________________
६४७
सूत्र - २०, नवमः किरणः भाव्यम्, विशेषोऽत्र कर्मप्रकृत्यादितोऽवसेयः । अष्टमूलप्रकृतीनामष्टपञ्चाशदधिकशतसंख्याकोत्तरप्रकृतीनाञ्च या स्थितिर्हस्वीभूता सती दी(कृता दी(भूता सती हूस्वीकृता पतद्ग्रहप्रकृतिस्थितिषु वा मध्ये नीत्वा निवेशिता स स्थितिसंक्रम उच्यते, तत्र स्थितीनामन्यत्र निवेशनं न साक्षादशक्यत्वादपितु स्थितियुक्तपरमाणुद्वारैवं, ततो मूलप्रकृतीनां परस्परं संक्रमाभावात् तासां प्रकृत्यन्तरनयनलक्षणस्स्थितिसङ्क्रमो न भवति किन्तु द्वावेवोद्वर्त्तनापवर्तनालक्षणौ सङ्क्रमौ, हस्वीभूतस्य दीर्धीकरणमुद्वर्तना, दीर्घाभूतस्य हस्वीकरणमपवर्त्तनेति । एवमनुभागसंक्रमोऽपि मूलोत्तरप्रकृतिविषयः, लक्षणन्तु यस्तासां रसो हुस्वीभूतस्सन् दीर्घाकृतो दीर्घाभूतस्सन् इस्वीकृतोऽन्यप्रकृतिस्वभावेन परिणमितो वा स सर्वोऽप्यनुभागसंक्रमः, परन्तु मूलप्रकृतीनां परस्परं सङ्क्रमाभावेनान्यप्रकृतिस्वभावपरिणामरूपरससङ्क्रमो न भवति । एवं यत्संक्रमप्रायोग्यं कर्मदलिकमन्यप्रकृतिरूपतया परिणम्यते स प्रदेशसङ्क्रमः, स चोद्वलनाविध्यातयथाप्रवृत्तगुणसर्वसङ्क्रमभेदेन पञ्चविधः, घनदलान्वितस्याल्पदलस्योत्किरणमुद्वेलनं, यासां प्रकृतीनां गुणप्रत्ययो भवप्रत्ययतो वा बन्धो न भवति तासां संक्रमकरणं विध्यातसङ्क्रमः । अपूर्वकरणप्रभृतयोऽबध्यमानाशुभप्रकृतीनां सम्बन्धिकर्मदलिकं प्रतिसमयमसंङ्ख्येयगुणतया बध्यमानासु प्रकृतिषु यत्प्रक्षिपन्ति स गुणसङ्क्रमः । सर्वेषामपि संसारस्थानां जीवानां ध्रुवबन्धिनीनां बन्धे परावर्त्तमानप्रकृतीनान्तु स्वस्वभवबन्धयोग्यानां बन्धेऽबन्धे वा यस्सङ्क्रमः प्रवर्त्तते स यथाप्रवृत्तसंक्रमः । चरमसमये यत्परप्रकृतिषु प्रक्षिप्यते दलिकं स सर्वसङ्क्रम उच्यते । अत्र सर्वेषां विशेषः कर्मप्रकृत्यादितो विज्ञेय इति दिक् ॥
સંક્રમણકરણના સ્વરૂપનું વર્ણનભાવાર્થ - અન્ય કર્મરૂપપણાએ વ્યવસ્થિત પ્રકૃતિ-સ્થિતિ-અનુભાગ-પ્રદેશકને અન્ય કર્મરૂપપણાએ વ્યવસ્થા કરવામાં હેતુરૂપ વિશિષ્ટ વીર્ય, એ “સંક્રમણકરણ' કહેવાય છે.
१. तथाच कर्मपरमाणूनां हुस्वस्थितिकालतामपहाथ दीर्घस्थितिकालतया व्यवस्थापन, तेषामेव दीर्घस्थितिकालतामपहाय हुस्वस्थितिकालतया व्यवस्थापन, पुनः संक्रम्यमाणप्रकृतिस्थितीनां पतद्ग्रहप्रकृतौ नीत्वा निवेशनमिति भाव्यम् ॥
२. उद्वर्त्तनापवर्त्तनारूपी संक्रमौ तु भवत इति भावः । .. ३. यथाऽनन्तानुबन्धिचतुष्टयसम्यक्त्व-मिथ्यात्ववेदद्विकनरकद्विकवैक्रियसप्तकाहारकसप्तकमनुजद्विकोच्चौर्गोत्राणां पल्योपमासंख्येयभागमात्रमन्तर्मुहूर्तेन कालेन स्थितिखण्डमुत्किरति पुनस्तथैव द्वितीयं प्रथमखण्डाद्विशेषहीनं, एवमेव पूर्वस्मात्पूर्वस्माद्विशेषतो हीनानि स्थितिखण्डानि यावद् द्विचरमस्थितिखण्डमन्तर्मुहूर्तकालेनोत्कीर्यन्त इति ॥