________________
६४६
तत्त्वन्यायविभाकरे
प्रकृतय आयुश्चतुष्टयञ्चाध्रुवसत्ताकम् । शेषं पुनस्त्रिंशदुत्तरं प्रकृतिशतं ध्रुवसत्कर्म, ततोऽपि सातासातवेदनीयनीचैर्गोत्रमिथ्यात्वरूपं प्रकृतिचतुष्टयमपसार्यते, ततोऽवशिष्टास्सर्वा ध्रुवसत्कर्मप्रकृतयः षड्विंशत्युत्तरशतसंख्यास्सङ्क्रममधिकृत्य साद्यादिरूपतया चतुर्विधा अपि भवन्ति । आसां हि संक्रमस्संक्रमविषयप्रकृतिबन्धव्यवच्छेदे न भवति, तासां पुनर्बन्धारम्भे भवत्यतोऽसौ सादिः । तत्तद्बन्धव्यवच्छेदस्थानमप्राप्तस्य पुनरनादिः, अभव्यस्य कदाचिदपि व्यवच्छेदाभावेन ध्रुवः । कालान्तरे व्यवच्छेदसम्भवेन भव्यस्य त्वध्रुवः । अध्रुवसत्कर्मणामध्रुवसत्कर्मत्वादेव संक्रमस्साद्यध्रुवः सातासातवेदनीयनीचैर्गोत्राणान्तु परावर्त्तमानत्वात्साद्यध्रुवोऽवसेयः, बध्यमाने सातेऽसातस्य, असाते वा तादृशे सातस्य, उच्चैर्गोत्रे तथाविधे नीचैर्गोत्रस्य, नीचैर्गोत्रे तादृशे उच्चैर्गोत्रस्य संक्रमो नान्यदाऽत एषां संक्रमस्य सादित्वमध्रुवत्वञ्च । मिथ्यात्वस्य तु संक्रमो विशुद्धसम्यग्दृष्टेर्भवति, विशुद्धसम्यग्दृष्टित्वञ्च कादाचित्कमतस्तस्य संक्रमो साद्यध्रुव एवेति । मिथ्यादृष्ट्यादिप्रमत्तान्तास्सातवेदनीयस्य संक्रामकाः, परतस्संक्रम्यमाणप्रकृत्याधारभूतासातवेदनीयस्य बन्धाभावान्नेतरे तत्संक्रामकाः, अपि तु तत्र साते बध्यमानेऽसातस्यैव संक्रमः । अनन्तानुबन्धिनां मिथ्यादृष्ट्यादयोऽपूर्वकरणान्ता यश: कीर्तेस्सङ्क्रामका नेतरे, परतः केवलायास्तस्या एव बन्धेन पतद्ग्रहाभावात् । अनन्तानुबन्धिवर्जद्वादशकषायाणां नोकषायाणाञ्च मिथ्यादृष्ट्यादयो निवृत्तिबादरसम्परायान्तास्सङ्क्रामका न परे, परतस्तेषामुपशमात्क्षयाद्वा । मिथ्यात्वसम्यङ्मिथ्यात्वयोरविरतसम्यग्दृष्ट्यादय उपशान्तमोहपर्यवसानास्संक्रामकाः, न परे, परतस्तयोस्सत्ताया अभावात् । सम्यङ्मिथ्यात्वं पुनर्मिथ्यादृष्टिरपि संक्रमयति, सम्यक्त्वस्य मिथ्यादृष्टिरेव सङ्क्रामको नान्ये, मिथ्यात्वे वर्त्तमानस्यैव संक्रामकत्वात् । उच्चैर्गोत्रस्य मिथ्यादृष्टिसास्वादनौ, अन्येषां नीचैर्गोत्राबन्धकत्वात् । इतरासां मतिज्ञानावरणीयादिप्रकृतीनां सूक्ष्मसम्परायपर्यवसाना मिथ्यादृष्ट्यादयस्सङ्क्रामका न परे परतो बन्धाभावेन पतद्ग्रहाभावादिति । एवं ज्ञानावरणपञ्चकदर्शनावरणनवकषोडशकषायभय-जुगुप्सातैजससप्तकवर्णादिविंशतिनिर्माणागुरुलघूपघातान्तरायपञ्चकलक्षणा: पतद्ग्रहा ध्रुवबन्धिन्यस्सप्तषष्टिप्रकृतयस्साद्यनादिध्रुवाध्रुवरूपचतुर्भेदाः । अभव्यभव्यापेक्षया ध्रुवाधुवत्वे, स्वस्वबन्धव्यवच्छेदे पतद्ग्रहत्वभावेन तत्र संक्रमासंभवाद्बन्धारम्भे च हेतुतः पतद्ग्रहत्वेन सादित्वं तत्तद्बन्धव्यवच्छेदस्थानमप्राप्तस्यानादित्वं, शेषास्त्वध्रुवबन्धिन्योऽष्टाशीतिसंख्याः प्रकृतयोऽध्रुवबन्धित्वादेव पतद्ग्रहत्वमधिकृत्य साद्यध्रुवा भावनीयाः । मिथ्यात्वस्य पुनर्ध्रुवबन्धित्वेऽपि यस्य सम्यक्त्वमिथ्यात्वे विद्येते स एव ते तत्र संक्रमयति नान्य इति तस्य साद्यध्रुवपतद्ग्रहत्वं