________________
अथ दशमः किरणः तदेवं बन्धविगमोपायभूतसंवरनिर्जरानिरूपणोत्तरकालं. बन्धं प्ररूप्य तत्प्रतिद्वन्द्विभूतमवसरप्राप्तमोक्षतत्त्वं निरूपयति -
कृत्स्नकर्मविमुक्त्याऽऽत्मनः स्वात्मन्यवस्थानं मोक्षः ।१।
कृत्स्नेति । कृत्स्नं निखिलं यत्कर्म मूलोत्तरप्रकृतिभेदभिन्नं तस्य या विमुक्तिरात्मप्रदेशेभ्योऽत्यन्तमपगमस्तयाऽऽत्मनो यत्स्वात्मन्यवस्थानं स्वस्वभावेन वर्त्तनं स मोक्ष इत्यर्थः । विमुक्तिपदेन कृत्स्नस्य कर्मपुद्गलस्य कर्मत्वेन रूपेण क्षयोऽत्र विवक्षितो न द्रव्यत्वेन, तन्मुखेन तस्य नित्यत्वात्, कर्मत्वेनैव तस्य नाशात्, कर्मयोग्यपुद्गलेष्वात्मना परिगृहीतेष्वेव कर्मत्वपर्यायोत्पादेन तस्मादत्यन्तमपगतेषु तेषु तत्पर्यायनाशेन तद्रूपेण तेषामपि नाशात् । ननु पौगलिककर्मप्रकृतीनामेव किं निरासो मोक्षः, उतौपशमिकक्षायोपशमिकौदयिकक्षायिक पारिणामिकानां भावानामपीत्याशंकायामाहाऽऽत्मन इति, तथा च स्वस्य यत्स्वरूपं तस्मिन्नवस्थानं वर्तनमित्यर्थः, तेन केवलसम्यक्त्वज्ञानदर्शनानि जीवस्य स्वरूपं तद्रूपेणाऽऽत्मनोऽवस्थानं मोक्षः, एते च भावाः क्षायिकाः, औपशमिकक्षायोपशमिकौदयिकानान्तु सर्वथा अभाव एवेति सूचितम्, कथमेषामभाव इत्यत्राह विमुक्तयेति, कर्मत्वेन पुद्गलसत्त्वे ह्युपशमादयः सम्भवन्ति, तस्यैव विमुक्तया तदाधाराणां तेषां सम्भव एव नास्ति, यस्तु न तदाधारः क्षायिकादिर्भावस्सोऽस्त्येव त्रिविधदर्शनमोहनीयादीनामात्यन्तिकक्षयेणैव केवलसम्यक्त्वादीनां भावादिति भावः । एतेन सर्वथाऽऽत्माभावो मोक्ष इति निरस्तं मोक्षाधारपदार्थस्याऽऽवश्यकत्वात् । न च केवलसम्यक्त्वज्ञानदर्शनानामेव यदि सत्त्वं तद्दनन्तवीर्यसुखादीनामपि निवृत्तिप्रसङ्ग इति वाच्यम् । तदविनाभावित्वेन तेषामत्रैवाऽन्तर्गतत्वात्, अनन्तसामर्थ्याभावे हि नानन्तावबोधस्संभवति, सुखमपि च न ज्ञानातिरिक्तं किञ्चिदपि तु ज्ञानविशेषरूपमेव, एवं ___ १. धर्मिणमात्मानं विना सदनुष्ठानमोक्षादीनां विचारायोग्यत्वात्, नहि वन्ध्यासुतस्याभावे तन्निष्ठसुरूपकुरुपत्वादीन् कश्चिदारभते चिन्तयितुमिति भावः ॥