________________
११८
तत्त्वन्यायविभाकरे ___अनुभवेति । अनुभवस्मरणोभयमात्रजन्यत्वे सति ज्ञानत्वं लक्षणम्, अनुभवमात्रजन्यत्वे सति ज्ञानत्वस्य स्मृतौ, स्मृतिजन्यत्वे सति ज्ञानत्वस्यानुमित्यादौ अनुभवस्मरणोभयजन्यत्वस्यापि तत्रैव सत्त्वेन व्यभिचारात्तत्तत्पदानि वाच्यानि । ननु ज्ञानमिदं प्रत्यक्षस्मरणाभ्यां भिन्नं भवितुं नार्हति तदेवेदमिति हि प्रत्यभिज्ञानं, तत्र तदिति स्मरणमिदमिति प्रत्यक्षमतो नान्यः कश्चिदस्य विषयोऽतो नेदं प्रमाणान्तरमिति चेन्न, ताभ्यामस्य वैलक्षण्यात्, अस्ति पत्र विलक्षणो विषयो यस्य ग्रहणं स्मरणप्रत्यक्षाभ्यामशक्यं पूर्वापराकारैकधुरीणं द्रव्यं प्रत्यभिज्ञानस्य विषयः, न च तत्स्मरणस्य विषयः, अनुभूतार्थविषयत्वात्तस्य, नापि प्रत्यक्षस्य, वर्तमानार्थमात्रवृत्तित्वात्, अस्य दर्शनस्मरणोत्तरकालभावित्वेन ज्ञानान्तरत्वेनानुभवाच्च, न ह्यनुभूयमानस्यापलापो युक्तोऽतिप्रसङ्गादित्याशयेन प्रत्यभिज्ञाया विषयमुपनिबध्नातीदमिति, प्रत्यभिज्ञानमित्यर्थः, तत्तेदन्तोल्लेखनयोग्यमिति, प्रायस्स्मृताविवात्रापि तत्तेदन्तयोरुल्लेखनं भवतीति भावः, ननु तत्ताऽस्पष्टता, इदन्ता स्पष्टता, तथा च स्पष्टास्पष्टाकारभेदान्नैकं प्रत्यभिज्ञानस्वरूपमस्ति, विरुद्धधर्माध्यासेऽप्यभेदे प्रत्यक्षानुमानयोरप्यैक्यं स्यादिति चेन्न, चित्रज्ञानवदाकारभेदेऽपि तस्यैकज्ञानत्वेनानुभवात् तर्हि विलक्षणविषयाभावान्नेदमस्तीत्यत्राहैकत्वसादृश्यवैलक्षण्यप्रतियोगित्वादिविषयकमिति, क्वचिदेकत्वं क्वचित्सादृश्यं क्वचिद्वैलक्षण्यं क्वचिच्च प्रतियोगित्वमस्य विषय इति भावः । ननु स एवायमित्यादिप्रत्यभिज्ञानं स्मृतिप्रत्यक्षात्मकज्ञानद्वयमेव, परन्तु तयोर्भेदस्याग्रहादेकरूपतया भासत इत्याशङ्कायामाह संकलज्ञानापरपर्यायमतीतवर्तमानोभयकालावच्छिन्नवस्तुविषयकञ्चेति । सङ्कलनं नाम विवक्षितधर्मयुक्तत्वेन वस्तुनः प्रत्यवमर्शनम्, प्रत्यक्षस्मरणोत्तरकालमनुभूयमानत्वेन न तत् ज्ञानद्वयमपि तु सङ्कलनात्मकं ज्ञानान्तरमेव, अन्यथा विशिष्टज्ञानमात्रोच्छेदः प्रसज्येत, सर्वस्यापि विशिष्टज्ञानस्य विशेषणज्ञानविशेष्यज्ञानोभयपूर्वकत्वेनावश्यनियततदुभयेनैवोपपत्तौ विशिष्टज्ञाने स्वीक्रियमाणे गौरवात् । तथा प्रत्यक्षं वर्तमानमात्रकालावच्छिनवस्तुविषयं, स्मरणश्चातीतमात्रकालावच्छिन्नवस्तुविषयं, प्रत्यभिज्ञानन्तु तदग्राह्यवर्तमानकालातीतकालोभयावच्छिनवस्तुविषयकमिति न
१. किञ्च प्रत्ययानां प्रामाण्यनिबन्धनं न केवलं विषयातिरेक एव, संदिग्धस्य सन्देहापकरणस्यापि निबन्धनत्वात् । तथाहि घटादयः कदाचिदुपलक्षिताकाराः अन्यदाऽनुपलक्ष्यमाणाः सदसत्तया सन्देहविषयतामापद्यन्ते प्रत्यभिज्ञा च तेषां सन्देहविषयतामपाकुर्वाणा प्रमाणतामश्नुत एवेति ॥ २. तथा च प्रत्यभिज्ञानं प्रमाणं, अविसंवादित्वे सति स्वार्थव्यवसायात्मकत्वात्, अन्यथा हि विसंवादः स्यात् संशयादिवत् न चेदं प्रत्यभिज्ञानमव्यवसायात्मकं, तदेवेदं तत्सदृशमेवेदमित्याद्येकत्वसादृश्यादिविषयस्य प्रत्यभिज्ञानस्याबाधितस्य संशयादिव्यवच्छेदेनावगमात् । बाध्यमानस्य चाप्रमाणत्वोपपत्तेस्तदाभासत्वात् । न च सर्वं प्रत्यभिज्ञानं बाध्यमानमेव, तत्साधकप्रमाणाभावादित्यपि सूचितम् ॥