________________
द्वितीयो भाग / सूत्र - ४, तृतीयः किरणे
१२७ सामान्यमेव न स्यादित्येवंविधस्तर्कः । अस्ति तस्य प्राणिनो धर्मविशेषो विशिष्टसुखादिसद्भावान्यथानुपपत्तेरित्यादौ साध्यस्य धर्मविशेषस्य शुभः पुण्यस्येत्याद्याप्तवचनादेव ग्रहणंहेतोश्चानुमानात् । अस्त्यादित्यस्य गमनशक्तिः गमनान्यथानुपपत्तेरित्यादौ साध्यस्यानुमानात्पूर्वं यत्कार्यं तच्छक्तिमत्कारणपूर्वकं यथा सम्प्रतिपन्नं, कार्यञ्च गमनमित्येवंरूपानुमानान्तराद्ग्रहणं हेतोश्च देशान्तरप्राप्तिरूपलिङ्गादिति । एतेन व्याप्यारोपेण व्यापकारोपस्तर्कः स च क्वचिद्विरोधिशङ्कानिवर्तकत्वेन प्रमाणानुग्राहकः, न चायं स्वतः प्रमाणमिति मतमपास्तम्, सामान्यलक्षणाप्रत्यासत्तौ मानाभावेन सकलसाध्यसाधनोपसंहारेण व्याप्तिग्राहकस्याभावप्रसङ्गात् । न चान्वयव्यतिरेकसहकृतेन प्रत्यक्षेण व्याप्तिर्गृह्यत इति वाच्यम्, प्रतिनियतदेशकालावच्छिन्नार्थेष्वेवेन्द्रियस्य प्रवृत्त्या सकलदेशकालावच्छिन्नसाध्यसाधनोपसंहारेण तेन तद्ग्रहणासम्भवात् । बहिरिन्द्रियनिरपेक्षस्य मनसो बहिरर्थसाक्षात्कारे सामर्थ्यविरहेण तद्वृत्तिव्याप्तेस्तेनाग्रहात् । नाप्यनुमानात्तद्ग्रहः, प्रकृतानुमानेनैव तत्प्रतिपत्तावन्योन्याश्रयात् व्याप्तिज्ञाने सत्यनुमानं सति च तस्मिन् व्याप्तिग्रह इति । अनुमानान्तरतस्तत्प्रतिपत्तौ त्वनवस्था, तस्यापि गृहीतव्याप्तिकस्यैव प्रकृतानुमानव्याप्तिग्राहकत्वात् तद्व्याप्तिग्रहश्चान्यानुमानगृहीतव्याप्तिकानुमानादिति । तस्मादुपलम्भानुपलंभादिजन्यं व्याप्त्यादिविषयकं तर्काख्यं ज्ञानमवश्यमभ्युपेयम् । तथा स्वविषयभूते व्याप्त्यादौ अविसंवादकत्वात्प्रमाणत्वं तर्कस्य, अत्र प्रयोगस्तर्कः प्रमाणमबाध्यमानविषयकत्वात्प्रत्यक्षादिवदिति, स्वपरव्यवसायित्वेन च स्वतः प्रमाणम् । अयञ्च तर्कः सम्बन्धप्रतीत्यन्तरनिरपेक्ष एव स्वयोग्यतासामर्थ्यात्सम्बन्धप्रतीति जनयतीति नानवस्था । पराभिमततर्कोऽपि क्वचिद्व्याप्तिविचाराङ्गतया क्वचिद्व्यभिचारिशङ्कानिवर्त्तकतया चोपयुज्यत इति ।
તર્ક પ્રમાણનું નિરૂપણ ભાવાર્થ – “ઉપલંભ અને અનુપલંભ આદિથી જન્ય વ્યાપ્તિ આદિ વિષયવાળું જ્ઞાન “તર્ક કહેવાય છે. જેમ કે-વહ્નિ હોય છતે જ ધૂમ હોય છે, વહ્નિ નહીં હોયે છતે ધૂમ હોતો નથી. આવું જ્ઞાન व्याप्तिविषय छे.
१. न च साधनसामान्यसाध्यसामान्ययोरनवयवयोस्सन्निकृष्टत्वादेकत्रापि साकल्येनेन्द्रियेण ग्रहणमस्ति, विशेषप्रतिपत्तिस्तु सर्वत्र हेतोः पक्षधर्मताबलादेवेति वाच्यम्, व्याप्तिग्रहणकाल एव सामान्यस्वरूपस्य साध्यस्य सिद्ध्या साधनवैफल्यापत्तेः, पक्षधर्मताया धूमविशेष एव सत्त्वे न तस्य वह्निविशेषेण व्याप्तरगृहीततया गमकत्वासम्भवात् धूमसामान्ये सत्त्वे तु वह्निसामान्यस्यैव सिद्धिः स्यान्न तु विशेषस्येति ॥