________________
६६२
तत्त्वन्यायविभाकरे
प्रथमसमय एव चोपशमसम्यक्त्वं लभते । अत्रोदयोदीरणादीनां निवृत्तेरीदृशोपशमनाकरणाध्यवसाय एवोपशमनेत्युच्यते । परं तत्रौपशमिकलाभप्रथमसमयादारभ्य मिथ्यात्वदलिकं प्रतिसमयं यावदन्तर्मुहूर्तं सम्यक्त्वसम्यङ्मिथ्यात्वयोस्संक्रमयति, प्रथमस्थितिचरमसमये द्वितीयस्थितिगतदलिकस्यानुभागभेदेन शुद्धमिश्राशुद्धतया विभक्तत्वात् । अयं गुणसंक्रम उच्यतेऽन्तरकरणस्थितेनौपशमिकसम्यक्त्वलक्षणप्रशस्तगुणान्वितेन क्रियमाणत्वात् । इत्येवं सम्यक्त्वोत्पादो निरूपितः । ईदृशौपशमिकसम्यक्त्वयुतो न चारित्रमोहोपशमाय यतते किन्तु वेदकसम्यग्दृष्टिः क्षायोपशमिकसम्यग्दृष्ट्यपरनामा, स चाविरतो देशविरतस्सर्वविरतो वा विशोध्यद्धायां वर्त्तमान एव, संक्लेशाद्धायां वर्तमानस्तु न चारित्रमोहनीयोपशमनाय प्रवर्त्तते । तत्राविरतो यथाप्रवृत्त्यपूर्वकरणे विधाय देशविरतस्सर्वविरतो वा भवति देशविरतस्तु करणद्वयं कृत्वा सर्वविरतिमवाप्स्यति, अनयोः प्रतिपत्त्यनन्तरं यावदन्तर्मुहूर्तं वर्धमानपरिणामनियमात् तावन्मानां उदयावलिकाया उपरि गुणश्रेणि प्रतिसमयं दलिकरचनापेक्षयानन्तगुणवृद्धामारचयति ततः परं कोऽपि वर्धमानपरिणामः कोऽपि च हीयमानपरिणामः कोऽप्यवस्थितपरिणामश्च भवति । वर्धमानपरिणाम ऊर्ध्वमपि वर्धमानां गुणश्रेणि करोति हीयमानो हीयमानामवस्थितोऽवस्थितां । परिणामह्रासेन देशसर्वविरतिपरिणामात् आभोगमन्तरेण परिभ्रष्टस्सन्तः पुनः पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा प्रतिपद्यमाना अकृतकरणा एव प्रतिपद्यन्ते, ये त्वांभोगेनैव मिथ्यात्वं गताः पुनस्तत्प्रपित्सवः करणपुरस्सरमेव प्रतिपद्यन्ते तदेवं कृतकरणाकृतकरणदेशविरतिसर्वविरतिलाभो विज्ञेयः । एवं चारित्रमोहोपशमनाऽन्यंत्र द्रष्टव्या । एवमुपशान्तमोहनीयप्रकृतयस्संक्रमणोद्वर्त्तनापवर्त्तनोदीरणानिधत्तिनिकाचनाकरणानामयोग्या भवन्ति, दर्शनमोहनीयत्रिके तूपशान्तेऽपि सङ्करमापवर्त्तने भवतः, तत्र सम्यक्त्वे मिथ्यात्वसम्यङ्मिथ्यात्वयो: सङ्क्रमः, अपवर्त्तना तु त्रयाणामपि । यद्यप्युपशान्ते मोहे संक्रमणोद्वर्त्तनापवर्त्तनान्यपि करणानि न भवन्ति ततो लक्षणे तदनभिधानान्यूनता तथापि सर्वविधोपशमनासंग्रहायैतानि विहाय लक्षणमाचरितमन्यथा देशोपशमनासङ्ग्रहो न स्यादिति । इति सर्वोपशमना संक्षेपत आदर्शिता । यथाप्रवृत्तापूर्वकरणाभ्यां प्रकृत्यादीनां देशोपशमना
१. केवलं कथञ्चित्परिणामहासाद्देशविरतोऽविरतिं सर्वविरतो वा देशविरतिं प्रतिपन्नस्सन् भूयोऽपि पूर्वप्रतिपन्नां देशविरतिं सर्वविरतिं वा करणरहितोऽपि प्रतिपद्यते एवमकृतकरणेऽनेकशो गमागमं करोतीतिभावः ॥ २. यस्त्वाभोगप्रतिपत्त्या नष्टकरणो देशविरतेस्सर्वविरते र्वा परिभ्रष्टो मिथ्यात्वञ्चगतस्स भूयोऽपि जघन्येनान्तर्मुहूर्त्तकालेन उत्कर्षतः प्रभूतेन कालेन पूर्वप्रतिपन्नामपि देशविरतिं सर्वविरतिं वा करणद्वयपुरस्सरमेव प्रतिपद्यत इतिभावः ॥ ३. गुणस्थानग्रन्थे पूर्वोक्ते ॥