________________
१४०
तत्त्वन्यायविभाकरे
ऽन्याश्रयात्, साध्यसद्भावनिश्चये व्याप्तिनिश्चयात् तन्निश्चये च साध्यनिश्चयादिति मैवम् व्याप्तिनिश्चये साध्यनिश्चयस्याप्रयोजकत्वात् तर्काख्यप्रमाणान्तरादेव तन्निश्चयात् । नच हेतावविनाभावनिश्चायकेन तर्केणैव साध्यस्यापि सिद्धेर्हेतोरकिञ्चित्करत्वं स्यादिति वाच्यम्, हेतुना देशादिविशेषावच्छिन्नस्य सार्ध्यस्य साधनात् तर्कात्तु सामान्यत एव सिद्धत्वात् । एवमसत्प्रतिपक्षितहेतोरपि न हेतुलक्षणत्वं उभयत्र हेतावविनाभावासम्भवात् तत्स्थितमेतन्निश्चितव्याप्तिमत्त्वमेव हेतोरसाधारणं रूपं न तु त्रिरूपं पञ्चरूपं वेति ॥ अत्रेदं विचार्यम्, अविनाभावः किं सामान्यस्य सामान्येन, विशेषैर्वा, विशेषाणां सामान्येन, विशेषैर्वेति । सामान्यस्य सामान्येन व्याप्तिर्नानुमानाङ्गभूता, तया च सामान्यस्यैव सिद्धेः सामान्यतया सर्वदेशकालसम्बन्धित्वेन प्रसिद्धस्य साध्यस्य साधने सिद्धसाधनत्वापत्तेः । नापि विशेषैः, देशकालानवच्छिन्नैस्तैस्तथात्वे देशकालानवच्छिन्नवह्नयादीनां सुप्रसिद्धत्वे सिद्धसाधनत्वापत्तेः, तदवच्छिन्नैर्व्याप्तित्वे चानुगमाभावात्, नहि धूमसामान्यस्य पर्वतादिस्थैरग्निविशेषैरनुगमोऽस्ति पर्वतीयवह्नयभावेऽपि धूमसामान्यस्योपलम्भात् । विशेषाणां सामान्यनापि न व्याप्तिः, पूर्वोदितविधिना सिद्धसाधनत्वापत्तेः पर्वतीयधूमाभाववति महानुसादौ वह्निसामान्यस्य वृत्त्या व्यभिचाराच्च । नापि विशेषाणां विशेषैः तेषामानन्त्येन दुर्ग्रहात् । अत्रोच्यते, सामान्यविशेषवतस्सामान्यविशेषवता व्याप्तिस्तद्ग्राहकस्तर्कः, अत एव यावान् कश्चिद्धूम इत्याद्यभिलापकं वाक्यमुक्तं तत्र यावत्पदेन सामान्यस्य कश्चिदित्यनेन विशेषस्य बोधः, तत्रापि न सामान्यविशेषौ केवलौ व्याप्यव्यापकभावेनानुभूयेते, किन्तु जात्यन्तरस्य सामान्यविशेषोभयात्मनस्तद्रूपतयाऽवभासनादिति ॥
હવે અનુમાનલક્ષણમાં રહેલ હેતુનું લક્ષણ કહે છે.
भावार्थ – “निश्चित व्याप्तिवाणी 'हेतु' होय छे. प्रेम -पत्रि३य साध्य होये छते घूम. व्याप्ति हेतुनुं સ્વરૂપ છે, પરંતુ હેતુના પક્ષસત્ત્વ, સપક્ષસત્ત્વ, વિપક્ષાસત્ત્વરૂપ ત્રણ સ્વરૂપો કે અબાધિતત્ત્વ અસત્ પ્રતિપક્ષત્વની અપેક્ષાએ પાંચ સ્વરૂપો નથી; કેમ કે-અસાધારણપણાનો અભાવ છે.
१. तर्केण व्याप्तिग्रहणवेलायां हि न पर्वतादीनां भानं सर्वत्रानुवृत्त्यभावात् । तर्ह्यनुमितौ पक्षः कथं भासत इति चेत् हेतुग्रहणाधिकरणतया क्वचित्तद्भानम् । हेतोर्हि ग्रहः पर्वतादौ जातोऽतस्साध्यस्यापि तत्रैवेति तद्भानम् । क्वचिदन्यथाऽनुपत्त्यवच्छेदकतया, अस्ति नभसि चन्द्रो जलचन्द्रादित्यादौ नभसि हेतोरग्रहेऽपि नभसि चन्द्रास्तित्वं विना जलचन्द्रानुपपत्तेरन्यथानुपपत्त्यवच्छेदकतया नभसो भानमिति ॥ २. अत्र वैशेषिकाः सामान्ययोर्नाविनाभावः सिद्धसाधनात्, अपास्तविशेषं हि व्याप्ति सामान्य सिद्धं, नियतदेशकालावच्छेदेन विशेषार्थिनां प्रवृत्तिनिवृत्त्योरभावप्रसङ्गाच्च । न च विशेषयोरविनाभावः तेषामानन्त्येनाप्रसिद्धेः तदायत्तस्याविनाभावस्य चाप्रसिद्धेः । यावतामुपलम्भस्तावत्स्वेवाविनाभावग्रहणे च नागृहीताविनाभावस्य विशेषस्योपलम्भादनुमानं स्यात् नैतदूषणम्, सामान्यवतोरविनाभावग्रहणाभ्युपगमात् ॥