________________
द्वितीयो भाग / सूत्र - १-२, चतुर्थः किरणे
१३९ भावादिति । अविनाभावनियमनिश्चयादेव दोषत्रयादिपरिहारोपपत्तेरविनाभाव एव हेतोरसाधारणं रूपं, स चासिद्धे विरुद्धेऽनैकान्तिके वा न सम्भवति, तदभावाच्च त्रिरूपे विद्यमानेऽपि तोर्गमकत्वं न दृष्टं, यथा स श्यामो मैत्रातनयत्वादितरमैत्रापुत्रवदित्यादौ । न च नैयत्येन विपक्षव्यावृत्तिर्नास्तीति वाच्यम्, विपक्षान्नियमेन व्यावृत्तेरेव व्याप्तित्वेनेतररूपद्वयवैयर्थ्यापत्तेः । पक्षधर्मत्वाभावेऽपि उदेष्यति शकटं कृत्तिकोदयात्, उपरि सविता भूमेरालोकत्त्वात् अस्ति नभश्चन्द्रो जलचन्द्रादित्याद्यनुमानदर्शनात् । तत्रापि कथञ्चित्कालाकाशादीनां पक्षत्वकल्पने काककार्थेन हेतुना प्रासादधावल्यस्यापि साध्यत्वप्रसङ्गस्स्यात्तत्रापि कथञ्चिज्जगतः पक्षत्वसम्भवात् । जगत् प्रासादधावल्ययोगि, काककार्ययोगित्वादिति । जगतः पक्षत्वस्य लोकविरुद्धत्वे कालाकाशादीनामननुभूयमानत्वेन लोकविरुद्धत्वं तुल्यमेव, क्लिष्टकल्पनापत्तिश्च । नापि संपक्षसत्त्वं गमकं, सपक्षेऽसतोऽपि श्रावणत्वादेश्शब्दानित्यत्वे गमकत्वप्रतीतेः । न च श्रावणत्वस्यासाधारणत्वादनैकान्तिकत्वमिति वाच्यम्, यद्यदसाधारणं तत्तदनैकान्तिकमिति व्याप्त्यसिद्धेः सपक्षविपक्षासत्त्वेन निश्चितेऽपि श्रावणत्वे पक्षान्तर्भावेणाविनाभावग्रहसम्भवात् । अन्यथा सर्वानित्यत्वे साध्ये सत्त्वादेर्हेतुत्वं तव न स्यात् । नापि सपक्षविपक्षयोरसत्त्वेन संशयितत्वादसाधारणः, श्रावणत्वादेस्तदसत्त्वेनैव निश्चयात् । तस्मानिश्चितान्यथानुपपत्तिरेव हेतो रूपं तच्चासिद्धादिहेतौ न सम्भवत्येवेति किं त्रिरूपेण । एवं पञ्चरूपत्वमपि न हेतुलक्षणं, अग्निजन्योऽयं धूमस्सत्त्वात्पूर्वोपलब्धधूमवदित्यादौ पक्षे धूमे हेतोस्सत्त्वस्य सपक्षे पूर्वदृष्टधूमे च सत्त्वात् खरविषाणादौ विपक्षेऽसत्त्वात् पक्षे बाधाभावात्साध्याभावसाधकानुमानासम्भवाच्च पञ्चरूपत्वेऽक्षतेऽप्यगमकत्वात्, न च यावद्विपक्षावृत्तित्वं हेतोर्नास्तीति वाच्यम्, तस्यैवान्यथानुपपत्तिरूपत्वेन हेतुलक्षणत्वे शेषाणामकिञ्चिकरत्वात् । एवमबाधितविषयत्वं निश्चितमेव हेतुलक्षणमिष्टं भवतस्तनिश्चयश्च न सम्भवति, तन्निश्चयसाध्यनिश्चययोरन्योऽन्याश्रयात् । सति हि हेतौ बाधितविषयत्वाभावनिश्चये साध्यनिश्चयस्तन्निश्चये च बाधितविषयत्वाभावनिश्चय इति, न च प्रमाणान्तरेण बाधितविषयत्वाभावनिश्चयान्नान्योऽन्याश्रय इति वाच्यम्, तस्याकिञ्चित्करत्वात्, कुतश्चिद्बाधनाभावनिश्चये कुतश्चित्साध्याभावस्यापि सद्भावसम्भवात् । नन्वविनाभावोऽपि हेतुलक्षणं माभूत् अन्यो
१. शब्देऽनित्यत्वसद्भाव एव श्रावणत्वोपपत्तिरूपतथोपपत्तिसम्भवादिति भावः ।। २. सत्त्वस्य विपक्षावृत्तित्वेन निश्चितत्वेऽपि सपक्षावृत्तित्वनिश्चयतो गमकत्वं सत्त्वस्य न स्यात् न च तत्र सपक्ष एव नास्ति इति वाच्यम्, विद्यमाने सपक्षे हेतोरवृत्तित्वनिश्चयस्य गमकतायामनङ्गत्वादिति तात्पर्यम् ॥