________________
तत्त्वन्यायविभाकरे
साधयितुमिष्टत्वेनादोषत्वात्, स हि अष्टविधकर्मपुद्गलसंघातोपगूढत्वासशरीरत्वाच्च कथंचिन्मूर्त्तत्वादिधर्मयुक्त एवेति दिक् ॥ नन्वस्तु जीवः प्रत्यक्षसिद्धस्तथापि चेतनालक्षणो जीव इति लक्षणं न सम्भवति, तथा सति हि चेतनास्वरूपं जीव इत्युक्तं स्यात् तच्च न संभवति चेतनाया गुणत्वाज्जीवस्य गुणित्वाच्च स्वरूपभेदात् तयोर्भेदे तु जीवस्यैव चेतनागुणो न घटादेरित्यवधारणं न स्यात्, तयोश्चाभेदे य एव जीवस्सैव चेतना, यैव चेतना स एव जीव इति भेदनिबन्धनलक्ष्यलक्षणभावो न भवेदिति चेन्न तयोः कथञ्चिद्भिन्ना-भिन्नत्वेनोभयोपपत्तेः । ननु तथापि कथञ्चिद्भेदेन चैतन्याश्रयो जीवो वर्त्तत इति न सङ्गच्छते सर्वभावानां क्षणिकत्वेन नित्यस्य चैतन्याश्रयस्यासिद्धः । यद्धि सत् तत्क्षणिकं यथा घटः संश्च विवादाध्यासित इति, अत्र सत्त्वमर्थक्रियाकारित्वं नहि संश्चार्थो न चार्थक्रियाकारीति संभवति, तथा च ज्ञानान्येव सन्तन्यमानानि क्षणिकानि सन्ति न ततोऽन्यो नित्यस्तदाश्रयो जीवो नाम कश्चिदिति चेन्न घटादीनां कालान्तरस्थायित्वेन क्षणिकत्वस्यासिद्ध्या सत्त्वस्य क्षणिकत्वेन व्याप्त्यसिद्धेः, न च घटादौ सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासान्न कालान्तरावस्थायित्वं, अन्यथा कालान्तरभाविजलाहरणादिकमिदानीमपि कुर्यान्न करोत्यतोऽसमर्थत्वेन पूर्वोत्तर-कालयोनैको घट इति क्षणिकत्वं सिद्धमेवेति वाच्यम्, सामर्थ्यासामर्थ्यलक्षणविरुद्धधर्माध्यासा-सिद्धेः । इदानीं जलाहरणं कुर्वतो घटस्य कालान्तरीयजलाहरणं प्रत्यपि सामर्थ्यात् । न च सति सामर्थ्य कार्यमवश्यं करणीयमित्यस्ति नियमो सहकारिलाभालाभप्रयुक्तत्वात् करणाकरणयोः । तस्मान्न क्षणिकत्वव्याप्तं सत्त्वं, किञ्च नित्यात्मानभ्युपगमे क्षणिकत्वेन ज्ञानानां स्मरणानुपपत्तिः, अन्यदृष्टस्यान्येनास्मरणात्, न च नानात्वेऽपि ज्ञानानां कार्यकारणभावेन स्मरणं युज्यत इति वाच्यम्, उपाध्यायानुभूते शिष्यस्य स्मरणप्रसङ्गात्, तज्ज्ञानानां कार्यकारण-भावाविशेषात्, न च शरीरभेदाग्रहोऽपि नियामक इति वाच्यम्, एतज्जन्मनि जातिस्मरणेन प्राग्जन्मानुभूतानां स्मरणासंभवात्, प्राग्भवीयस्वज्ञानानां सर्वज्ञेनाप्रतिसंधानापत्तेश्च । कार्यकारणभावमात्रस्य स्मृतिहेतुत्वासंभवाच्च । कृतहान्यकृताभ्यागमप्रसङ्गाच्च, येन हि ज्ञानेन शुभाशुभं कर्माचरितं न तेन फलमुपभुज्यते येन तु न कृतं तेनोपभुज्यते चेति । शुभाशुभकर्मप्रवृत्त्यप्रवृत्तिप्रसङ्गेन परलोकाद्यनुष्ठानासंभवाच्च, न चैकज्ञानस्य कर्तृत्वभोक्तृत्वा-भावेऽपि तत्सन्तानस्य स्थिरैकरूपस्य ते भविष्यत एवेति वाच्यम्, सन्तानस्य विज्ञानानतिरेकात, १. एकसन्तानिकत्वेन स्मरणं सम्भवतील्याशंकायान्त्वाह कार्येति, एकसन्तानिकत्वस्यापि हेतुत्वादिति भावः । २. अस्तूभयं हेतुरित्याशंकायां दोषान्तरमाह कृतेति, इष्टापत्तौ बाधकमाह शुभेति ॥ ३. तथा च न स्थिरैकरूपत्वमत एव न व्यतिरिक्तत्वमिति भावः ॥