________________
सूत्र - २३, दशम: किरणः
औपशमिकेति । उपाधिभेदाविवक्षया सम्यक्त्वमेकविधम्, सम्यक्त्वञ्चाज्ञानसंशयविपर्ययनिरासेनेदमेव तत्त्वमिति निश्चयपूर्विका जिनोदितजीवादिपदार्थेष्वभिप्रीतिः । उपाधिभेदात्तु द्विविधं त्रिविधं चतुर्विधं पञ्चविधं दशविधं । तत्र द्विविधं द्रव्यंतो भावतो वा, निश्चयेन व्यवहारेण वा, पौद्गलिकापौद्गलिकभेदेन वा, नैसर्गिकाधिगमिकभेदतो वा । काकरोच - दीपकभेदेन क्षायिकौपशमिकक्षायोपशमिकभेदेन वा त्रिविधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनभेदन चतुर्विधं, औपशमिकक्षायिकक्षायोपशमिकसास्वादनवेदकभेदेन पञ्चविधम्, इदमेव च प्रत्येकं निसर्गाधिगमभेदेन दशविधं विज्ञेयम् । द्विविधन्तु पूर्वमादर्शितम् । त्रिविधमुच्यते, कारकं सूत्रोक्ताज्ञाशुद्धा क्रिया, तस्यां परगतसम्यक्त्वस्योत्पादकत्वेन सम्यक्त्वं, तादृशक्रियावच्छिन्नं वा सम्यक्त्वं कारकसम्यक्त्वमेतच्च विशुद्धचारित्रिणां भवति । यत्सम्यक्त्वं सदनुष्ठानं रोचयत्येव केवलं न पुनः कारयति तद्रोचकं यथा श्रेणिकादीनाम् । स्वयं मिथ्यादृष्टिरभव्यो वा धर्मकथया परेभ्यो जीवादिपदार्थान् दीपयति तद्दीपकं, ननु स्वयं मिथ्यादृष्टिरथ च तस्य सम्यक्त्वं कथमुच्यते विरोधात्, मैवम्, मिथ्यादृष्टेरपि सतस्तस्य यो व्यापारविशेषस्स खलु प्रतिपत्तॄणां सम्यक्त्वस्य कारणमतः कारणे कार्योपचारादायुर्धृतमितिवत् सम्यक्त्वमित्युच्यते । अथ चतुर्विधं, मिथ्यात्वमोहनीयस्य कर्मणो यो विपाकप्रदेशरूपतया द्विविधस्याप्युदयस्य भस्मच्छन्नाग्निवद्विष्कम्भणमुपशमस्तस्मादौपशमिकं सम्यक्त्वं भवति, तत्तूपशम श्रेणिमनुप्रविष्टस्य जन्तोरनन्तानुबन्धिषु दर्शनत्रिके चोपशमं नीते भवति, तथा प्रथमतोऽनादिमिथ्यादृष्टेस्सतो जीवस्य योऽसौ सम्यक्त्वलाभस्तस्मिन् वौपशमिकं सम्यक्त्वं भवति । अनन्तानुबन्धिकषायक्षयानन्तरं मिथ्यात्वमिश्रसम्यक्त्वलक्षणत्रिविधदर्शनमोहनीयकर्मण आत्यन्तिकक्षयात्क्षायिकं सम्यक्त्वं भवति, तथोदीर्णस्य मिथ्यात्वमोहनीयकर्मणः क्षयादनुदीर्णस्य चोपशमात्सम्यक्त्वरूपतापत्तिलक्षणाद्विष्कम्भितोदयस्वरूपाच्च क्षायोपशमिकं सम्यक्त्वं भवति । पुनरनन्तानुबन्धिकषायोदयेनौपशमिकसम्यक्त्वाच्च्यवमानस्य मिथ्यात्वमद्याप्यप्राप्नुवतोऽत्रान्तरे जघन्यतस्समयप्रमाणमुत्कृष्टतष्षडावलिकाः सास्वादनसम्यक्त्वं भवति । वेदकसम्यक्त्वेन पूर्वोक्तानि चत्वारि गृहीत्वा सम्यक्त्वस्य पञ्चविधत्वमपि । क्षपण प्रतिपन्नस्यानन्तानुबन्धिकषायचतुष्टयं क्षपयित्वा मिथ्यात्वमिश्रपुञ्जेषु सर्वथा क्षपितेषु
७४१
९. विशेषेण विशुद्धिकृता मिथ्यात्वपुद्गला एव द्रव्यतः सम्यक्त्वं, भावतस्तु तदुपष्टम्भोपजनितो जीवस्य जिनोक्ततत्त्वरुचिपरिणामः, देशकालसंहननानुरूपं यथाशक्ति मुनिवृत्तं यथावत्संयमानुष्ठानरूपं सम्यक्त्वं नैश्चयिकम् । सम्यक्त्वहेतुसहित उपशमादिलिङ्गगम्यश्शुमात्मपरिणामो व्यावहारिकसम्यक्त्वम् । क्षायोपशमिकं पौद्गलिकसम्यक्त्वं क्षायिकमौपशमिकञ्चापौद्गलिकमिति भावः ॥