________________
सूत्र - २२, नवमः किरणः
६५३ कर्मस्थितीति । कर्मपरमाणूनां दीर्घस्थित्यनुभागवतां दीर्घस्थित्यनुभागावपहृत्य हुस्वस्थितिरसवत्तया व्यवस्थापने प्रयोजकीभूतवीर्यविशेष इत्यर्थः । उदयावलिकाया बाह्यान समयमात्रद्विसमयमात्रादिस्थितिभेदानपवर्तयति । उदयवतीनामनुदयवतीनां प्रकृतीनामुदयसमयादारभ्यावलिकामात्रा स्थितिरुदयावलिकेति विज्ञेया । ते चापवर्त्यमानास्थितिविशेषा यावद्वंधावलिकाहीना सर्वा कर्मस्थितिस्तावल्लभ्यन्ते । उदयावलिकाया उपरितनी या समयमात्रा स्थितिस्तस्या दलिकमपवर्तयन्नुदयावलिकाया उपरितनौ द्वौ त्रिभागौ समयोनावतिक्रम्याधस्तेन समयाधिके तृतीये भागे निक्षिपति, एष जघन्यो निक्षेपो जघन्या चातीत्थापना, यदाचोदयावलिकाया उपरितनी द्वितीया स्थितिरपवर्त्यते तदातीत्थापना प्रागुक्तप्रमाणा समयाधिका भवति निक्षेपस्तु तावन्मात्र एव । एवं तृतीया यदापवर्त्यते तदा प्रागुक्तमानाऽतीत्थापना द्विसमयाधिका भवति निक्षेपस्तु तावानेव । एवमतीत्थापना प्रतिसमयं तावद्वर्धयितव्या यावदावलिका परिपूर्यते निक्षेपविषयाणां स्थितीनाञ्च समयाधिक आवलिकात्रिभाग एवानुवर्त्तते, ततः परमतीत्थापना सर्वत्र तावन्मात्रैव प्रवर्त्तते, निक्षेपस्तु यावद्वन्धावलिकातीत्थापनाऽऽवलिकारहिताऽपवर्त्यमानास्थितिसमयरहिता च सकलापि कर्मस्थितिस्तावद्वर्धते । इत्येवं निर्व्याघातापवर्तना विज्ञेया । सव्याघाताऽपवर्तनोद्वर्तनापवर्त्तनयोस्संयोगेनाल्पबहुत्वं कर्मप्रकृत्यादिभ्यो विज्ञेयम् । एवमनुभागोद्वर्त्तनापवर्त्तनादिकमपि तत एवाऽवगन्तव्यम् । उद्वर्त्तनापवर्त्तने संक्रमभेदावेव स्थित्यनुभागाश्रये इत्यलं विस्तरेण ॥
હવે અપવર્તનાકરણને કહે છેભાવાર્થ - કર્મોની સ્થિતિ અને રસમાં ઘટાડો કરવામાં પ્રયોજક વિશિષ્ટ વીર્ય, એ “અપવર્તનાકરણછે.
વિવેચન - “કર્મસ્થિતિ ઇતિ. અપવર્તના સ્થિતિ અને રસના વિષયવાળી છે, પ્રકૃતિ અને પ્રદેશના વિષયવાળી નથી. એવા આશયથી કહેલ છે કે- “સ્થિતિરસવાળા.”
કર્મપરમાણુઓની દીર્ઘ સ્થિતિ અને રસનું અપહરણ કરી હ્રસ્વ સ્થિતિ તથા રસવાળા રૂપે વ્યવસ્થા કરવામાં પ્રયોજકભૂત વીર્યવિશેષ, એવો અર્થ છે. I ૦ ઉદયાવલિકામાંથી બહાર રહેલ (ઉદયાવલિકામાં રહેલ સ્થિતિ આદિ સકલ કરણને અયોગ્ય હોઈ અપવર્તનાને અયોગ્ય છે, માટે બાહ્ય કહેલ છે.) સમય માત્ર-દ્ધિસમય માત્ર આદિ સ્થિતિના ભેદોનું अपवर्तन ७३ छ. .. --
१. अपवर्त्तना च स्थित्यनुभागविषयेव, न प्रकृतिप्रदेशविषयेत्याशयेनोक्तं स्थित्यनुभागवतामिति । के तेस्थितिविशेषा यानपवर्त्तयतीत्यत्राहोदयावलिकाया इति, उदयावलिकागतास्तुनिखिलकरणायोग्यत्वेनापवर्तनानर्हत्वात् बाह्यानिति ॥