________________
६९२
तत्त्वन्यायविभाकरे चैवं रूपस्याप्यत्यन्तोच्छेदाभावेन व्यभिचारात्, मुक्तावनित्यबुद्ध्यादीनामत्यन्तोच्छेदस्यास्माभिरपि स्वीकृतत्वेन सिद्धसाधनाच्च ॥ तथा स्वस्वरूपे चैतन्यमात्रेऽवस्थानमात्मनो मोक्ष इति कपिलमतमपि प्रमाणबाधितं, चैतन्यविशेषेऽनन्तज्ञानादौ स्वरूपेऽवस्थानस्य मोक्षत्वसाधनात् । न ह्यनन्तज्ञानादिकमात्मनोऽस्वरूपं सर्वज्ञत्वादिविरोधात् । प्रधानस्य सर्वज्ञत्वादिस्वरूपं नात्मन इति चेन्न, तस्याचेतनत्वादाकाशादिवत्, ज्ञानादेरप्यचेतनत्वादचेतनप्रधानस्वभावत्वं युक्तमेवेति चेत्कुतस्तदचेतनत्वसिद्धिः, अचेतना ज्ञानादय उत्पत्तिमत्त्वाद् घटवदित्यनुमानादिति चेन्न, हेतोर्बुद्धिनिष्ठप्रतिबिम्बहेतुबिम्बचैतन्यलक्षणेनानुभवेन व्यभिचारात्, तस्य चेतनत्वेऽप्युत्पत्तिमत्त्वात् । न च कथमुत्पत्तिमाननुभव इति वाच्यम्, बुद्ध्यादिवत्परापेक्षत्वात् । परापेक्षो ह्यसौ बुद्ध्यध्यवसायापेक्षत्वात्, बुद्धिप्रतिबिम्बितमर्थं पुरुषश्चेतयत इति वचनात् । बुद्ध्यध्यवसितार्थानपेक्षत्वेऽनुभवस्य सर्वत्र सर्वदा सर्वस्य पुंसोऽनुभवप्रसङ्गात्, सर्वदा सर्वदर्शित्वापत्तेस्तदुपायानुष्ठानवैयर्थ्यमेव स्यात्, यदि पुनरनुभवसामान्यमात्मनो नित्यमनुत्पत्तिमदेवेति मतं तदा ज्ञानादि सामान्यमपि नित्यत्वादनुत्पत्तिमद्भवेदिति तव हेतुरसिद्धः । न च ज्ञानादिविशेषाणामुत्पत्तिमत्त्वान्नासिद्ध इति वाच्यम्, तर्खनुभवविशेषाणामप्युत्पत्तिमत्त्वाद्व्यभिचारापत्तेः । न चानुभवस्य न विशेषास्सन्तीति वाच्यं, वस्तुत्वविरोधात् । सकलविशेषरहितत्वे हि खरविषाणवदनुभवोऽवस्त्वेव भवेत् । न चात्मनानेकान्तः, तस्यापि सामान्यविशेषात्मक त्वादन्यथाऽवस्तुत्वापत्तेः । कालात्ययापदिष्टश्चोत्पत्तिमत्त्वहेतुः, ज्ञानादीनां स्वसंवेदनप्रत्यक्षत्वाच्चेतनत्वप्रसिद्धः, न च चेतनसंसर्गादचेतनस्यापि ज्ञानादेश्चेतनत्वप्रतीतिः प्रत्यक्षतो भ्रान्तैवेति वाच्यम्, शरीरादेरपि चेतनत्वप्रतीतिप्रसङ्गात् चेतनसंसर्गाविशेषात् । न च शरीराद्यसम्भवी बुद्ध्यादेरात्मना संसर्गविशेष इति वाच्यम्, कथञ्चित्तादात्म्यातिरिक्तस्य संसर्गस्याभावात् । ततो नाचेतना ज्ञानादयः स्वसंविदितत्वात्, अनुभववत्, ते स्वसंविदिताः परसंवेदनान्यथानुपपत्तेः, तथाचात्मस्वभावा ज्ञानादयः चेतनत्वादनुभववत्, इति न चैतन्यमात्रेऽवस्थानं मोक्षः, अनन्तज्ञानादिचैतन्यविशेषेऽवस्थानस्य मोक्षत्वप्रतीतेरिति ॥ नन्वत्यन्तज्ञानसन्तानोच्छेद एव मोक्षः, तथाहि बद्धस्य संसारिणो मोक्ष इति वक्तव्यं बन्धश्च रागादिभिः, स चैकान्तनित्य आत्मनि न संभवति विकारापत्तेः, तस्मान्नात्मनो बन्धो नवा मोक्षस्तयोरनुपपत्त्या च तादृशात्मनोऽभाव एव युक्तः, ज्ञानस्य कार्यतया विकारित्वेन रागादियोगेन बन्धसम्भवात् कथञ्चिद्भावनाबलेन तद्विगमाच्च मोक्ष उपपद्यते, अयमेव च तस्य मोक्षो यद्विनाश इति चेन्न,