________________
५५
सूत्र - १, द्वितीय किरणे लक्ष्यः । सर्वजीवर्तिनी चेयं चेतना, सूक्ष्मनिगोदापर्याप्तेष्वपि सर्वजघन्या साऽस्त्येव, त्रैलोक्यवर्तिनां सर्वपुद्गलानां कर्मतया परिणतानामपि सर्वात्मना चेतनां समावरीतुं सामर्थ्याभावादतो न क्वाऽप्यव्याप्तिः । न वाऽसम्भवोऽचेतन आत्मेति विरुद्धत्वादश्रावणश्शब्द इतिवत् । एवञ्च चेतनैवात्मनि प्रमाणं, सुखदुःखादयो हि यथाऽऽत्मसंवेदनसिद्धास्तथा संशयादिविज्ञानमपि स्वसंवेदनसिद्धमेव, यद्धि प्रत्यक्षं न तत्प्रमाणान्तरेण साध्यं भवति, न च सर्वे प्रत्यया निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति
शून्यवादिनमनुमातारं प्रति प्रत्यक्षसिद्धमपि सग्रामनगरं विश्वं साध्यत एवेति वाच्यम्, तत्र बाधकप्रमाणस्यैव निराकरणात्, अत्र त्वात्मग्राहके प्रत्यक्षे बाधकप्रमाणाभावात् । ज्ञातवानहं जानेऽहं ज्ञास्याम्यह-मित्यादिकालिककार्यव्यपदेशविषयाहम्प्रत्ययत आत्मनः प्रत्यक्षसिद्धत्वाच्च । न चाहम्प्रत्यय आनुमानिकोऽलैङ्गिकत्वात् । नाप्यागमादिप्रमाणसम्भवस्तदनभिज्ञानामपि तस्योत्पादात् । न चास्या देह एव विषयो मृतदेहेऽपि तदुत्पत्तिप्रसङ्गात् । नापि निराश्रयः अहमित्यादिज्ञानस्य गुणत्वेन गुणिनमन्तरेणासम्भवात्, न देहोऽत्र गुणी, मूर्तत्वाज्जडत्वाच्च ज्ञानस्य त्वमूर्तत्वाद् बोधरूपत्वाच्च । न चाननुरूपाणां गुणगुणिभावो युज्यते, आकाशरूपादीनामपि तद्भावप्रसङ्गात् । तस्मादहम्प्रत्ययग्राह्यत्वादात्मा प्रत्यक्ष एव । तदपलापेऽश्रावणः शब्द इतिवत्प्रत्यक्षविरुद्धः पाभासः स्यात् । यथा च रूपादिगुणप्रत्यक्षाद् गुणी घटः प्रत्यक्षः तथा संशयस्मृतिजिज्ञासादिज्ञानविशेषाणां स्वसंवेदनप्रत्यक्षसिद्धत्वाद्गुणी जीवोऽपि प्रत्यक्षसिद्ध एव । तथेन्द्रियमपि न विज्ञातृ, तदुपरमेऽपि तदुपलब्धार्थानुस्मरणात् । अतः प्रत्यक्षोऽयमात्मा स्वदेहे । परदेहे पुनरिष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्सात्मकत्वमनुमेयम् । परशरीरं सात्मकं, इष्टानिष्टप्रवृत्तिनिवृत्तिदर्शनात्स्वशरीरवत् । तथाऽस्ति देहस्य विधाता, आदिमत्प्रतिनियताकारत्वात् घटवद्,यत्पुनरकर्तृकं तदादिमत्प्रतिनियताकारमपि न भवति यथाऽभ्रं । मेर्वादौ व्यभिचारवारणायादिमदिति विशेषणम् । तथा इन्द्रियं साधिष्ठातृकं, करणत्वाद्दण्डादिवत्, देहादयस्सभोक्तृका भोग्यत्वात् वस्त्रादिवदित्यनुमानानि साधकानि बोध्यानि । न च विधात्रादिसाधकहेतूनां साध्यविरुद्धसाधकत्वं, घटादिकर्तृणां मूर्तिमत्त्वात्संघातरूपत्वादनित्यस्वभावत्वाच्च, सिषाधयिषितश्चैतद्विपरीतो जीव इति वाच्यम्, संसारिणो जीवस्यैव
१. आत्मा न प्रत्यक्ष इत्यत्रेति भावः ॥ २. जीवोऽस्ति तद्गुणप्रत्यक्षत्वाद्धटवदिति प्रयोगोऽपि बोध्यः ॥ ३. अत एव च विरुद्धत्वम् । तत्र हेतुमाह घटादीति ॥