________________
सूत्र - १, दशमः किरणः
६८९ सिद्धत्वास्तित्वादिभावा अपि तदविनाभाविन एव, भव्यत्वन्तु केवलसम्यक्त्वादिनिष्पत्तिविनाशित्वेन तदुत्पत्तौ नास्त्येवेति भावः । नन्वात्माभाव एव मोक्षः, तथा हि संसारो नारकतिर्यङ्मनुष्यदेवत्वमेव, नान्यः, नारकादिपर्यायभिन्नश्च न कोऽपि जीवः, कदाचिदपि तद्भिन्नत्वेन जीवस्यानुपलब्धेः, ततो नारकादिभावनाशे जीवस्य स्वस्वरूपनाशात्सर्वथा जीवाभाव एव प्राप्त इति चेन, पर्यायमात्रनाशे पर्यायिणस्सर्वथा नाशस्यानिष्टत्वात्, नहि कनककुण्डलादिपर्यायनाशे स्वर्णस्य नाशः कस्यापीष्टः । न च संसारः कर्मकृतः, ततस्तन्नाशे संसारो नश्यति तथा तन्नाशे च जीवस्यापि नाश एवेति वाच्यम्, कारणव्यापकयोरेव कार्यव्याप्यनिवर्तकत्वात् संसारश्च कर्मकार्यमतस्तन्नाशे तन्नाशो युक्तःजीवस्तु न कर्मकृतः, अनादिकालप्रवृत्तत्वात् अतः कर्मनाशे न तस्य नाशः । विकारानुपलम्भाच्च न सर्वथा विनाशधर्मा, दृश्यन्ते हि मुद्गरादिना ध्वस्तस्य घटस्य कपाललक्षणा विनाशधर्माः, न तथा जीवस्यातो नित्यत्वं तद्धर्मत्वाच्च मोक्षस्यापि नित्यत्वम् ॥ ननु स्वात्मन्यवस्थानमित्यनेन ज्ञानादिमत्त्वं मुक्तस्योक्तं तन्न सङ्गच्छते ज्ञानकारणाभावात्, ज्ञाने हि शरीरेन्द्रियादिकं कारणं मुक्तस्य तदभावान्न ज्ञानं भवितुमर्हतीति चेन्न व्याप्त्यसिद्धेः, न हि शरीरेन्द्रियादीनि ज्ञानस्य कारणं व्यापकं वा, येन तन्निवृत्तौ तस्यापि निवृत्तिः स्यात्, ज्ञानस्यात्मस्वभावत्वेन शरीरादिनिवृत्तावपि न तन्निवृत्तिः, तस्मादस्ति मुक्तो जीवस्स च ज्ञानरहित इति विरुद्धं वचनमेव । स्वात्मनि देहे प्रत्यक्षानुभवादेव जीवस्य ज्ञानस्वरूपत्वसिद्धेः, इन्द्रियव्यापारोपरमेऽपि तद्व्यापारोपलब्धार्थानुस्मरणादिन्द्रियसत्त्वेऽपि चान्यमनस्कतायामनुपलम्भात् । अदृष्टा श्रुतानामप्यर्थानां तथाविधक्षयोपशमपाटवाव्याख्यानाद्यवस्थायां कदाचित्स्फुरणाच्च तस्मात्सर्वदा प्रकाशमय एव जीवः, परं संसार्यवस्थायांछद्मस्थः किञ्चिन्मात्रमवभासयति क्षीणाक्षीणावरणछिदैश्चावभासनात्, सच्छिद्रकुड्याद्यन्तरितप्रदीपवत् । मुक्तावस्थायाञ्च सर्वावरणक्षयात्सर्वमर्थं प्रकाशयति, विगतकुड्याद्यावरणप्रदीपवत्, न तु जीवस्य तदानीं प्रकाशाभावः, इति सिद्धं तदानीं ज्ञानस्वरूपत्वम् । एवं सुखादि स्वरूपत्वमपि भाव्यम् । अत्र कृत्स्न
१. आत्मा हि सामान्यतो निखिललोकालोकवर्तिपदार्थानां सम्यक् परिच्छेदनिपुणः, परं च कर्मपटलावृत्ततज्ज्ञानत्वादस्मदादीनां विषयेषु संशयाऽज्ञानविपर्यया अतीतादिविप्रकष्टादिपदार्थेष्वसम्यकप्रतीतिश्चाविर्भवति, निःशेषतया ज्ञानावरणादिकर्ममलापगमे च प्रतिबन्धकाभावेन निखिलपदार्थज्ञानस्वभावतायां न कोऽपि विरोध इति भावः ॥ २. एवं सुखस्वरूपोऽप्यात्मा, यथा संसारिणः सुखदुःखे परस्परानुषक्ते न तथा मुक्तात्मनः, दुःखमूलस्य शरीस्स्याभावात्, आत्मस्वरूपत्वाच्च सुखस्य । न चेदं सुखं दुःखाभावरूपम्, मुख्य बाधकाभावात् रोगान्मुक्तोऽहं सुखी जात इत्यादौ सुखीति पदस्य पौनरुक्त्यापत्तेः ईदृशजडरूपात्मतत्त्वस्य मोक्षस्य पुंसामुपादेयत्वासंभवात् सांसारिकसुखस्य दुःखरूपत्वादेवात्यन्तिकसुखविशेषलिप्सयैव मुमुक्षूणां प्रवृत्तेश्चेत्यभिप्रायेणाहएवं सुखादिस्वरूपत्वमपि भाव्यमिति ॥