________________
सूत्र - २०, नवमः किरणः
६४५ अन्यकर्मेति । तथा तथा बध्यबन्धकभावे जीवकर्मणोहि परस्परं सव्यपेक्षत्वम् । जीवाध्यवसायविशेषमाश्रित्य कर्मवर्गणान्तःपातिनो जीवस्वप्रदेशागाढाः पुद्गला ज्ञानावरणीयादिकर्मरूपतया परिणमन्ते, जीवोऽपि स्वप्रदेशावगाढतथाविधकर्मविपाकोदयात्तथापरिणमते । तत्र संक्लेशसंज्ञितेन विशोधिसंज्ञितेन वा येन वीर्यविशेषेणान्यकर्मरूपतया व्यवस्थितानांविवक्षितबध्यमानप्रकृत्यादिव्यतिरिक्ततया स्थितानां प्रकृत्यादीनां-अन्यकर्मरूपतया-बध्यमानासु प्रकृत्यादिषु मध्येऽबध्यमानप्रकृत्यादिदलिकं प्रक्षिप्य बध्यमानप्रकृतिरूपतया, बध्यमानानां वा प्रकृतीनामितरेतररूपतया परिणमयति स वीर्यविशेषस्सङ्क्रमणमित्यर्थः । यथा बध्यमानसातवेदनीयेऽबध्यमानासातवेदनीयस्य, उच्वैर्गोत्रे वा तादृशे नीचैर्गोत्रस्य तादृशस्येत्यादि । तथा बध्यमाने मतिज्ञानावरणीये बध्यमानस्यैव श्रुतज्ञानावरणीयस्य श्रुतज्ञानावरणीये वा तादृशे तादृशमतिज्ञानावरणीयस्येत्यादि । सोऽयं सङ्क्रमः प्रकृतिस्थित्यनुभागप्रदेशरूपविषयभेदाच्चतुर्विध इति सूचयितुं प्रकृतिस्थित्यनुभागप्रदेशानामित्युक्तम् । दर्शनत्रिकस्य बन्धं विनापि संक्रमाद् बन्धघटितं संक्रमलक्षणं नोक्तम् । मिथ्यात्वस्यैव हि बन्धो न सर्म्यक्त्वसम्यमिथ्यात्वयोः, विशुद्धसम्यग्दृष्टिं सम्यक्त्वसम्यङ्मिथ्यात्वयोः, पतद्ग्रहरूपबन्धाभावेऽपि मिथ्यात्वं सङ्क्रमयति, सम्यक्त्वे च सम्यङ्मिथ्यात्वम् । संक्रम्यमाणप्रकृतेराधारभूता प्रकृतिः पतद्ग्रह उच्यते, किन्तु कृतेऽन्तरकरणे प्रथमस्थितौ समयोनावलिकात्रिकशेषायां बध्यमानेष्वपि संज्वलनेषु चतुर्ध्वपि प्रकृत्यन्तरदलिकसंक्रमाभावात्तदानीं न तेषां पतद्ग्रहत्वं, तथान्तरकरणे कृते द्वयोरावलिकयोः प्रथमस्थितिसत्कयोः पुंवेदस्य प्रकृत्यन्तरसंक्रमाभावेन न पतद्ग्रहत्वं, मिथ्यात्वे क्षपिते सम्यमिथ्यात्वस्य सम्यमिथ्यात्वयोश्च क्षपितयोस्सम्यक्त्वस्योद्वलितयोस्तु सम्यक्त्वसम्यङ्मिथ्यात्वयोमिथ्यात्वस्य न पतद्ग्रहत्वमित्यादिकं विभावनीयम् । दर्शनमोहनीयचारित्रमोहनीययोरायुषां मूलप्रकृतीनाञ्च परस्परं न सङ्क्रमः । यो यस्मिन् दर्शनमोहनीये वर्तते न तस्यान्यत्र संक्रमोऽविशुद्धदृष्टित्वात् । तथा परप्रकृतिषु संक्रान्तं दलिकमावलिकामात्रकालं बन्धावलिकागतमुदयावलिकागतमुद्वर्तनावलिकागतञ्चोद्वर्तनादिसकलकरणायोग्यम्, दर्शनमोहनीयत्रिकवर्जमुपशान्तमोहनीयं सकलकरणायोग्यं द्रष्टव्यम् । तत्र सम्यक्त्वसम्यमिथ्यात्वनरकद्विकमनुजद्विकदेवद्विकवैक्रियसप्तकाहारकसप्तकतीर्थकरोच्चैर्गोत्ररूपाश्चतुर्विंशति
१. बद्धमिथ्यात्वपुद्गलानां मदनकोद्रवस्थानीयानामौषधविशेषकल्पेनौपशमिकसम्यक्त्वानुगतेन विशोधिस्थानेन शुद्धार्धविशुद्धाविशुद्धकरणादिति भावः ॥