________________
३२
तत्त्वन्यायविभाकरे
સમાધાન- કેવલ પુદ્ગલ માત્રનું પુણ્ય અને પાપ રૂપપણું નથી, પરંતુ જીવે અધ્યવસાય વિશેષ વડે ગ્રહણ કરી કર્મપણાએ પરિણમાવી, આત્માના પ્રદેશોની સાથે આધીન કરેલ કાર્મણવર્ગણાના પુદ્ગલો જ પુણ્ય-પાપ તરીકે કહેવાય છે.
જયાં સુધી તે પુદ્ગલો જીવ વડે ગ્રહણ નથી કરાતા, ત્યાં સુધી તે પુદગલ માત્ર કહેવાય છે; કર્મ રૂપ પુણ્ય-પાપ રૂપ કહેવાતા નથી, પરંતુ કર્મપ્રાયોગ્ય તરીકે જ કહેવાય છે. આવી વિશિષ્ટ વાત સૂચવવાને માટે પુણ્ય અને પાપનો તત્ત્વ તરીકે પૃથ રૂપે ઉલ્લેખ કરેલ છે. ___ अथ सम्यक् द्धाविषयीभूततत्त्वानामवान्तरप्रभेदानां बहुत्वात्तेषां सौलभ्येन बोधार्थं तत्तत्तत्त्वनिरूपणावसरे तद्भेदाननुक्त्वाऽत्रैव सामान्यतोऽवान्तरवस्तुनिर्देशात्मकमुद्देशमारचयति
जीवा अनन्ताः । ४ । जीवा इति । यद्यपि जीवानां सङ्ग्रहप्रकारभेदा अग्रे वक्ष्यन्ते तथापि तेषां संख्याया इयत्ता नास्ति न भवन्त्यसंख्याता अपीत्यभिप्रायेणानन्ता इत्युक्तम् ॥ अथाजीवान् विभजते
धर्माधर्माकाशकालपुद्गलाः पञ्चाजीवाः । ५ । धर्माधर्मेति । धर्मादयस्स्वप्रवचनप्रसिद्धा रूढसंज्ञा ज्ञेयाः, यद्वा स्वतो गतिक्रियापरिणतानां साचिव्याधानाद्धर्मः । तद्विपरीतोऽधर्मः । यस्मिन्नाकाशन्ते स्वैः स्वैः पर्यायैव्याणीत्याकाशं, स्वयं वाऽऽसमन्तात्काशत इत्याकाशं, परेषामवकाशदानाद्वाऽऽकाशं, मूर्तानामुपचयान-पचयांश्च कलयति प्रकाशयतीति कालः, पूरणगलनक्रियावत्वात् पुद्गला इति क्रिया-निमित्तास्संज्ञा बोध्याः, एषां द्वन्द्व इतरेतरयोगलक्षणः, न समाहारस्समुदायस्य प्राधान्यापत्तेः । प्रशस्ताभिधानाद्धर्मस्यादौ मोक्षपूर्गमनोपकारित्वाद्वा, तत्प्रतिपक्षित्वे सति स्थितिकारणत्वादधर्मस्य तदनन्तरं, ततस्ताभ्यां परिच्छेद्यत्वात् सर्वाधारत्वाच्चाकाशस्य, एभिरमूर्तत्वेन साधर्म्यात्ततः कालस्य, तन्निमित्तकनानापरिणामवत्त्वादमूर्तप्रतिपक्षित्वाच्च ततः पुद्गलस्य ग्रहणं बोध्यम् । न्यूनाधिकसंख्याव्यवच्छेदार्थं प्रत्येकमजीवत्वद्योतनार्थं, धर्मादयो गत्याधुपग्रहान् प्रति वर्तमानास्स्वयमेव तथा परिणमन्ते न परप्रत्ययाधीना तेषां प्रवृत्तिरिति स्वातन्त्र्यं प्रकटयितुं च पञ्चेत्युक्तम् । अजीवा इति । न जीवा अजीवाः, 'नयुक्तमिवयुक्तञ्च पदमन्यसदृशाधिकरणे वर्तत' इति न्यायेन भावान्तर एवाजीवशब्दो नाभावमात्रे वर्त्तते, यथाऽनश्वशब्दो गर्दभे वर्तते । भावान्तरानात्मकस्याभावमात्रस्याप्रसिद्धत्वाच्च ।