________________
६९०
तत्त्वन्यायविभाकरे
कर्मविमुक्त्याऽऽत्मनस्स्वात्मन्यवस्थानमित्यनेन सङ्ग्रहनयेन मुक्तिरुक्ता, तेन ह्यावरणोच्छित्त्या व्यङ्ग्यं सुखं मुक्तिरिष्यते, संसारदशायां जीवस्वभावस्य सेन्द्रियदेहाद्यपेक्षाकारणस्वरूपावरणेनाच्छाद्यमानत्वात् प्रदीपस्यापवरकावस्थितपदार्थप्रकाशकत्वस्वभावस्येव तदावारकबृहच्छरावादिना । तदपगमे तु प्रदीपस्येव जीवस्यापि विशिष्टप्रकाशस्वभावोऽयत्नसिद्ध एवेति । न च शरीराद्यभावे ज्ञानसुखादीनामभावप्रसङ्ग इति वाच्यमप्रयोजकत्वात्, अन्यथा शरावाद्यभावे प्रदीपादेरभावप्रसङ्गस्स्यात् न च शरावादेः प्रदीपाद्यजनकत्वान्न दोष इति वाच्यम्, तथाभूतप्रदीपपरिणत्यजनकत्वे शरावादेस्तदनावारकत्वप्रसङ्गात् । व्यवहारनयेन तु स्वीकृत - पुंस्त्रीशरीरस्यात्मनस्सम्यग्ज्ञानक्रियाभ्यां साध्यः कर्मणां क्षयो मुक्तिरिष्यते, अन्वयव्यतिरेकाभ्यां तयोस्तं प्रति कारणत्वात् न च कर्मक्षयस्य मुक्तित्वेऽपुमर्थत्वं स्यादिति वाच्यम्, मुक्तेस्साक्षात् दुःखहेतुनाशोपायेच्छाविषयत्वेन परमपुरुषार्थत्वाविरोधात् । दुःखे हि द्वेषे तद्धेतून् नियमेन द्वेष्टि ततस्तन्नाशहेतुषु ज्ञानादिषु प्रवर्त्तते, ततो नाशोपायेच्छा जायत इति । न च सम्यग्ज्ञानक्रियाभ्यामित्युक्तं तन्न युक्तं सम्यग्दर्शनस्यापि हेतुत्वादिति वाच्यम् द्वयोरप्यनयोर्ज्ञानदर्शनयोस्सहचारित्वात् । ननु स्वीकृतपुंस्त्रीशरीरस्यात्मन इत्युक्तं तत्र स्वीकृतपुंशरीरस्य तु सम्यग्ज्ञानक्रियासम्भवाद्युक्तं मोक्षाधिकारित्वं स्त्रीणान्तु न तथा, तासां ज्ञानदर्शनयोस्संभवेऽपि चारित्रासंभवात्, वस्त्रपरिभोगस्यावश्यकत्वात्, अन्यथा विवृताङ्ग्यस्ताः पुरुषाणामभिभवनीया लोके गर्हणीयाश्च भवेयुः, वस्त्रपरिभोगे च परिग्रहवत्त्वेन संयमाभाव एव स्यादिति चेन्न, वस्त्रसंसर्गमात्रस्य परिग्रहत्वासंभवात्, मूर्च्छाविशिष्टस्यैव तादृशस्य परिग्रहत्वात्, अन्यथा भरतचक्रवर्त्तिनो निष्परिग्रहत्ववर्णनं केवलोत्पादश्चासंगतं स्यात्, जिनकल्पप्रतिपन्नस्य कस्यचित् साधोस्तुषारकणानुषक्ते शीते पतति सति केनाप्यविषह्यमद्य शीतमिति विचिन्त्य तस्य शिरसि वस्त्रे प्रक्षिप्ते परिग्रहत्वापातप्रसङ्गात्, तासामपि सम्यग्दर्शनादिप्रकर्षसम्भवाच्चेति दिक् । स च सर्म्यग्ज्ञानक्रियाभ्यां भवति, क्रियारहितस्य ज्ञानस्य तद्रहितायाः क्रियाया
१. ननु ज्ञानमेव प्रधानं मोक्षकारणं न क्रिया, तस्या अपि ज्ञानकार्यत्वात्, ज्ञानं हि मोक्षं प्रति कारणं, तदपान्तरालभाविनां सर्वसंयमक्रियादीनामपि तस्मात्तदेव मोक्षं प्रति प्रधानं कारणमिति चेन्न ज्ञानस्य परम्परयोपकारकत्वे क्रियाया एवानन्तर्येण प्रधानकारणत्वापत्तेः, अव्यवधानेन यदुपकारकं तस्यैव प्रधान कारणत्वात्, युगपत्कार्योत्पत्तौ द्वयोरप्यनुकूलत्वे द्वयोरपि प्राधान्यस्यौचित्यात्, अपान्तराले भवन्त्या अपि क्रियाया मोक्षासाधनत्वे केवलादपि ज्ञानान्मोक्षापत्तेः, अकारणस्यानपेक्षणीयत्वात् । द्वयोरपि सहचारित्वे च कथमेकं ज्ञानं कारणं भवेन्न क्रिया, न च क्रियैव कारणं भवतु न ज्ञानमिति वाच्यम्, तथासत्युन्मत्तादिक्रियातोऽपि मोक्षापत्तेः, तस्माज्ज्ञानक्रियोभयात् मुक्तिरिति भावः ॥