________________
सूत्र - १, दशमः किरणः
६९१
वाऽसमर्थत्वात्, न च प्रत्येकं कारणताविरहे कथं समुदाये कारणत्वमिति वाच्यम्, प्रत्येकं देशोपकारित्वात् समुदायस्य च सम्पूर्णोपकारित्वादिति दिक् ॥ ___ ननु धर्माधर्मयोर्मुक्तौ तावदात्यन्तिकी निवृत्तिर्युक्ता, अन्यथा तदनुपपत्तेः, तन्निवृत्तौ च तत्फलभूतानां बुद्ध्यादीनामपि निवृत्तिरावश्यकी निमित्तापाये नैमित्तिकस्याप्यपायात्, मुक्तस्यात्मनोऽन्तःकरणसंयोगाभावेन न तत्कार्यस्य बुद्ध्यादेरुत्पत्तिः, तथाचाशेषविशेषगुणनिवृत्तिरुक्तौ सिद्ध्यत्येवेति चेन्नेष्टापत्तेः, को हि निवारयति मुक्तावदृष्टहेतुकानां आत्मान्तःकरणसंयोगजानाञ्च बुद्ध्यादीनां निवृत्तिम्, किन्तु कर्मक्षयहेतुकानां प्रशमसुखानन्तज्ञानादीनां निवृत्तिमेव निवारयामः, तथा च मुक्तौ कथञ्चिद् बुद्ध्यादिविशेषगुणानां निवृत्तिं कथञ्चिदनिवृत्तिर्व्यवतिष्ठते । न च ज्ञानत्वावच्छिन्न एवादृष्टान्तः करणादिहेतुत्वान्मुक्तौ तदजन्यज्ञानाद्यनुपपत्तिरिति वक्तुं युक्तम्, परैरीश्वरज्ञानादिव्यावृत्तये जन्यत्वस्य कार्यतावच्छेदककोटौ दानात्, तस्य च ध्वंसप्रतियोगिरूपत्वेन । ध्वंसाप्रतियोगिज्ञानादीनां मुक्तावनुपपत्त्य भावात् । न च जन्यत्वेन ज्ञानादीनां मुक्तावपि ध्वंस आवश्यक इति वाच्यम् । जन्यत्वेन ध्वंसहेतुत्वे मानाभावात्, प्रतियोगिनो विशिष्टय हेतुत्वेऽपि मुक्तज्ञानादीनां ध्वंसाहेतुत्वकल्पन एव लाघवात् । न चोपयोगस्य संसारदशायामन्तर्मुहूर्तादिकालनाश्यत्वदर्शनान्मुक्तावपि कालान्नाशप्रसङ्ग इति वाच्यम् । केवलज्ञानादीनां कालानाश्यत्वादुपयोगस्य क्षणिकत्वेऽपि प्रवाहतस्तदानन्त्यस्य च सिद्धान्तसिद्धत्वात् । वस्तुतस्तु अदृष्टान्तःकरणसंयोगकर्मक्षयादयो न ज्ञानोत्पत्तौ निमित्तभूताः । अपि तु आविर्भावतिरोभावावेति पूर्वमेवोक्तम् । न चात्मनो बुद्ध्यादिगुणा: कदाचिदुच्छिद्यन्ते, सन्तानरूपेण जायमानत्वात् प्रदीपवत्, अमीषां जन्मनो निरन्तरं सर्वानुभवसिद्धत्वान्नासिद्धिः, साध्यविपर्ययेण व्याप्तेरसिद्ध्या न विरुद्धः, विपक्षे गगनादौ हेतोरसत्त्वेन च नानैकान्तिक इति वाच्यम् । विकल्पासहत्वात्, सन्तानपदेन पितृपुत्रपौत्रादिक्रमेण पुरुषसम्प्रदायो गोत्राद्यपरनामा सन्तानो विवक्षितः, उत उपदानोपादेयभावेनोत्तरोत्तरकार्यपरम्परोत्पादः, अथवा सामान्येन सजातीयकार्यकारणप्रवाह इति, तत्र नाद्यस्तस्य पुरुषेष्वेव प्रसिद्ध्या गुणादौ तदसम्भवात् । न द्वितीयः, तेषामात्मोपादेयत्वेन स्वीकृततया परस्परमुपादानोपादेयभावानङ्गीकारात् । न द्वितीयः, तेषामात्मोपादेयत्वेन स्वीकृततया परस्परमुपादानोपादेयभावानङ्गीकारात् । नान्त्यो बुद्धयादिभ्यो विजातीयानामिच्छादीनामप्युत्पत्तिदर्शनेन सजातीयकार्यकारणोत्पत्त्यभावात् । स्मृत्यादीनाञ्च भवदभिप्रायेणाप्रमाणतया विजातीयानामपि सम्यग्ज्ञानादिभ्यस्संस्कारोद्बोधद्वारेणोत्पत्तेः । पाकजपरमाणुरूपादीनाञ्चैवंविधसन्तानरूपेणोत्पत्तावपि भवताऽत्यन्तोच्छेदानभ्युपगमात्, संसारस्य