________________
१२६
तत्त्वन्यायविभाकरे
नाणेan idami, tो, , विशण नेत्रवाणो भने २५ usauो' डोय, तेने 'यत्र' જાણવો. દૂધ અને જળને જે જુદા પાડે, તે “હંસ' હોય અને જે છ પગવાળું જીવવું હોય તે ભમરો હોય. સપ્તપર્ણ' વિષય (એકી સંખ્યા) પત્રથી યુક્ત હોય, એમ વિદ્વાનોએ જાણવું. પાંચ રંગવાળું રત્ન મેચક કહેવાય, વિસ્તૃત સ્તનવાળી યુવતી હોય અને જે એક શીંગવાળો હોય, તે ગેંડો કહેવાય.” આ પ્રમાણેના કથનો સાંભળ્યા બાદ ચૈત્ર, હંસ આદિ નજરે પડતાં તેઓની ચૈત્ર વગેરેરૂપે પ્રતીતિ કરવી, તે પ્રત્યભિજ્ઞાન” છે; કેમ કે-તથા પ્રકારના જ્ઞાનો સંકલનાત્મક છે.
सम्प्रति तर्कप्रमाणं निरूपयतिउपलम्भानुपलम्भादिजन्यं व्याप्त्यादिविषयकं ज्ञानं तर्कः । यथा वह्नौ सत्येव धूमो भवति, वह्नावसति धूमो न भवत्येवेति ज्ञानं व्याप्तिविषयकम् ॥ ४॥
उपलम्भेति । उपलम्भानुपलम्भौ-यथाक्षयोपशमं सकृदसकृद्वा प्रमाणमात्रेण साध्यसाधनयोर्ग्रहणाग्रहणे, न तु केवलं प्रत्यक्षेण, अनुमानादिनापि अतीन्द्रियसाधननिश्चयानिश्चययोरुपादानात् । आदिनाऽऽवापोद्वापयोर्ग्रहणं ताभ्यां जन्यं वक्ष्यमाणस्वरूपव्याप्त्यादिविषयकं ज्ञानं तर्क इत्यर्थः, अत्रादिना वाच्यवाचकभावो ग्राह्यः, तथाचोपलम्भानुपलम्भजन्यव्याप्तिविषयकज्ञानाऽऽवापोद्वापजन्यवाच्यवाचकभावज्ञानान्यतरत्वं तर्कस्य लक्षणम् । दृष्टान्तमाह यथेति, प्रत्यक्षेण सकृदसकृद्वा वह्निधूमयोर्ग्रहणाग्रहणानन्तरं यावान् कश्चिद्धूमस्स सर्वोऽपि वह्नौ सत्येव भवति वह्नावसति धूमो न भवत्येवेति सर्वदेशकालावच्छेदेन साध्यसाधनसम्बन्धविषयकं ज्ञानमुदेति तस्मादयं तर्क इति भावः, सर्वदेशकालावच्छेदेन साध्यसाधनसम्बन्धो व्याप्तिः तद्विषयकश्च तर्कः, तदुल्लेखश्चेदमस्मिन् सत्येव भवति, इदमस्मिन्नसति न भवतीत्येवंरूपः । अत्र सहकारिकारणे च प्रमाणेन सकृद्वाऽसकृद्वा, साध्यसाधनयोर्ग्रहणाग्रहणे, महानसादौ वह्निधूमयोर्ग्रहणं हूदादौ तयोरग्रहणमिति । न च भूयोदर्शनव्यभिचारादर्शनसहकृतेनेन्द्रियेणैव व्याप्तिर्योग्यत्वादृह्यते, सामान्यलक्षणाप्रत्यासत्त्या सकलसाध्यसाधनव्यक्त्युपसंहारस्यापि सम्भवेन तदुपसंहाराय व्यर्थ एव तर्क इति वाच्यम्, तर्कयामीत्यनुभवसिद्धेन तर्केणैव सकलसाध्यसाधनव्यक्त्युपसंहारेण व्याप्तिग्रहोपपत्तौ सामान्यलक्षणाप्रत्यासत्तिकल्पने प्रमाणाभावात्, ऊहं विना ज्ञातेनापि सामान्येन सकलव्यक्त्यनुपस्थितेश्च ! अपेक्ष्यते हि तया सामान्यं यदि व्यक्तिसाकल्यव्यभिचारि स्यात्तदा
१. सर्वोपसंहारेण व्याप्तेः प्रत्यक्षाविषयत्वं, उपलम्भानुपलम्भस्वभावस्य द्विविधस्यापि प्रत्यक्षस्य सन्निहितमात्रविषयकत्वात् । तथा च व्यभिचारादर्शनभूयोदर्शनसहकृतमपि प्रत्यक्षं न व्याप्तिं ग्राहयति, स्वाविषये सहकारिसहस्रसहकृतेनापि स्वेन तद्ग्रहायोगात् ॥