________________
सूत्र - २४, नवमः किरणः
६६३ प्रकृतिस्थित्यनुभागप्रदेशदेशोपशमनारूपेण प्रत्येकं मूलप्रकृत्युत्तरप्रकृतिविषयकत्वभेदभिन्नेन चतुर्विधा । देशोपशमना सर्वेषां कर्मणां भवति, एकद्वित्रिचतुरिन्द्रियासंज्ञिसंज्ञिपञ्चेन्द्रियतिर्यङ्नारकदेवा मनुष्याश्च यथासंभवमपूर्वकरणगुणस्थानपर्यवसाना देशोपशमनया मूलप्रकृतिमुत्तरप्रकृति वोपशमयितुं समर्थाः । देशोपशमनयोपशमितानां कर्मणामुद्वर्तनापवर्त्तनासंक्रमणरूपाणि करणानि प्रवर्तन्ते नान्यानि । दर्शनत्रिकोपशमका विरतास्स्वापूर्वकरणान्तिमसमयं यावद्देशोपशमनां कुर्वन्ति, अनन्तानुबन्धिनां विसंयोजने चातुर्गतिका अपि स्वापूर्वकरणान्तिमसमयं यावद्देशोपशमकाः । शेषचारित्रमोहनीयप्रकृतीनामुपशमनायां क्षपणायां वा यावदपूर्वकरणगुणस्थानचरमसमयं तावद्देशोपशमना । शेषप्रकृतीनाञ्च सर्वोपशमना न भवत्येव किंतु देशोपशमनैव सापि चाऽपूर्वकरणगुणस्थानं यावत् । अधिकं कर्मप्रकृत्यादिभ्यो विज्ञेयमितिदिक् ॥ लक्षणान्तर्गतोदीरणादीनां करणविशेषत्वेन ज्ञातत्वादुदयपदार्थं निर्वक्तिउदयश्चेति । स्थितिक्षयेण प्रयोगेण वा द्विविध उदयो भवति, उदयहेतूनां द्रव्यक्षेत्रकालभवभावरूपाणां प्राप्तौ स्थितेरबाधाकालरूपाया नाशे सति च यः कर्मपुद्गलानां स्वभावत उदयः प्रवर्तते स स्थितिक्षयेणोदयः । यः पुनरुदयेऽन्यस्य प्रवर्त्तमाने करणविशेषरूपप्रयोगेणोदयो भवति स प्रयोगेणोदय इत्याशयेनोक्तं कर्मपुद्गलानामित्यादिना । प्रायो यत्रोदयस्तत्रोदीरणा यत्रोदीरणा तत्रोदय इति, उदयस्योदीरणासहभावित्वाज्ज्ञानावरणपञ्चकदर्शनावरणचतुष्टयान्तरायपञ्चकसंज्वलनलोभवेदत्रयसम्यक्त्वसम्यमिथ्यात्वरूपविंशतिप्रकृति मुक्त्वा शेषाणां उदीरणावदेव साधनादिकं भवति । एतासान्तु स्वस्वोदयपर्यवसान उदीरणामन्तरेणापि केवलेनोदयेनावलिकाकालमात्रमनुभवनं भवति । विशेषोऽत्रान्यतोविलोकनीय इति ॥
- હવે ઉપશમનાને કહે છેભાવાર્થ - કર્મોને ઉદય-ઉદીરણા-નિધત્તિ-નિકાચનારૂપ કરણના અયોગ્યપણાએ વ્યવસ્થિત કરવામાં હેતુરૂપ વીર્યની પરિણતિ, એ “ઉપશમના કહેવાય છે. અને ઉદય=અબાધાકાળના ક્ષયથી કે સંક્રમઅપવર્તના આદિ કરણવિશેષથી ઉદયના સમયને પામેલા, સ્થિતિ પ્રમાણે બાંધેલા કર્મપુદ્ગલોનો અનુભવ, में 'ध्य' छे.
વિવેચન – “કર્મણામિતિ, જેવી વીર્યવિશેષથી કર્મોનું ઉદય-ઉદીરણા-નિધત્તિ-નિકાચનારૂપ કરણોના અયોગ્યપણાએ વ્યવસ્થાપના થાય છે, તેવી વીર્યપરિણતિ, એ “ઉપશમના' એવો અર્થ છે.
१. मूलोत्तरप्रकृतिविषयउदयो ध्रुवाध्रुवसाद्यनादिरूपतश्चतुर्विधः, ज्ञानदर्शनावरणान्तरायाणामुदयः क्षीणमोहान्तसमयं यावत् मोहस्योपशान्तमोहगुणस्थानकं यावत् वेदनीयनामगोत्रायुषां सयोगान्तसमयं यावद्भाव्यः, तत्र स्थित्युदयमधिकृत्याह स्थितिक्षयेणेति । अनुभागमधिकृत्याह प्रायो यत्रेति ॥