________________
५४
तत्त्वन्यायविभाकरे
अथ द्वितीयकिरणः ॥
ननु सर्वमिदं तदोपपद्यते जीवो नाम कश्चन पदार्थः प्रमाणपदं यद्यवतरेत्, यस्य मुक्तये तत्त्वोपदेशो भवेत्, तत्रैव च मानं न पश्यामः लोके हि यदत्यन्तमप्रत्यक्षं तन्नास्त्येव यथा गगनारविन्दं, यत्त्वस्ति तत्प्रत्यक्षेण गृह्यत एव यथा घटादिकं, न चायाति जीवः कदाचन प्रत्यक्षगोचरतां, ततो नास्त्यात्मा, न चासावनुमानगम्यः, लिङ्गलिङ्गिनोः क्वचिदध्यक्षतोऽविनाभावग्रहेणैवानुमानप्रवृत्तेः न च लिङ्गिनाऽऽत्मना कस्यापि सिद्धोऽस्ति प्रत्यक्षेणाविनाभावो लिङ्गस्य, तथा सति जीवस्य प्रत्यक्षत एव सिद्धावनुमाननैरर्थक्यं स्यात् । न चादित्यो गतिमान् देशान्तरप्राप्तेर्देवदत्तवदिति सामान्यतोदृष्टानुमानेनादृष्टाया अप्यादित्यस्य गतेरनुमानवदत्रापि जीवस्सिद्ध्यतीति वाच्यम्, दृष्टान्ते देवदत्तादौ सामान्यतो देशान्तरप्राप्तेर्गतिपूर्वकत्वमध्यक्षतोऽवधार्यैव सूर्ये तत्साधनात्, न चात्र तथा क्वचिदपि दृष्टान्ते जीवसत्ताऽविनाभूतं साधनं किमपि प्रत्यक्षेण लक्ष्यते । न चाप्यागमगम्यस्सः, वस्तुतस्तस्यानुमानादभिन्नत्वात्, न च कस्यचित्प्रत्यक्षो जीवो यस्य वचनमागमः स्यात्प्रमाणञ्च भवेत् । तथा च सर्वमिदं निरूपणमरण्यरुदितनिभमित्याशङ्कायां जीवासाधारणधर्मात्मकलक्षणप्रदर्शनद्वाराssत्मानं साधयति -
तत्र चेतनालक्षणो जीवः । १ ।
तत्रेति । नवसु तत्त्वेषु मध्य इत्यर्थः । चेतना लक्षणमर्साधारणो धर्मस्स्वरूपं वा यस्य सः, चेतनया लक्ष्यतेऽसाविति वा चेतनालक्षण:, अत्र जीव इति लक्ष्यं, चेतनालक्षण इति लक्षणम् । चेतना-बुद्धिः-संवेदनं, सैषा जीवस्य पर्यायः, तदेव सामान्यं लक्षणम्, जीवो
१. कथञ्चिद्भेदापेक्षयेदं स्वरूपमिति तु कथञ्चिदभेदापेक्षया । तथा च लक्षणशब्दो भेदाभेदद्योतक इति भावः । तथा च जीवश्चैतन्यमेव चैतन्यमपि जीव एव परस्परेणाविनाभूतत्वादिति बोध्यम् ॥