________________
५७
सूत्र - १, द्वितीय किरणे व्यतिरिक्तत्वेऽप्यचेतनत्वात्, व्यतिरिक्तचेतनत्वे तु जीवस्यैव नामान्तरणा-भ्युपगमप्रसङ्गात्, न च वासनासहकृतं ज्ञानमेव कर्तृ स्मर्तृ भोक्तृ च भवतीति किं तदतिरिक्तसुखदुःखफलभोक्तृकल्पनयेति वाच्यम्, वासनाया अक्षणिकाया ज्ञानातिरिक्ताया त्वयानभ्युपगमात्, ज्ञानात् सुखदुःखयोरपि कारणस्वरूपफलभेदेनाभेदासम्भवाच्च । न खलु वनितारूपादिज्ञानोत्पत्तौ या सामग्री वनितादिरूपा सैव सुखदुःखयोरपि,किन्तु रागादिवासनाविशेषोऽपीति कारणभेदः, स्वपरप्रकाशकं ज्ञानं, अनुकूलप्रतिकूलवेदनीये च सुखदुःखे इति स्वरूपभेदः, प्रवृत्तिनिवृत्ती च ज्ञानस्य फलं, तृष्णावैमुख्यादिजननं सुखदुःखयोरिति फलभेदः। तस्माज्ज्ञानभिन्नस्सुखदुःखादिफलभोक्ताऽतिरिक्त आत्मा सिद्ध इति ॥ ननु बुद्धिर्नात्मस्वरूपभूता तद्विरुद्धधर्माधिकरणत्वाद् घटपटादिवत्, न चासिद्धो हेतुर्बुद्धेरुत्पादविनाशधर्मकत्वात्, आत्मनश्चानुत्पादविनाशधर्मकत्वादिति चेन्न, विरुद्धधर्माधिकरणत्वेऽपि सर्वथा भेदासिद्धेः मेचकज्ञानवत्, तद्धि एकं, युगपदनेकपदार्थग्राहिशक्त्यात्मकं चातो विरुद्ध धर्माध्यासः । न चानेकत्वधर्माधारा शक्तिरन्या, एकत्वधर्माधारञ्च तज्ज्ञानमन्यदिति वाच्यम्, अनेकाशक्तिस्तस्येति व्यपदेशासम्भवात्, ततो भेदादर्थान्तरवत् । न च सम्बन्धाद्भवतीति वक्तुं शक्यं, अनेकया शक्त्या सम्बध्यमानस्यानेकरूपत्वापत्तेः । न चैकयैव शक्त्याऽनेकमर्थं गृह्णातीति वक्तुं शक्यं सर्वार्थग्रहणप्रसङ्गात्, तस्मात्तयोः कथञ्चिद्भिन्नाभिन्नत्वेन चेतनास्वरूपत्वं युक्तम्, सा च प्रतिजीवं तारतम्यदर्शनाच्चेतनात्वेनैकापि पर्यायाद्भिन्ना ततश्चात्मापि द्रव्यत एकोऽपि पर्यायभेदाद् भिन्न इति विभावनीयम् । तच्च चैतन्यमेकरूपमपि कर्ममलदिग्धमनेकावस्थान्तरावस्कन्दि भवति, एतेनं यद्यात्मा ज्ञानरूपस्तदा सर्वदा विषयदर्शी भवेत्, जानानं हि जीवं ज्ञानस्वरूपमिति वक्तुं शक्यमन्यथा ज्ञानस्वरूपो न जानीते चेति विरुद्धं वचनं स्यात्, तथा विस्मृत्यनवबोधसंशया अपि न भवेयुः स्याच्चात्मा सर्वदाऽशेषविशेषविज्ञानात्मक इति शङ्कापि परास्ता, प्रदेशाष्टकं विहाय चलत्वेनानवरतमर्थान्तरेषु परिणमनात्, एकार्थेऽनवस्थितोद्भ्रान्तमनस्कत्वेन चिरमुपयोगाभावात् । उपयोगस्थितिकालस्य स्वभावादेवोत्कर्षेणान्तर्मुहूर्तपरिमाणत्वात् । आवरणस्वभावज्ञानावरणकर्मसद्भावात्कदाचिद्विज्ञानस्याव्यक्तबोधसंशयादीनाञ्चोपपत्तेश्चेति ॥
જીવનિરૂપણ નામક દ્વિતીય કિરણ શંકા-આ સઘળુંય ઉપરોક્ત નિરૂપણ ત્યારે જ યુક્તિસંગત થાય, કે જયારે જીવ નામનો પૃથ રૂપે કોઈ પદાર્થ સાબીત થાય ! १. उक्तेन वक्ष्यमाणेन च कारणेनेत्यर्थः ।