________________
सूत्र - १३, प्रथम किरणे
४५
तस्माद्दशविधत्वं बोध्यम् । दर्शनावरणीयनवकं, दर्शनं सामान्योपलम्भः, तस्यावरणमावारकं, तच्च द्विविधं दर्शनलब्धेर्दर्शनोपयोगस्य चावरणभेदात्, तत्राद्यं चतुर्विधं चक्षुरचक्षुरवधिकेवलदर्शनावरणभेदात् द्वितीयन्तु पञ्चविधं निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचलास्त्यानद्धिरूपेण, उभयमपि मिलित्वा दर्शनावरणीयनवकमुच्यते । नीचेोत्रं गर्हितकुलप्रभवप्रयोजकं कर्म, असातं विशिष्टदुःखप्रयोजकं कर्म, तत्त्वार्थश्रद्धानविपर्ययप्रयोजकं कर्म मिथ्यात्वं । स्थावर दशकं स्थावरसूक्ष्मापर्याप्तसाधारणास्थिराशुभदुर्भगदुस्स्वरानादेयायशःकीर्तिप्रयोजककर्मात्मकं, नरकत्रिकं नरकगतिनरकायुर्नरकानुपूर्वीप्रयोजककर्मलक्षणं, कषायपञ्चविंशतिः, क्रोधमानमायालोभाः कषायास्ते प्रत्येकमनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसंज्वलनप्रभेदतष्षोडशविधाः । हास्यरत्यरतिशोकभयजुगुप्सापुरुषवेदस्त्रीवेदनपुंसकवेदभेदतो नव नोकषाया ईषत्कषायरूपत्वेनोभयसंमेलनतः कषायाणां पञ्चविंशतिर्भवति । तिर्यग्द्विकं तिर्यग्गतितिर्यगानुपूर्वीप्रयोजककर्मद्वयं, एकद्वित्रिचतुर्जातयः-एकेन्द्रियजातिद्वीन्द्रियजातित्रीन्द्रियजातिचतुरिन्द्रियजातिरूपाः, कुखगतिः कुत्सिताम्बरगमनप्रयोजकं कर्म, उपघातं स्वावयवैस्स्वपीडाप्रयोजकं कर्म, अप्रशस्तवर्णचतुष्कं नीलकृष्णावप्रशस्तवर्णो, दुरभिरप्रशस्तगन्धः, तिक्तकटू अप्रशस्तरसौ, कठिनगुरुरूक्षशीता अप्रशस्तस्पर्शाः, एषामुदयप्रयोजककर्मचतुष्टयं, अप्रथमसंहननसंस्थानानि ऋषभनाराचनाराचार्धनाराचकीलिकासेवार्त्तलक्षणबन्धविशेषप्रयोजककर्माण्यप्रथमसंहननानि, न्यग्रोधपरिमण्डलसादिकुब्जवामनहुण्डनिदानकर्माण्यप्रथमसंस्थानानि । एषां द्वन्द्वस्ततस्तान्येव भेदस्तस्मादिति समासः । तत्र ज्ञानावरणीयपञ्चकं ज्ञानावरणीयस्यान्तरायपञ्चकमन्तरायस्य, दर्शनावरणीयनवकं दर्शनावरणीयस्य, मिथ्यात्वकषायपञ्चविंशतिरूपाः षड्विंशतिविधा मोहनीयस्य प्रकृतयः । नरकायुरायुषो नीचैर्गोत्रं गोत्रस्यासातं वेदनीयस्य प्रकृतिः । शेषाणि नरकगत्यानुपूर्वीतिर्यग्गत्यानुपूर्धेकद्वित्रिचतुरिन्द्रियजात्यप्रथमसंहननपञ्चकाप्रथमसंस्थानपञ्चकाप्रशस्तवर्णचतुष्कोपघातकुखगतिस्थावरदशकानि चतुस्त्रिंशन्नामप्रकृतयो विज्ञेयाः ॥
પાપતત્ત્વના પ્રભેદો (૧ થી ૧૦) જ્ઞાનાન્તરાયદશક- જ્ઞાનો અને અંતરાયોનું દશક. વિશેષ રૂપ વિષયના બોધ રૂપ જ્ઞાનો મતિ આદિ રૂપથી પાંચ પ્રકારના છે. અહીં કર્મ પ્રસ્તાવની અપેક્ષાએ જ્ઞાનપદથી મતિ આદિ જ્ઞાન આવરણોનું ગ્રહણ છે.
તથાચ પાંચ પ્રકારના જ્ઞાનાવરણો, દાન-લાભ-ભોગ-ઉપભોગ-વીયમાં વિઘ્ન કરનારાં પાંચ અંતરાયકર્મો છે. તેથી જ્ઞાનાવરણ પાંચ અને અંતરાય પાંચ મળીને દશ ભેદ રૂપ જ્ઞાનાન્તરાયદશક જાણવું.