________________
सूत्र - २४, नवमः किरणः
६६१
प्रकृष्टयोगलब्धित्रिकयुक्तो वा करणकालात्प्रागपि यावदन्तर्मुहूर्त प्रतिसमयमनन्तगुणवृद्ध्या विशुद्ध्याऽवदायमानचित्तसन्ततिरभव्यसिद्धिकविशोधिकमतिक्रम्य वर्तमानो मतिश्रुताज्ञानविभङ्गज्ञानानामन्यतमस्मिन् साकारोपयोगे वर्तमानो मनोवाक्कायान्यतमयोगे वा वर्तमानो विशुद्धलेश्यान्यतमयुक्तः कृतान्तस्सागरोपमकोटीकोटिप्रमाणस्थितिकायुर्वर्जसप्तकर्मा चतुस्स्थानकाशुभकर्मानुभागस्य द्विस्थानककारी द्विस्थानकशुभकर्मानुभागस्य च चतुस्स्थानकारी ज्ञानावरणीयादिसप्तचत्वारिंशद्धृवप्रकृतीस्वस्वभवप्रायोग्या: परावर्तमानमध्यस्था अतिविशुद्धपरिणामत्वेनायुर्वर्जाश्शुभा एव बनन् बध्यमानप्रकृतीनां स्थितिमन्तस्सागरोपमकोटीकोटिमात्रप्रमाणां बनन् जघन्यमध्यमोत्कृष्टयोगवशतः प्रदेशाग्रं जघन्यमध्यमोत्कृष्टरूपेण बनन् परिपूर्णे च स्थितिबन्धे पूर्वस्थितिबन्धापेक्षयापल्योपमासंख्येयभागन्यूनमन्यं स्थितिबन्धं कुर्वन् तथैवान्यमन्यं स्थितिबन्धं विदधत् बध्यमानानां प्रकृतीनामनुभागमशुभानां द्विस्थानकं प्रतिसमयमनन्तगुणहीनं बध्नन् शुभानाञ्च चतुस्स्थानकं प्रतिसमयमनन्तगुणवृद्धं कुर्वन्नेवमेवमेव यावदन्तर्मुहूर्तपरिसमाप्ति व्यापृतः परिणामविशेषाणि प्रत्येकमान्तौ त्तिकानि समुदायेनाप्यान्तर्मोहूर्तिकानि त्रीणि यथाप्रवृत्त्यपूर्वनिवृत्तिकरणानि विधायान्तौहूर्तिकीमुपशमनाद्धामवाप्नोति । करणत्रयनिरूपणा अन्यतोऽवगन्तव्या, अनिवृत्तिकरणाद्धायास्संख्येयेषु भागेषु गतेषु संख्येयतम एकस्मिंश्च भागेऽवशेषेऽन्तर्मुहूर्त्तमात्रमधो मुक्त्वा मिथ्यात्वस्यान्तरकरणं करोति, अन्तरकरणं नामोदयक्षणादुपरि मिथ्यात्वस्थितिमन्तर्मुहूर्त्तमानामतिक्रम्योपरितनीञ्च विष्कम्भयित्वा मध्येऽन्तर्मुहूर्त्तमानं तत्प्रदेश वेद्यदलिकाभावकरणं, तन्निष्पादनकालोऽप्यन्तरकरणकाल एव, सोऽप्यन्तर्मुहूर्तप्रमाणः प्रथमस्थितेः किञ्चिन्यूनोऽभिनवस्थितिबन्धाद्धया समानः । तथा हि प्रथमस्थित्यन्तरकरणे द्वे अपि अन्तर्मुहूर्तप्रमाणे युगपदारभते, अन्तरकरणप्रथमसमय एव चान्यं स्थितिबन्धं मिथ्यात्वस्यारभते स्थितिबन्धान्तरकरणे युगपत् समापयति । अन्तरकरणे च क्रियमाणे गुणश्रेणेस्संख्येयतमं भागमन्तरकरणदलिकेनोत्किरति, उत्कीर्यमाणञ्च दलिकं प्रथमस्थितौ द्वितीयस्थितौ च प्रक्षिपति । अन्तरकरणादधस्तनी स्थितिः प्रथमोपरितनी च द्वितीयेत्युच्यते, तत उदयोदीरणाभ्यां प्रथमस्थितिमनुभवन् तावद्गतो यावदावलिकाद्विकं शेषम् । तत्र स्थितस्य पूर्वप्रवृत्तो द्वितीयस्थितेस्सकाशादुदीरणाप्रयोगेण दलिकं समाकृष्योदये प्रक्षेपरूप आगालोऽत्र न भवति किन्तु केवलमुदीरणैव । साऽपि तावदेव यावदावलिकाशेषो न भवति । ततस्सापि निवर्त्तते ततः केवलेनैवोदयेन तामावलिकामनुभवति तस्यामप्यपगतायां मिथ्यात्वस्योदयोऽपि निवर्त्तते तद्दलिकाभावात् तस्मिश्चापगते उपशान्ताद्धासमागमस्तत्र