपत्तिः, वह्निसत्त्व एव धूमोपपत्तेश्चेत्यनेनान्वयरूपा तथैवोपपत्तिश्च प्रदर्शिता । अनयोरुभयोरपि परस्पराव्यभिचारित्वेन तयोरन्यथानुपपत्तिशब्दग्राह्यत्वमेव, नहि कश्चिद्विशेषस्तयोरित्यभिप्रायेणाहान्यथानुपपत्त्यादिशब्दवाच्येति । तेनैकत्र तयोरन्यतरस्य प्रयोगे साध्यसिद्धावपरप्रयोगस्य वैयर्थ्यमेवेति भावस्सूचितः । आदिना प्रतिबन्धाविनाभावौ ग्राह्यौ, हेतुनिष्ठव्याप्तेरेवानुमानौपयिकतया हेतुर्व्याप्यो निरूपकञ्च साध्यं व्यापकमित्याहात इति, हेतुनिष्ठव्याप्तेरनुमित्यौपयिकत्वादित्यर्थः, व्याप्यो व्याप्त्याश्रयः, वह्निर्व्याप्तिनिरूपकः तथा च वह्निनिरूपितव्याप्त्याश्रयत्वाद्धूमो वह्निव्याप्यः, धूमवृत्तिव्याप्तिनिरूपकत्वाद्वह्निधूमव्यापक इति भावः । व्याप्यव्यापकयोरुभयत्र व्याप्ते काकारप्रतीतिविषयत्वमिति स्पष्टयति तथा चेति, धूमस्य व्याप्यत्वे वह्वेश्च व्यापकत्वे इत्यर्थः । अवश्यं व्यापकसत्त्वमिति, व्यापकस्य सत्त्वमेवेत्यर्थः, न तु व्यापकस्यैव भाव इति, व्यापकाभावप्रसङ्गात्, मूर्त्तत्वादेरव्यापकस्यापि तत्र सत्त्वात् । व्यापकसत्त्व एव चेति, तथा चायोगाऽन्ययोगव्यवच्छेदाभ्यां विभिन्नाकारतयोभयत्रैकाकारत्वविरहेणैवमेव व्याप्यव्यापकभावस्य नियमो भवतीति भावः ॥
હવે અનુમાનલક્ષણમાં રહેલ વ્યાપ્તિસ્મરણના વિષયભૂત વ્યાપ્તિને કહે છે.
ભાવાર્થ – “તુમાં સાધ્યના અભાવવાળામાં અવૃત્તિત્વ “વ્યાપ્તિ' કહેવાય છે. આ જ વ્યાપ્તિ અન્યથા અનુપપત્તિ-પ્રતિબંધ-અવિનાભાવ શબ્દોથી કહેવાય છે. વતિ સિવાય ધૂમની અનુપપત્તિ હોવાથી, વતિની સત્તામાં જ ધૂમની ઉપપત્તિ હોવાથી, વદ્વિનિરૂપિત-અન્યથા અનુપપત્તિ આદિ શબ્દવાઓ વ્યાપ્તિ-ધૂમમાં વર્તે છે. એથી ધૂમ વ્યાપ્ય છે અને વદ્વિનિરૂપકવ્યાપક છે. તથાચ વ્યાખના સત્ત્વમાં અવશ્યવ્યાપક સત્ત્વ છે અને વ્યાપકસત્ત્વમાં જ વ્યાપ્ય હોય છે. આ પ્રમાણે વ્યાપ્યવ્યાપકભાવ નિયમ સિદ્ધ થાય છે.
१. पर्वतो वह्निमान् धूमादित्यादिहेतोरित्यर्थः, सपक्षकदेशेऽयोगोलकादौ धूमस्याविद्यमानत्वादिति भावः ॥ २. यत्र धर्मिणि व्यापकोऽस्ति तत्रैव व्याप्यस्य भावो न तदभावेऽपीत्यवधारणमभ्युपेत्य लक्षणप्रणयनेन तदन्तर्गततयोभयविधस्यापि लाभेनेशव्याप्तेरन्यथानुपपत्तिशब्दवाच्यत्वे तदुभयोरपि ग्रहणसंभवादिति भावः ॥