________________
चतुर्थः किरणः
अथानुक्रमायातमेतेषां कार्यभूतमनुमानं स्वरूपयति
हेतुज्ञानव्याप्तिस्मरणकारणकं साध्यविज्ञानमनुमानम् । यथा पर्वतो वह्निमानिति विज्ञानम् ॥१॥
हेतुज्ञानेति । हेतोर्वक्ष्यमाणस्वरूपस्य ज्ञानं निश्चयः, व्याप्तेरविनाभावरूपायास्स्मरणं ते कारणं यस्य तथाभूतं साध्यस्याभिधास्यमानस्वरूपस्य विज्ञानं निश्चयोऽनुमानमित्यर्थः । अत्रे हेतुज्ञानं व्याप्तिस्मरणश्च मिलित्वाऽनुमितौ कारणमन्यथा विस्मृतव्याप्तेरनधिगतव्याप्तेर्वाऽत्रस्थमनुष्यस्य नारिकेलद्वीपवासिनो वा हेतुज्ञानमात्रात्तदभाववतो वा व्याप्तिस्मरणवतोऽनुमानोत्पत्तिस्स्यात् । एवं ज्ञानद्वयादेव सर्वत्रानुमानोत्पत्त्या निरुक्तज्ञानद्वयजन्यातिरिक्तपरामर्शात्मकविशिष्टज्ञानस्यानुमानहेतुत्वमप्रामाणिकमेवेति बोध्यम्, तथाकल्पने गौरवात् प्रयोजनाभावाच्च । अनुमानं दृष्टान्तयति यथेति, गृहीतधूमस्य स्मृतव्याप्तिकस्य च यत्पर्वतो वह्निमानिति विज्ञानमुदेति तदनुमानमिति भावः ॥
ચતુર્થ કિરણ હવે અનુક્રમથી આવેલ આ સ્મરણ આદિના કાર્યભૂત અનુમાનને કહે છે.
ભાવાર્થ – “તુજ્ઞાન અને વ્યાપ્તિસ્મરણરૂપ કારણજન્ય સાધ્યવિષયવિજ્ઞાન, એ “અનુમાન' કહેવાય छ. भ3-पर्वत पहिवामो छ'- विशान."
१. नैयायिकानां मतेऽपि हेतुज्ञानसम्बन्धज्ञानयोरावश्यकत्वमेव, साध्यव्याप्यहेतुमत्ताज्ञानरूपपरामर्शात्मकविशिष्टज्ञानं प्रति विशेषणज्ञानमुद्रया तयोः कारणत्वात्, तथा च ताभ्यामेवानुमित्युत्पत्त्या व्यर्थः परामर्श इति भावः॥